भीति
bhītiस्त्री · fem.In 15 kośas: 16 synonym verses, 14 as a meaning of another word.
अन्तराया दानलाभवीर्यभोगोपभोगगाः ।हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥ ७२ ॥कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा ।रोगो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥ ७३ ॥
अनुष्टुप्
genderस्त्रीfem.
भयं भीर्भीतिरातङ्क आशङ्का साध्वसं दरः ।भिया च तच्चाहिभयं भूपतीनां स्वपक्षजम् ॥ ३०१ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
रौद्रश्च करुणश्चाष्टौ रसाः शान्तोऽपि च क्वचित् ।उत्साहो विस्मयो भीतिः क्रोधः शोकः शमोऽपि च ॥ १२७ ॥
अनुष्टुप्
genderस्त्रीfem.
पुंस्यूर्जोतिशये तत्र न ना वीर्यमथ स्त्रियाम् ।भिया भीर्भीतिराशङ्का क्लीबे प्रतिभयं भयम् ॥ १०१ ॥
अनुष्टुप्
genderस्त्रीfem.
आतङ्कोऽस्त्री पुमांस्त्रासो भयं साध्वसमन्तिमे ।आशङ्का-भी-भीति-भियाः[57b] स्त्रियोऽथाग्न्यादिजन्म तत् ॥ १२८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
भयं दरः साध्वसं भीराशङ्कातङ्कभीतयः ।भीषणं दारुणं रौद्रं भीष्मं प्रतिभयं तथा ॥ २१२ ॥
अनुष्टुप्
genderस्त्रीfem.
रौद्रे तूग्रं दरस्त्रासो भीतिर्भीः साध्वसं भयम् ।तिरस्क्रिया तिरस्कारे लीढावज्ञावहेलनम् ॥ १६७ ॥
अनुष्टुप्
genderस्त्रीfem.
भीतिः शोकारवः काकुरुपन्यासोऽतिवाङ्मयम् ।आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्ट[ष्ठ]नघोषणे ॥ ३६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
माया तु शठता शाठ्यं वञ्चनं विप्रतारणम् ।शङ्कातङ्कौ दरस्त्रासो भीतिर्भीः साध्वसं भयम् ॥ ९० ॥
अनुष्टुप्
genderस्त्रीfem.
पुनश्चाऽध्यवसायोऽथ वीर्यं सोऽतिशयान्वितः ।आतङ्कस्तु भयं भीतिः भिया भीः साध्वसं दरः ॥ ४४० ॥
अनुष्टुप्
genderस्त्रीfem.
दरस्त्रासः भयं भीतिरुत्त्रासः साध्वसं भयम् ।दरदो भीः प्रतिभयं भय पर्याय ईरितः ॥
अनुष्टुप्
genderस्त्रीfem.
उद्योगोऽप्यभियोगश्च वीर्यं त्वतिशयान्विते ।वीर्यापि, साध्वसे भीतिर्भीर्भिया भयमप्यथो ॥ ११८ ॥
अनुष्टुप्
genderस्त्रीfem.
दशामूनि त्रिषूमे तु बीभत्सविकृते त्रिषु ।साध्वसं तु भयं त्रासो दरो भीर्भीतिरित्यपि ॥ ९७१ ॥
अनुष्टुप्
genderस्त्रीfem.
तंकोऽस्त्री भीर्भिया भीतिः साध्वसं भयनं भयम् ।विप्रतिसारेऽनुशयः पश्चात्तापोऽनुतापवत् ॥ १८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 प्र (wrong syllable)
genderस्त्रीfem.
स्थायिभावाः क्रमादेषां रतिर्हासो जुगुप्सनम् ।उत्साहो विस्मयो भीतिः क्रोधः शोकः शमोऽपि च ॥ ७६ ॥
अनुष्टुप्
genderस्त्रीfem.
भीति as a meaning in nānārtha verses
- कोषकल्पतरु डिम्बबिम्बं फले स्यादपि बिम्बिकायाः । स्यान्मण्डले ऽस्त्री प्रतिबिम्बके स्या- ड्डिम्बोऽस्त्रियां विप्लवभीतिशब्दे । पञ्चाङ्गुलप्लीहसु फुप्फुसेऽथ स्तम्बोऽप्रकाण्डे द्रुतृणादिगुल्मे ॥ २७ ॥ Koṣakalpataru 6.24.27
- कोषकल्पतरु भयभयं तु घोरे कथितं च भीतौ कुब्जप्रसूनेऽथ मयस्तथोष्ट्रे । स्याद्दैत्यतक्ष्ण्यश्वतरे लयस्तु संश्लेषतौर्यत्रिकसाम्ययोश्च ॥ ४ ॥ Koṣakalpataru 6.26.4
- कोषकल्पतरु क्षरकार्पासके स्यादपि कूलके च स्त्रियां तु गर्भाशयभूमिवाची । मेदस्यथाम्भोमुचि च क्षरः स्या- न्नीरेऽन्तिमेऽथ त्रिषु रन्ध्रभीत्योः ॥ ४ ॥ Koṣakalpataru 6.27.4
- नानार्थार्णवसंक्षेप दरथदरथो विवरे भीत्यां दिक्षु चापि प्रसारणे । दमुनास्तु रवौ वह्वावुत्तरार्धं तु राभसम् ॥ ९७ ॥ Nānārthārṇavasaṃkṣepa 3.2.97
- परमानन्दीयनाममाला प्रदरपर्याप्तं तु निषेधे स्याद्यथेच्छापूर्णशक्तिषु । प्रदरो रोगभीत्योः स्यात्पललं मांसपङ्कयोः ॥ ३०७ ॥ Paramānandīyanāmamālā 5.19.307
- शब्दरत्नावली पाकपाकः परिणतौ स्थाल्यां शावके पेचकेऽपि च । केशादीनां जराशौक्ले राष्ट्रादिभङ्गभीतिषु ॥ Śabdaratnāvalī 7.1.14
- शब्दरत्नावली दरत्तरत्प्लवे स्त्रियामेव कारण्डविहायसि । दरत्प्रपाते भीतौ च रोगभेदे च पर्वते ॥ दारदः पारदे पुंसि विषभेदे च हिङ्गुले । दायादस्तनये पुंसि सपिण्डे च सगोत्रके ॥ नलदं स्यादूशीरे च मांस्यां पुष्परसेऽपि च ॥ Śabdaratnāvalī 7.18.15
- शब्दरत्नावली त्रासकासूः शक्त्यायुधे दीप्तौ भाषा विकलवाक्ययोः । गुत्सो हारभिदि स्तम्बे स्तबके ग्रन्थिपर्णयोः ॥ गोसो वोले च प्रत्यूषे चास इक्षुविहङ्गयोः । त्रासो भीतौ मणेर्दोषे दासी झिण्ठीभुजिष्ययोः ॥ Śabdaratnāvalī 7.32.3
- शब्दरत्नावली अङ्गअङ्ग सम्बोधनेऽसूयाहर्षसम्भ्रमभीतिषु । Śabdaratnāvalī 8.1.16
- शब्दरत्नाकर आतङ्कआतङ्को भीतिरुक्तापेष्वामोदो मुत्सुगन्धयोः । श्रोण्यां चारोह आवापो न्यास आवालभूषयोः ॥ २०४८ ॥ Śabdaratnākara 4.1.2048
- शब्दरत्नाकर संभ्रमसंभ्रमोऽत्यादरे भीतौ सायकः शरखड्गयोः । सामर्थ्ये शक्तिसंबन्धौ समितिर्युद्धसंसदोः ॥ २१८६ ॥ Śabdaratnākara 4.1.2186
- वैजयन्ती दरद्दरदो भीतिहृद्गूढा दृष्टिर्धीदर्शनाक्षिषु । द्रोणी स्यादम्बुवाहिन्यां द्रवभाण्डे गिरिप्लवे ॥ १८ ॥ Vaijayantī 6.2.18
- वैजयन्ती आतङ्करुग्भीतितापेष्वातङ्क आशुगोऽर्के शरेऽनिले । तदात्वे पात आपात आकरो निकरे खनौ ॥ ९ ॥ Vaijayantī 7.1.9
- वैजयन्ती दरथदरथो विवरे भीत्यां दिक्षु चापि प्रसारणे । द्विजातिश्च द्विजन्मा च ब्राह्मणादिपतत्रिणोः ॥ ३१ ॥ Vaijayantī 7.1.31