याचक
yācakaपुं · masc.In 15 kośas: 14 synonym verses, 1 as a nānārtha head word, 13 as a meaning of another word.
अर्थव्ययज्ञः सुकलो याचकस्तु वनीपकः ॥ ३८७ ॥मार्गणोऽर्थी याचनकस्तर्कुकोऽथार्थनैषणा ।अर्दना प्रणयो याच्ञा याचनाध्येषणा सनिः ॥ ३८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
genderपुंmasc.
genderविadj.
आतिथेयं तथातिथ्यमातिथेयी च कथ्यते ।अर्थी मार्गणकः प्रोक्तो याचकश्च वनीपकः ॥ ३५९ ॥
अनुष्टुप्
genderपुंmasc.
भोगावली वन्दिपाठो वसुकीटस्तु याचकः ।संसप्तकास्तु समये समरादनिवर्त्तिनः ॥ ३३३ ॥
अनुष्टुप्
genderपुंmasc.
यद्भविष्यो दैवपरस्तर्कुकस्तुवनीयकः ।स्याद्याचको याचनको मार्गणोऽथ शुभार्थिनि ॥ ९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दै (wrong syllable)
genderविadj.
अर्थव्ययज्ञः सुकलो याचकस्तु वनीयकः ।वनीपको मार्गणोऽर्थी स्तो याचनक-तर्कुकौ ॥ २० ॥
अनुष्टुप्
genderविadj.
दानं विसर्जनं त्याग उत्सर्जनविहायिते ।मार्गणो याचकोऽर्थी च तर्कुकोऽपि वनीपकः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
याचके स्याद्याचकोऽपि मार्गणो वानरोऽपि च ।अर्थी वनीपको मायी कष्टजीवी कथाकरः ॥ ६७२ ॥
अनुष्टुप्
genderपुंmasc.
याचकस्तर्कुको ग्राही मार्गणोऽर्थी वनीपकः ।धर्मः पुण्यं वृषः श्रेयः सुकृतं शुभकर्म च ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
सुकलोऽर्थव्ययज्ञः स्याद् वनीपकस्तु मार्गणः ।तर्कुको याचकश्वाऽर्थी याचनकस्तथैव च ॥ ५७५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable); pāda 4, syllable 3 न (wrong syllable)
genderपुंmasc.
दरिद्रो दुर्विधो दीनो निस्वो दुर्गत इत्यपि ।याचकोऽर्थी याचनको मार्गणश्च वनीयकः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
genderपुंmasc.
प्रसव्यो निघ्न आयत्तो वशोऽधीनश्च गृह्यकः ।स्युर्मार्गणे याचनकयाचकार्थिवनीयकाः ॥ १६२९ ॥
अनुष्टुप्
genderविadj.
शूलोऽस्त्री सीसकं लग्नाः प्रातर्गेयाः स्तुतिव्रताः ।भोगावली वन्दिपाठो वसुकीटस्तु याचकः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
अपि दुस्स्थक्रूरदीननीचदुर्गतदुर्विधाः ।मार्गणः स्याद्याचनको याचकोऽर्थी वनीपकः ॥ ६० ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्या (wrong syllable)
genderविadj.
याचक as a meaning in nānārtha verses
- धरणिकोश मार्गणवारणं प्रतिषेधः स्याद्वारणो गज उच्यते । मार्गणो याचके बाणे याच्ञान्वेषणयोरपि ॥ Dharaṇikośa 14.2.9
- कोषकल्पतरु मार्गणबाणे ना त्रिषु याचके विचयने त्वन्त्येऽर्थने मार्गणं भेद्याभः कृमिकुत्स्ययोश्च कृपणोऽप्युक्तोऽभिचारे पुनः । अन्त्ये कर्मकरे तु कार्मण इह स्याद्वाच्यवन्मत्कु[282b]ण- स्तूक्तोऽश्मश्रुणि पूरुषेऽरद इभे चोद्दंशतुङ्गद्रुषु ॥ ३३ ॥ Koṣakalpataru 6.15.33
- कोषकल्पतरु अर्थिन्अर्थी विवादिन्यपि सेवके च स्याद्याचकेऽसौ कथितश्च पुंसि । रागी तु रक्ते परवच्च कम्रे ध्वजी तु शैले रथविप्रयोश्च ॥ ८२ ॥ Koṣakalpataru 6.21.82
- कोषकल्पतरु कुसीलवस्यान्मद्यसंधानक आप्लवे चा थोपप्लवो विप्लवे राहुजन्ये । परिप्लवस्त्वाकुललोलयोः स्या- त्कुसीलवः स्यान्नटयाचकार्थः ॥ ३३ ॥ Koṣakalpataru 6.29.33
- नानार्थार्णवसंक्षेप अप्तुअप्तुस्तु याचके कालेऽप्यश्मा पाषाणमेघयोः । आधिर्मानसपीडायामधिष्ठाने तथैव च ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 2.2.11
- नानार्थार्णवसंक्षेप अर्थिन्शरीरिशेषिणोरङ्गी विशेषादङ्गवत्यपि । सेवके याचकेऽप्यर्थी व्यवहाराभियोक्तरि ॥ २ ॥ Nānārthārṇavasaṃkṣepa 2.4.2
- नानार्थार्णवसंक्षेप मार्गणमार्गस्य दातरि त्रिस्तु मार्गणो याचकेऽथ ना । बाणे च स्त्रीनपोर्याच्ञाद्वेषयोर्मार्गणाथ ना ॥ १४०० ॥ Nānārthārṇavasaṃkṣepa 4.1400
- परमानन्दीयनाममाला ध्वाङ्क्षगवि ध्वाङ्क्षस्तु काके स्याद्बकयाचकयोरपि । धातुः क्रियादिरूप्यादिमहाभूतेषु तद्गुणे ॥ २५२ ॥ Paramānandīyanāmamālā 5.17.252
- परमानन्दीयनाममाला पिण्डारपिण्डारो महिषीपाले याचके द्रमभिद्यथ । पिचुलो झाबुके नीरवायसे निचुलेऽपि च ॥ ३१२ ॥ Paramānandīyanāmamālā 5.19.312
- शब्दरत्नावली मार्गणमार्गणो याचके बाणे क्लीबमन्वेषणार्थयोः । यन्त्रणं स्यान्नियमने बन्धने रक्षणेऽपि च ॥ रवणः शब्दने तीक्ष्णे भण्डके चञ्चलेऽपि च । रमणं पटुमूले स्यान्नार्यां स्त्री स्यात्प्रिये पुमान् ॥ रोषणः क्रोधने हेमघर्षणाश्मनि पारदे ॥ Śabdaratnāvalī 7.15.57
- शब्दरत्नावली अर्थिन्अर्थी च सेवके पुंसि याचके च विवादिनि । अर्वा तु घोटके पुंसि कुत्सिते वाच्यलिङ्गकः ॥ Śabdaratnāvalī 7.20.34
- शब्दरत्नाकर मार्गणराष्ट्रक्षोभेऽपि मकरो मुकुन्दौ निधिकेशवौ । मार्गणो याचके बाणेऽन्वेषणे मार्गणं न ना ॥ २१४६ ॥ Śabdaratnākara 4.1.2146
- वैजयन्ती मार्गणमन्थरः सूचके कोपे मन्थाने मन्दगामिनि । मार्गणं मृगणायां स्यान्मार्गणो याचके शरे ॥ ६४ ॥ Vaijayantī 7.5.64