कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कूलक

kūlakaपुंक्ली · m. n.

In 5 kośas: 7 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

पटोलिका पटोली स्यात् कूलकं कुलकं कुलम् ।तुम्बिस्तुम्बी च तुम्बश्च तुम्बकश्च समा अमी ॥ १३८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.34 · p. 187
ज्यौत्स्नी जाली च राजीमास्तिक्तकश्चामृताफलः ।कुलकं कूलकोऽस्त्री स्यादथ राजपटोलकः ॥ ३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 282
पायसं परमान्नं स्यात्प्रहितं त्ववरान्नकम् ।सूदः सूपः कूलकोऽस्त्री बुस्तं मांसजलं रसः ॥ ९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.38 · p. 111
पिण्याको वर्णकोऽनूपे कूलकः सूतको रसे ।अथ स्याद्रुचकः कण्ठभूषणे बीजपूरके ॥ ३८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.128 · p. 227
मध्यशैवलयोर्नाम सूतकः कूलकोऽपि च ।कोरकः करकः पङ्कः पातकस्तिलकान्दुकौ ॥ १२८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.22 · p. 47
वल्मीकोऽस्त्री वल्मिकश्च कुलकः कूलकोऽपि च ।वामलूरः शक्रमूर्धा नाकुः स्यात् क्रिमिशैलकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.23 · p. 219
धूलि-धूल्यौ पांशु-पांसू रजो ना सान्तषण् रजः ।दलौ लोष्टो लेष्टुर्लोष्टुर्नाकौ कुलक-कूलकौ ॥ २३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ले (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.58 · p. 180
अस्त्रियां कूलकस्तूपे पुंसि स्यात् क्रिमिपर्वते ।कूर्चिका तूलिकायाञ्च सूचिकायान्तु कुट्मले ॥
अनुष्टुप्

कूलक as a meaning in nānārtha verses

  • कोषकल्पतरु धरकार्पासके स्यादपि कूलके च स्त्रियां तु गर्भाशयभूमिवाची । मेदस्यथाम्भोमुचि च क्षरः स्या- न्नीरेऽन्तिमेऽथ त्रिषु रन्ध्रभीत्योः ॥ ४ ॥ Koṣakalpataru 6.27.4