चुल्ली
cullīस्त्री · fem.In 14 kośas: 10 synonym verses, 3 as a nānārtha head word, 13 as a meaning of another word.
चालनी तितउः शूर्पं प्रस्फोटनमथान्तिका ।चुल्ल्यश्मन्तकमुद्धानं स्यादधिश्रयणी च सा ॥ १०१८ ॥
अनुष्टुप्
genderस्त्रीfem.
अम्बरीषो भवेद्भ्राष्ट्रः कन्दुः स्वेदनिका स्मृता ।चुल्ल्यश्मन्तकमुद्ध्मानं स्मृताधिश्रयणी बुधैः ॥ ३१३ ॥
अनुष्टुप्
genderस्त्रीfem.
पिटः पेटाकपिटकावुदूखलमुलूखलम् ।भवेदुद्धानमुद्ध्मानं चुल्लिश्चुल्ली च कथ्यते ॥ २२६ ॥
अनुष्टुप्
genderस्त्रीfem.
आपूपिकः कान्दविकः क्लीबेश्मन्तकमित्यपि ।उदोध्यानं च धानं च हानं षण् चुल्ल्यपि स्त्रियाम् ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
चुल्यधिश्रयिणी स्थाली पिठरोखे चरुस्तथा ।कुटो निपो कटः कुम्भः करीरकलसौ समौ ॥ २९७ ॥
अनुष्टुप्
genderस्त्रीfem.
भक्ष्यकारेऽथ चुल्यां(ल्ल्यां?) स्यादश्मन्तं गोपुरं तथा ।स्यादधिश्रयणी चोद्धानं चऊतं(?) च सम्मतम् ॥ ४४३ ॥
अनुष्टुप्
genderस्त्रीfem.
चुल्ली चुल्लिरन्तिकाधिश्रयण्यश्मन्तिकापि च ।अश्मन्तास्मन्तमुद्धानमुध्नानमपि कीर्त्यते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल्लि (wrong syllable)
genderस्त्रीfem.
अखन्तकमखन्तं च चुल्लि-चुल्ल्यावुदः परे ।हानं धानं ध्मानं च, पिठरस्त्रिषु चोखया ॥ ५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नं (syllables merged)
genderस्त्रीfem.
अथाधिश्रयिणी चुल्ली रन्धिकानलधारिका ।अपक्वतक्रं सव्योषचातुर्जातगुडार्द्रकम् ॥ १४४३ ॥
अनुष्टुप्
genderस्त्रीfem.
शिवमल्ली झिल्लिचुल्ली वल्ली मल्ली मतल्ल्यपि ।दर्विर्वेदिः खनिः श्रोणिरश्रिरङ्गुलिरोषधिः ॥ २३०९ ॥
अनुष्टुप्
genderस्त्रीfem.
ओल्लस्त्वशुष्के त्रिषु सूरणे नाक्लिन्नेक्षणे स्यात्परवच्च चुल्लः ।पिल्लस्तथा क्लिन्न इहेक्षणेऽपिचुल्ली चितोद्धानकवाद्यभित्सु ।चिल्लस्त्रिषु क्लिन्नदृशि प्रदिष्टःक्लिन्ने च नेत्रे शशघातके ना ।स्त्रियां भवेद्गौडकवास्तुकेऽसौछल्ली स्त्रियां वीरुधि वल्कले च ॥ ७५ ॥
इन्द्रवज्राtwo metres in one verse
चुल्ली as a meaning in nānārtha verses
- धरणिकोश पक्षपक्षः साध्ये विरोधे च चुल्यां केशात्परस्तु यः । बलकालपतत्रेषु सहायपरिपार्श्वयोः ॥ Dharaṇikośa 33.3.1
- कोषकल्पतरु अन्तिकस्यादन्तिकं समीपे चुल्ल्यां ज्येष्ठस्वसरि च नाट्ये स्त्री । स्यात्स्वस्तिकश्चतुष्के गृहभेदे मङ्गलद्रव्ये ॥ ८८ ॥ Koṣakalpataru 6.1.88
- कोषकल्पतरु पक्षदेहाङ्गचुल्लीविलयोः पतत्रे नृपद्विपे मित्रसहाययोश्च । बलेऽथ केशादिपरः स वृन्दे लक्षं शरव्ये षणि(?)कैतवेऽस्त्री ॥ ४९ ॥ Koṣakalpataru 6.30.49
- नानार्थार्णवसंक्षेप अन्तिकावियोगे विधुरे तु त्रिर्योगहीनेऽपि लोहगे । अन्तिका तु स्त्रियां चुल्ल्यां समीपे भेद्यलिङ्गिका ॥ ६८ ॥ Nānārthārṇavasaṃkṣepa 4.68
- नानार्थार्णवसंक्षेप उद्धानचुल्ल्यामुद्गमने च त्रिः पुनः स्यादुद्गते तथा । उष्णीषमस्त्री मकुटे शिरोवेष्टेऽप्यथ द्वयोः ॥ २५६ ॥ Nānārthārṇavasaṃkṣepa 4.256
- नानार्थार्णवसंक्षेप अंबरीषतृणजातिविशेषे च वर्षे रोधसि वाससि । केचिच्चुल्ल्यां महाभ्राष्ट्रेऽप्याहुरन्ये कुलेऽपि च ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 6.3
- नानार्थार्णवसंक्षेप अश्मन्तकअङ्गारकस्तु ना भौमे द्वयोस्तु विहगान्तरे । अश्मन्तकं तु नप्स्त्रीत्वे चुल्ल्यां वृक्षान्तरे तु ना ॥ ४५ ॥ Nānārthārṇavasaṃkṣepa 6.45
- नानार्थार्णवसंक्षेप अधिश्रयणीसामुद्रजन्तौ सामुद्रदर्दुरे तु द्वयोरसौ । स्त्री त्वधिश्रयणी चुल्ल्यां चुल्ल्यामारोपणे पुनः ॥ १७ ॥ Nānārthārṇavasaṃkṣepa 7.17
- शब्दरत्नावली अन्तिकाचुल्ली ज्येष्ठभगिन्योश्च नाट्टोक्तौ कथ्यतेऽन्तिका । अलर्को धवलार्के स्यात् योगोन्मादितकुक्कुरे ॥ Śabdaratnāvalī 7.1.29
- त्रिकाण्डशेष अन्तिकअन्तिकं निकटे चुल्ल्यां नाटयोक्तौ चाग्रजन्तिका । अनीकोऽत्री रणे सैन्ये गौर्यां मातरि चाम्बिका ॥ ३ ॥ Trikāṇḍaśeṣa 3.3.3
- त्रिकाण्डशेष जातिसूर्यावर्तेऽपि जामाता ना वाते पिष्टपे जगत् । जातिश्छन्दसि मालत्यां चुल्ल्यां जातीफले कुले ॥ १५७ ॥ Trikāṇḍaśeṣa 3.3.157
- त्रिकाण्डशेष उद्धानविशेषे चोपधानं स्याच्चुल्ल्यामुद्धानमुद्गमे । अगम्भीरेऽपि चोत्तानः शराभ्यासेऽप्युपासनम् ॥ २३१ ॥ Trikāṇḍaśeṣa 3.3.231
- वैजयन्ती उद्धानउत्थानमुद्यमे वास्तौ तन्त्रेहापौरुषेषु च । उद्धानमुद्गमे चुल्ल्यामौशीरे दण्डचामरे ॥ ५ ॥ Vaijayantī 7.3.5