All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
गान्ताः · गपादः
॥ गपादः ॥
गाङ्गो भीष्मे च गङ्गोत्थे शार्ङ्गं हरिधनुर्धनुः ।व्यङ्गो भेके विनष्टाङ्गे भृगुः [14] स्याच्च तटे मुनौ ॥
3.1.1 · p. 21
अनुष्टुप्
दुर्गमगम्यं दुर्गोमा रोगः कुष्ठे गदेऽपि च ।त्यागो दाने परित्यागे पूगः क्रमुकवृन्दयोः ॥
3.1.2 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 र्ग (wrong syllable)
नगावगौ च वृक्षाद्री खगा बाणार्कपक्षिणः ।लङ्गः सङ्गे च षिङ्गे च चङ्गः शोभनदक्षयोः ॥
3.1.3 · p. 21
अनुष्टुप्
मृदङ्गो घोषके वाद्ये प्रियङ्गुः कङ्गुवृक्षयोः ।भुजंगौ षिङ्गभुजगौ मातंगौ श्वपचद्विपौ ॥
3.1.4 · p. 21
अनुष्टुप्
निषङ्गौ सङ्गतूणीरावनङ्गो व्यङ्गमन्मथौ ।प्रयागौ तीर्थयज्ञौ तु जिह्मगौ सर्पमन्दगौ ॥
3.1.5 · p. 22
अनुष्टुप्