कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वनीपक

vanīpakaपुं · masc.

In 10 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.388 · p. 19
अर्थव्ययज्ञः सुकलो याचकस्तु वनीपकः ॥ ३८७ ॥मार्गणोऽर्थी याचनकस्तर्कुकोऽथार्थनैषणा ।अर्दना प्रणयो याच्ञा याचनाध्येषणा सनिः ॥ ३८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.359 · p. 42
आतिथेयं तथातिथ्यमातिथेयी च कथ्यते ।अर्थी मार्गणकः प्रोक्तो याचकश्च वनीपकः ॥ ३५९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.20 · p. 3
अर्थव्ययज्ञः सुकलो याचकस्तु वनीयकः ।वनीपको मार्गणोऽर्थी स्तो याचनक-तर्कुकौ ॥ २० ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.52 · p. 107
दानं विसर्जनं त्याग उत्सर्जनविहायिते ।मार्गणो याचकोऽर्थी च तर्कुकोऽपि वनीपकः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.672 · p. 114
याचके स्याद्याचकोऽपि मार्गणो वानरोऽपि च ।अर्थी वनीपको मायी कष्टजीवी कथाकरः ॥ ६७२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.131 · p. 32
याचकस्तर्कुको ग्राही मार्गणोऽर्थी वनीपकः ।धर्मः पुण्यं वृषः श्रेयः सुकृतं शुभकर्म च ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.575 · p. 74
सुकलोऽर्थव्ययज्ञः स्याद् वनीपकस्तु मार्गणः ।तर्कुको याचकश्वाऽर्थी याचनकस्तथैव च ॥ ५७५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable); pāda 4, syllable 3 न (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.67 · p. 163
वनीपको भिक्षुकश्च स्याद्भिक्षाकर इत्यपि ।अहङ्कारान्वितोऽहंयुः शुभंयुः स्यात् शुभान्वितः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.32 · p. 190
निर्वापणं निर्वपणं याचके तु वनीपकः ।वनीयक-वनबकौ, प्रार्थनायां तु याचना ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.60 · p. 206
अपि दुस्स्थक्रूरदीननीचदुर्गतदुर्विधाः ।मार्गणः स्याद्याचनको याचकोऽर्थी वनीपकः ॥ ६० ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्या (wrong syllable)
genderविadj.