कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ज्ञात

jñātaवि · adj.

In 11 kośas: 9 synonym verses, 29 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1496 · p. 56
विदितं बुधितं बुद्धं ज्ञातं सितगते अवात् ।मनितं प्रतिपन्नं च स्यन्ने रीणं स्रुतं स्नुतम् ॥ १४९६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.49 · p. 27
कलितं ज्ञातं चाथ प्राप्यं गम्यं समासाद्यम् ।पाक्यं स्यात्पचनीयं त्ववश्यपाच्यं त्ववश्यपाकार्हे ॥ ४९ ॥
उद्गीतिः
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.372 · p. 98
हन्ने गूनं तथा प्रोक्तं मूत्रिते मीढमित्यपि ।ज्ञातं बुद्धं मतं चैवावगतावसिते अपि ॥ ३७२ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.73 · p. 41
विख्यातः प्रथितो ज्ञातः प्रतीतो विश्रुतोऽपि च ।दातोदारो वदान्यश्च त्राता गोप्ता च रक्षकः ॥ ७३ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.114 · p. 45
ज्ञातं बुद्धमवसितं विदितावगते अपि ।व्यत्यासस्तु विपर्यासो वैपरीत्यं विपर्ययः ॥ ११४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 द्ध (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2722 · p. 442
बुद्धञ्च बुधितं ज्ञातं मनितं विदितं पुनः ॥ २७२२ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1604 · p. 193
मार्गितमृगितान्वेषितविचितान्विष्टं गवेषितं च समम् ।अधिगतविदितज्ञातप्रतिपन्नावगतबुद्धबुधितानि ॥ १६०४ ॥
गीतिः
genderविadj.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव विशेष्यनिघ्नवर्गः Trikāṇḍaśeṣa 3.1.1 · p. 81
क्षेमङ्करोऽरिष्टतातिः स्थान्मद्रङ्करशङ्करौ ।आमुष्यायणज्ञिातौ पुत्रान्नादः कुटीचकः ॥ १ ॥
metre not recognisedimpossible sign sequence: ुष्यायणज्ञिातौ पुतnearly अनुष्टुप्: pāda 3, syllable 4 य (wrong syllable)
genderविadj.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.101 · p. 209
मनिते विदितज्ञातौ बुधिते बोधबुद्धवत् ।त्यक्ते तु विधुतोत्सृष्टहीनधूतसमुज्झिताः ॥ १०१ ॥
अनुष्टुप्
genderविadj.

ज्ञात as a meaning in nānārtha verses

  • धरणिकोश कलितप्रसूतं कुसुमे जाते निमित्तं हेतुचिह्नयोः । कलिते स्वीकृतज्ञाते [ग्रथिते क्रान्त?]गुम्फिते ॥ Dharaṇikośa 15.1.23
  • धरणिकोश सिततिक्तो रसे पर्पटिकौषधौ च तिक्तं सुगन्धे कटुका च तिक्ता । सितो निरुद्धे धवले समाप्ते ज्ञाते सिता स्यादशुचप्रकारे ॥ Dharaṇikośa 15.2.19
  • धरणिकोश प्रतीतपर्याप्तं च यथेष्टं स्याच्छक्ते तृप्तौ निवारणे । प्रतीतं ज्ञातविख्यातहृष्टेषु त्रिषु विश्रुतम् ॥ Dharaṇikośa 15.2.32
  • धरणिकोश अवसितअवसितमृद्धे ज्ञाते अवसानं गतेऽपि च । उपचितं तु समृद्धे स्याद्दिग्धे चोत्पतितेऽपि च ॥ Dharaṇikośa 15.2.84
  • धरणिकोश विषयविषयो यस्य यो ज्ञातः स तस्य कविभिः स्मृतः । इन्द्रियार्थे जनपदे विषयो गोचरेऽपि च ॥ Dharaṇikośa 25.3.19
  • कोषकल्पतरु उचितशुष्कामिषोपप्लवयोश्च तप्ते- ऽप्युत्तप्तमभ्यस्तमितेषु तु स्यात् । ज्ञातेऽपि युक्तेऽप्युचितं, त्रिषु स्या- दुद्धूतमप्युत्कलितेऽङ्कितेऽपि ॥ ७७ ॥ Koṣakalpataru 6.16.77
  • कोषकल्पतरु कलितललितं हारविभेदे विभ्रमभेदे तथा[292b]भीष्टे । स्खलितं भ्रेषे छलिते कलितं ज्ञाते तथा प्राप्ते ॥ ८३ ॥ Koṣakalpataru 6.16.83
  • कोषकल्पतरु विदितअर्थे ज्ञाते विदितं भावितमुक्तं च वासिते प्राप्ते । कुटिले वेल्लितमन्त्ये परलिङ्गं तु प्लुते विधुते ॥ ८८ ॥ Koṣakalpataru 6.16.88
  • कोषकल्पतरु विश्रुतज्ञातेऽथादरयुक्तप्रज्ञातज्ञातहृष्टेषु । परवत्प्रतीत उक्तो निर्मुक्तस्त्य[293b]क्तसङ्गे स्यात् ॥ ९८ ॥ Koṣakalpataru 6.16.98
  • कोषकल्पतरु परिगतपरिगतमुक्तं ज्ञाते प्रयातसंवेष्टितार्थे च । लब्धे न्यस्ते ख्याते समाहिते च प्रणिहितं तद्वत् ॥ ५३ ॥ Koṣakalpataru 6.17.53
  • नानार्थार्णवसंक्षेप दृष्टदर्शनीये भूषणे क्ली दृष्टं तु त्रिषु वीक्षिते । ज्ञाते क्लीबं तु भूपानां भये स्वपरचक्रजे ॥ ६१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.614
  • नानार्थार्णवसंक्षेप कलितअनाकुलेऽथ कलितं सङ्ख्याते ज्ञातबद्धयोः । आप्ते च विहिते चाह रभसः कमरः पुनः ॥ २० ॥ Nānārthārṇavasaṃkṣepa 3.4.20
  • नानार्थार्णवसंक्षेप प्रतीतप्रतीतो हर्षिते ख्याते ज्ञाते प्रत्ययिते बुधे । सादरे प्रतियातेऽथ प्रणीतः स्यात् प्रवेशिते ॥ ३२ ॥ Nānārthārṇavasaṃkṣepa 3.4.32
  • नानार्थार्णवसंक्षेप विदितविदितं सश्रुते ज्ञाते विधुतं त्वपि कम्पिते । त्यक्ते च विकृतं तु स्याद् दूरूपे व्याधितेऽपि च ॥ ५१ ॥ Nānārthārṇavasaṃkṣepa 3.4.51
  • शब्दरत्नावली मतमतं ज्ञाते सम्मते च मतिबुद्धीच्छयोः स्मृता । मन्तुः पुंस्यपराधे स्याद् विद्यातरि च मानुषे ॥ Śabdaratnāvalī 7.16.36
  • शब्दरत्नावली उचितउचितन्तु मिते त्यस्ते ज्ञाते ग्राह्ये समञ्जसे । उद्धृतन्तु त्रिषूत्क्षिप्ते संभुक्तोज्झितयोरपि ॥ Śabdaratnāvalī 7.16.91
  • शब्दरत्नावली विदितविदितञ्चाप्युपगमे ज्ञाते स्यादभिधेयवत् । विपत्तिर्यातनायाञ्च घातने चापदि स्त्रियाम् ॥ Śabdaratnāvalī 7.16.139
  • शब्दरत्नावली अवसितअथावसितमृद्ध स्याज्ज्ञातेऽवसानगे त्रिषु । अर्थपतिर्धनाधीशे भवेन्नरपतौ पुमान् ॥ अवदातो विशुद्धे स्यात्सिते गौरेऽन्यलिङ्गकम् । अवगीतन्तु दृष्टे स्यान्निर्वादे गर्हितेऽपि च ॥ अन्तर्गतं विस्मृते स्यान्मध्यप्राप्तेऽभिधेयवत् । अङ्गारितं स्यात्पलाशकलिकोद्गमदग्धयोः ॥ अपावृतं स्वतन्त्रे स्यात् पिहितेऽप्यभिधेयवत् । अत्याहितं गुरुभये जीवानपेक्षिकर्मसु ॥ अभिनीतः संस्कृते स्यादमर्षिन्याय्ययोस्त्रिषु । अभिजातः पण्डिते स्यात् त्रिषु न्याय्यकुलीनयोः ॥ Śabdaratnāvalī 7.16.153
  • शब्दरत्नावली परिगतनिराकृतिरनध्याये इनाकारे वारणे स्त्रियाम् । भवेत्परिगतः प्राप्तज्ञातविस्मृतवेष्टिते ॥ अथ प्रणिहितं प्राप्ते न्यस्तेऽपि च समाहिते । पल्लवितं विस्तृते स्याल्लाक्षारक्ते सपल्लवे ॥ अथ प्रतिहतं रुद्धे द्विष्टस्खलितयोस्त्रिषु ॥ Śabdaratnāvalī 7.16.166
  • शब्दरत्नावली प्रतिपन्नभवेत्प्रवचनं वेदे प्रशस्तवचनेऽपि च । प्रतिपन्नो वाच्यलिङ्गे ज्ञाताङ्गीकृतयोरपि ॥ Śabdaratnāvalī 7.20.116
  • शब्दरत्नावली दासदासो भृत्ये धीवरे च शूद्रे ज्ञातार्थयोरपि । नासाद्वारोर्द्धकाष्ठे स्यान्नासिकायामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.32.4
  • त्रिकाण्डशेष अवसितगते ज्ञातेऽप्यवसितमवन्तार्वश्वकुत्सितौ । अर्वती कुम्भदास्यश्वाऽथार्दितं प्रार्थिते हते ॥ १४६ ॥ Trikāṇḍaśeṣa 3.3.146
  • त्रिकाण्डशेष परिगतप्राप्ते ज्ञाते परिगतं प्रपातौ भृगुनिर्झरौ । लोकायते कच्छपे च पञ्चगुप्तः स्मृतो बुधैः ॥ १७१ ॥ Trikāṇḍaśeṣa 3.3.171
  • त्रिकाण्डशेष बुद्धरोधे निरोधो नाशे च बुद्धो ज्ञाते जिने बुधे । निषेधे बुद्धयोर्बाधो रौहिणेये कवौ बुधः ॥ २१९ ॥ Trikāṇḍaśeṣa 3.3.219
  • त्रिकाण्डशेष विन्नसमालब्धे विभक्ते च विच्छिन्नं वाच्यलिङ्गकम् । लब्धे ज्ञाते स्थिते विन्नं वेदना ज्ञानपीडयोः ॥ २६२ ॥ Trikāṇḍaśeṣa 3.3.262
  • वैजयन्ती विषयवासरौ नागदिवसौ वैकुण्ठाविन्द्रकेशवौ । विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥ ७२ ॥ Vaijayantī 7.1.72
  • वैजयन्ती कलितद्वौ कनिष्ठकनीयांसौ यून्यत्यल्पेऽनुजेऽपि च । क्षुल्लका नीचनिः स्वाल्पाः कलितो ज्ञातबद्धयोः ॥ ९ ॥ Vaijayantī 7.4.9
  • वैजयन्ती प्रतीतप्रतीतो भूषिते ख्याते ज्ञाते प्रत्ययिते बुधे । प्रार्थितं त्वभियुक्ते स्यान्निहिते याचितेऽपि च ॥ १६ ॥ Vaijayantī 7.4.16
  • वैजयन्ती विदितविधुतौ त्यक्तकंपितौ विदितौ ज्ञातसंश्रुतौ । विलीनौ लीनविद्रुतौ वेल्लितौ धूतकुञ्चितौ ॥ २३ ॥ Vaijayantī 7.4.23