All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
लिङ्गसङ्ग्रहः · पुंनपुंसकलिङ्गाधिकारः
॥ इति स्त्रीपुंसलिङ्गाः ॥
पुंसि क्लीबे च सेवालमध्यमानामबाधितम् ।रात्रं समाहृतावेकरात्रं चाप्यसमाहृतौ ॥ ३३ ॥
4.5.33 · p. 111
अनुष्टुप्
नाकः पिनाकः स्तबको वलीकोवल्मीक आतङ्क-वितङ्क-तङ्काः ।व्यलीक-वैनीतक-तण्डकानिचण्डातकानीक-विशेषकाश्च ॥ ३३ ॥
4.5.33 · p. 111
उपजातिः
विटङ्क-टङ्क-शाटकाः सकण्टकः करण्डकः ।तटाककन्दुकान्दुकास्तडाक-शाक-रोचकाः ॥ ३४ ॥
4.5.34 · p. 111
पञ्चचामरम्
शुल्को वल्कः कल्को निष्को मुष्कश्च मस्तिष्कः ।चूचुक-मञ्चक-मेचक-कञ्चुक-शूकानि पातकः पङ्कः ॥ ३५ ॥
4.5.35 · p. 111
उद्गीतिः
अलक-वालक-मालक-मूलकाः[231b] करक-कोरक-मोदक-यावकाः ।***भ्रमरको मणिकस्तथाफलक-पुस्तक-मस्तक-मुस्तकाः ।पुलकस्तिलको झर्झरकश्चरक-हंसकौ ।मधुपर्कश्च फटकः सरकः श्वपकस्तथा ।किञ्जल्कः कटकोऽथामलकः स्यात्फलवाचकः ॥ ३७ ॥
4.5.37 · p. 111
अनुष्टुप्metre not read in every line
पिण्याको वर्णकोऽनूपे कूलकः सूतको रसे ।अथ स्याद्रुचकः कण्ठभूषणे बीजपूरके ॥ ३८ ॥
4.5.38 · p. 111
अनुष्टुप्
मताः खान्तेषु चत्वारः शङ्खः पुङ्खो नखं मुखम् ।अधिकाङ्गः पद्मरागः संयुगं च युगं भगम् ॥हिङ्गूद्योगौ टङ्ग-शृङ्गौ निदाघोऽध्यर्घ-वद्भवेत् ।अर्धर्चः क्रकचः कूर्चः कवचः पुच्छ उञ्छवत् ॥ ४० ॥
4.5.40 · p. 111
अनुष्टुप्
कच्छो निकुञ्जो रज-भूर्ज-कुञ्ज-व्रजाङ्गजाः शङ्खगतस्तथाब्जः ।ध्वजो नटः कर्वटकुक्कुटाट्टाःकुटारकूटावपि कालकूटः ॥ ४१ ॥
4.5.41 · p. 112
उपजातिः
कव(वा)टं कपटं खेटं कर्पटं पिष्टकोष्टवत् ।चटु चाटु किरीटं च अगलःटं( ? )मकुटं कुटम् ॥ ४२ ॥
4.5.42 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 अग (syllable split)
वटस्तु गोलभक्ष्यादौ पिटिकावाचकः पिटः ।विटं च नि[232a] कटं कोट्टं कुष्ठं कमठमीरितम् ॥
4.5.10 · p. 112
अनुष्टुप्metre not read in every line
वारुण्ड-खाण्ड-खण्डानि दण्डाण्डौ निगडो नडः ॥ ४३ ॥
4.5.43 · p. 112
आक्रीड-कोदण्ड-तरण्ड-मण्ड-प्रकाण्ड-काण्डानि पलाण्डु-मुण्डौ ।दृढोऽथ बाणोऽप्यणु-वारवाण-कार्षापण-स्वर्ण-सुवर्ण-चूर्णाः ॥ ४४ ॥
4.5.44 · p. 112
उपजातिः
स्थाणुर्द्रोणः श्रवण-श्चरण-रणौ तोरणो भाणः ।प्रवणव्रणापराह्णाःकिणं तृणं दूषणं वृषणम् ॥ ४५ ॥
4.5.45 · p. 112
metre not recognised
पक्कण-कङ्कण-शिङ्घाणाः स्यु-र्वर्णः शुक्लाद्यक्षरवाची ।वास्तुः सक्तुर्जीवातुः स्या-द्भूतः प्रेते पूर्त-निकेते ॥ ४६ ॥
4.5.46 · p. 112
metre not recognised
अयुतं प्रयुतं निवातमन्तंपलितं क्ष्वेडितमक्षतं युतं च ।उपवीत-शते मुहूर्त-हस्तेरजत-ध्वान्त-वसन्त-पुस्त-बुस्तम् ॥ ४७ ॥
4.5.47 · p. 112
metre not recognised
ऐरावतं पारत-लोहिते चशुद्धान्त-वृत्ते धृत-दैवते च ।द्यूतं वियूथं च वरूथ-गूथेप्रस्थं तथा प्रोथ-सतीर्थ-यूथः ॥ ४८ ॥
4.5.48 · p. 112
इन्द्रवज्रा
ककुदं कुकुदं च दोहदंकुमुदाष्टापदकुन्दमर्बुदम् ।छदकन्दगुदान्यलिन्दव-त्प्रवदन्त्यब्दमिहापि हायने ॥ ४९ ॥
4.5.49 · p. 113
वियोगिनी
श्राद्धो[232b]त्सेध-कबन्ध-सौध-मधु चान्धं चायुधं चौषधंमौनं मानविमानयानपुलिनापीनोदपानासनम् ।उद्यानं नलिनं खलीनखलिनस्थानाभिधानौदन-ब्रह्मप्रेमसमानजानुनिधनप्रस्फोटनं पक्ष्म च ॥ ५० ॥
4.5.50 · p. 113
शार्दूलविक्रीडितम्metre not read in every line
श्राद्धपुंक्लीउत्सेधपुंक्लीकबन्धपुंक्लीसौधपुंक्लीमधुपुंक्लीअन्धपुंक्लीआयुधपुंक्लीऔषधपुंक्लीमौनपुंक्लीमानपुंक्लीविमानपुंक्लीयानपुंक्लीपुलिनपुंक्लीआपीनपुंक्लीउदपानपुंक्लीआसनपुंक्लीउद्यानपुंक्लीनलिनपुंक्लीखलीनपुंक्लीखलिनपुंक्लीस्थानपुंक्लीअभिधानपुंक्लीओदनपुंक्लीब्रह्मन्पुंक्लीप्रेमन्पुंक्लीसमानपुंक्लीजानुपुंक्लीनिधनपुंक्लीप्रस्फोटनपुंक्लीपक्ष्मन्पुंक्ली
गन्धमादनपिधानचन्दन-द्वीपिनाशनवितानयौवनम् ।वर्धमानशतमानहायन-स्तेनवस्नशयनानि गृञ्जनम् ॥ ५१ ॥
4.5.51 · p. 113
रथोद्धता
वातायनं सानु दिनं निपानंप्रस्फोटनं लग्नरसोनशिश्नम् ।स्यात्केतनं नाम च तर्म-कर्म-भूम्ना महिम्ना लसुनं धनं च ॥ ५२ ॥
4.5.52 · p. 113
इन्द्रवज्रा
राजादनमनुमानंभवनं भुवनं च केतनं लोम ।दीपश्चापः स्तूपःशूर्पावापोडुपाः कशिपुः ॥ ५३ ॥
4.5.53 · p. 113
metre not recognised
द्वीपो निपः कुणपमण्डपबाष्पशष्प-यूपानि विष्टपयुतः कुतपोष्मपौ च ।तल्पः शफोऽप्यथ च कम्बु सडिम्ब[बि]म्बंजम्भः कुसुम्भकलभौ ककुभो निभश्च ॥ ५४ ॥
4.5.54 · p. 113
वसन्ततिलका
धर्मः स्वभावे कमले तु पद्मःसंख्याविशेषेऽप्यथ कामलेऽसौ ।अर्माश्र[233a]मोद्यामललामहेमंक्षेमं हिमं कुट्टिमसंगमाश्च ॥ ५५ ॥
4.5.55 · p. 113
इन्द्रवज्राmetre not read in every line
संक्रमोद्यमसंक्रामकुसुमक्षौमगुल्मवत् ।घर्म उष्णे कुङ्कुमोऽथ संपरायो रणार्थकः ॥ ५६ ॥
4.5.56 · p. 114
अनुष्टुप्
क्षये( ? )तु जन्यं धननाम्नि दायंशल्यं च कुल्यं कवियं कषायम् ।मैरेयवत्कम्बलिबाह्यतूर्येस्फ्यराजसूयाव्ययवाजपेयाः ॥ ५७ ॥
4.5.57 · p. 114
उपजातिः
वलयमलयपूयारण्यसंख्यं हिरण्यंप्रमयसमयसाया जन्यवत्पारिहार्यम् ।शरशिशिरतुषारक्षीरनीहारवार-प्रवरशिखरराष्ट्रभ्राष्ट्रसीरान्धकाराः ॥ ५८ ॥
4.5.58 · p. 114
मालिनी
अवार-पार-कुञ्जराः पवित्र-मन्त्र-पञ्जराः ।अलिञ्जरो युगंधरो दुरोदरः स तोमरः ॥ ५९ ॥
4.5.59 · p. 114
पञ्चचामरम्
हिञ्जीरमञ्जीरशरीरजीराःकर्पूरवन्नूपुरकर्णपूराः ।शृङ्गारकान्तारकरीरकूरा-न्धकारवत्कूबरबेरमेढ्राः ॥ ६० ॥
4.5.60 · p. 114
उपजातिः
कोटरकुटीरवस्त्रं केसरकासारसंसाराः ।क्षत्रं चक्रं चुक्रं तक्रं सूत्रान्तरे पद्रम् ॥ ६१ ॥
4.5.61 · p. 114
उपगीतिः
वज्राङ्गारविहारचीरसमरा ? केदारमाडम्बरंवप्रोशीरकुलीरदार्दु[233b]र-रिवत्कुस्तुंबरुर्गह्वरः ।नेत्रोपह्वरशेखरातिखरवत्स्याच्छिग्रुरार्द्रं शुनी-रः स्याद्वासर-तूबरौ सतुबरौ तद्वत्सहस्रं भवेत् ॥ ६२ ॥
4.5.62 · p. 114
शार्दूलविक्रीडितम्metre not read in every line
अगुरुस्तिमिरं जठरंकर्पु(र्पू)रकृच्छ्रे कशेरुहेमादौ ।चन्द्रो वर्ध्रः सीसेसंदेहे द्वापरं कुकुन्दरवत् ॥ ६३ ॥
4.5.63 · p. 114
metre not recognised
शुक्रो मासे दहनेविष्टरमतरौ दलः पर्णे ।तुषवह्नौ तु कुकूलोजङ्गलमुदितं तथा मांसे ॥ ६४ ॥
4.5.64 · p. 115
metre not recognised
छेदने[लूः] पिप्पलः कम्बलः शम्बलःशील-शैलोपलाः शूलतूलाङ्गुलाः ।वल्कलं पल्वलं धूमलं खण्डलंकुण्डलं कुड्मलं मूलवन्मङ्गलम् ॥ ६५ ॥
4.5.65 · p. 115
स्रग्विणीmetre not read in every linenearly स्रग्विणी
खलं पलं पुलं हलं तलं बलाञ्चले मलम् ।पलालमिन्द्रनीलवद्धलाहलं कमण्डलुः ॥ ६६ ॥
4.5.66 · p. 115
पञ्चचामरम्
प्रवालं विशालं चषालं तमालं ।कपालं च भालं सतैलालवाले ।सजम्बाल-कङ्काल-कोलाहलानिस्मृतान्यत्र काकोलहालाहलानि ॥ ६७ ॥
4.5.67 · p. 115
भुजङ्गप्रयातम्
कमलं कललं शकलंजम्बालं स्याच्च नील-लाङ्गूले ।कवलो निगलो बालोह्रीबेरे कुन्तले विद[234a]लम् ॥ ६८ ॥
4.5.68 · p. 115
metre not recognised
गरलं मुसलं सालं तथा गाण्डीव-गाण्डिवौ ।पूर्व *** प्रग्रीवपार्श्वः पारशवोऽपि च ॥ ६९ ॥
4.5.69 · p. 115
अनुष्टुप्metre not read in every line
भावारावशरावपल्लवशवक्लीवा अपूर्वं तथानिष्ठीवं च सदैवमर्थविषये स्वं सत्त्वमङ्गिन्यपि ।नल्वः स्याल्लवणे च सैन्धवमधो लोके तथा वाडवःपाशः कर्कशकोशवच्च कुलिशं चाकाश-काशाङ्कुशाः ॥ ७० ॥
4.5.70 · p. 115
शार्दूलविक्रीडितम्
कणिशं कर्षं वर्षं प्रत्यूषं यूषमुष्णीषम् ।कोषो माषो वेषः शेषो **म्बरीषं च ॥ ७१ ॥
4.5.71 · p. 115
metre not recognised
विषं मिषं करीषं च रोहिषं चामिषं तथा ।आसावतंस-वीतंस-मांसमासांस-चिक्कसाः ॥ ७२ ॥
4.5.72 · p. 116
अनुष्टुप्
कार्पास-कांस-चमसाः पनसोपवासौस्यादिष्वसः सदिवसोऽपि रसो बुसोऽपि ।दोर्वद्विहाय उदितं हृदये तु वत्संमाघे तपोऽथ नृपनाम्नि तथैव कंसः ॥ ७३ ॥
4.5.73 · p. 116
वसन्ततिलका
बर्हिर्दर्भेऽथ तमो राहौ वीर्ये सहो धनुश्चापे ।स्नेहो गेहो लोहो *हो बर्हो गृहं पटहः ॥ ७४ ॥
4.5.74 · p. 116
metre not recognised
तनूरुहश्च पुण्या[234b]हो लक्षं तु व्याजवाचकम् ।उकारान्तेषु तितउ एक एव तथाविधः ॥ ७५ ॥
4.5.75 · p. 116
अनुष्टुप्metre not read in every line