All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
लिङ्गानुशासनम् · पुंनपुंसकलिङ्गसंग्रहः
इति पुंस्त्रीलिङ्गसंग्रहः समाप्तः ।
[ अथ पुंनपुंसकलिङ्गसंग्रहः ।]
पुंनपुंसकलिङ्गानां क्रियते संग्रहो मया ।दृष्टानां विश्वहेमादिनामकोषेषु सांप्रतम् ॥ ११८ ॥
6.5.118 · p. 225
अनुष्टुप्
नरादन्यत्र वाच्येऽर्थे कंसः स्यात्पुंनपुंसकः ।अब्जः शङ्खे तथा पद्मः संख्यायां कमलेऽपि च ॥ ११९ ॥
6.5.119 · p. 226
अनुष्टुप्
ह्रीबेरकेशयोर्बालस्तरोरन्यत्र विष्टरः ।द्वापरः संशये बर्हिः कुशः छेदे तु पिप्पलः ॥ १२० ॥
6.5.120 · p. 226
अनुष्टुप्
तुषानले कुकूलोऽथ वर्षेऽब्दः पुंनपुंसकः ।दरस्त्रासे परीवादे जन्यो राहौ तमस्तथा ॥ १२१ ॥
6.5.121 · p. 226
अनुष्टुप्
तपो माघे तथा घर्म उष्णे वत्सो हृदि स्मृतः ।तुल्यतागोलभक्ष्येषु वटः स्यात्पुंनपुंसकः ॥ १२२ ॥
6.5.122 · p. 226
अनुष्टुप्
संपरायो रणे तल्पः पर्यङ्केऽपि तथैव च ।प्रेते भूत उडावृक्षो वर्णः श्वेतस्वरादिके ॥ १२३ ॥
6.5.123 · p. 226
अनुष्टुप्
सैन्धवो लवणे शुक्रो वह्नौ मासे च सम्मतः ।स्वर्णे चन्द्रश्च कर्पूरे पाताले वाडवोऽपि च ॥ १२४ ॥
6.5.124 · p. 226
अनुष्टुप्
छदे दलः स्वभावेऽथ धर्मो वध्रस्तु सीसके ।रुचको मातुलिङ्गे स्याद्भूषाभेदेऽपि विश्रुतः ॥ १२५ ॥
6.5.125 · p. 226
अनुष्टुप्
दायस्वौ स्वापतेयार्थे व्रते कृच्छ्रोऽपि दृश्यते ।पिटकायां पिटो मांसे जङ्गलः पुंनपुंसकः ॥ १२६ ॥
6.5.126 · p. 226
अनुष्टुप्
जीवे सत्त्वो मधुर्मद्ये फलेऽप्यामलकस्तथा ।एकाद्रात्रः समाहारे तनौ पिण्डोऽपि कथ्यते ॥ १२७ ॥
6.5.127 · p. 227
अनुष्टुप्
मध्यशैवलयोर्नाम सूतकः कूलकोऽपि च ।कोरकः करकः पङ्कः पातकस्तिलकान्दुकौ ॥ १२८ ॥
6.5.128 · p. 227
अनुष्टुप्
व्यलीककिञ्जल्कवलीकतङ्कावितङ्कवल्मीकतटाकनिष्काः ।तडाकवर्चस्कविशेषकाश्चविटङ्कवल्कौ पुलकालकौ च ॥ १२९ ॥
6.5.129 · p. 227
उपेन्द्रवज्रा
चषकफलककल्का मूलको मञ्चकोऽपिमरकमणिकटङ्का शाटकः पुस्तकश्च ।चरकसरकशूकानीकशुल्काश्च मुष्कःकटकफरकनाका मस्तको मुस्तकश्च ॥ १३० ॥
6.5.130 · p. 227
मालिनी
मेचकः कण्टकश्चैव बालको वर्णकः पुनः ।पिनाकमालकौ शाकस्तम्बकौ यावकोऽपि च ॥ १३२ ॥
6.5.132 · p. 227
अनुष्टुप्
पिण्याकझर्झरकहंसकतण्डकानिमस्तिष्कशङ्खमुखपुङ्खनखाधिकाङ्गाः ।उद्योगटङ्गयुग [संयुग?] पद्मरागाःशृङ्गं भगः क्रकचकूर्चनिदाघकुञ्जाः ॥ १३३ ॥
6.5.133 · p. 227
वसन्ततिलका
अर्धर्चः कवचः कच्छपुच्छोञ्छास्तु व्रजोटजौ ।[9] कुञ्जो मलयजो भूर्जध्वजाम्बुजसमास्तथा ॥ १३४ ॥
6.5.134 · p. 228
अनुष्टुप्
नटः किरीटः कुटकर्पटौ चकूटारकूटौ विटकोट्टकुष्ठाः ।खेटाट्टपिष्टानि कटश्च लोष्टःप्रोक्तौ तथा त्र्यङ्गटकालकूटौ ॥ १३५ ॥
6.5.135 · p. 228
उपजातिः
जकुटः कुर्कुटश्चैव कवटः कमठोऽप्यथ ।तरण्डमुण्डकोदण्डप्रकाण्डानि नडो दृढः ॥ १३६ ॥
6.5.136 · p. 228
अनुष्टुप्
खण्डवारुण्डकाण्डानि मण्डषण्डाण्डदण्डकाः ।आक्रीडवारबाणौ च बाणकार्षांपणव्रणाः ॥ १३७ ॥
6.5.137 · p. 228
अनुष्टुप्
पक्कणश्रवणद्रोणकङ्कणाः स्वर्णभूषणे ।दूषणश्चरणो भारणोऽपराह्णस्तृणतोरणौ ॥ १३८ ॥
6.5.138 · p. 228
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वृषणं प्रवणं चूर्णं रणः किणघृते अपि ।पारतं प्रयुतं पूर्तनिकेतान्तयुतान्यपि ॥ १३९ ॥
6.5.139 · p. 228
अनुष्टुप्
निवातप्रयुते वृत्तं लोहितं क्ष्वेडितं शतम् ।शुद्धान्तपलितौ प्रस्थं द्वियूथं प्रोथमेव च ॥ १४० ॥
6.5.140 · p. 228
अनुष्टुप्
ऐरावतं दैवतमक्षतं चहस्तोपवीतव्रतपुस्तबुस्तम् ।द्यूतायुतध्वान्तवसन्तयूथ-वरूथगूथानि मुहूर्ततीर्थे ॥ १४१ ॥
6.5.141 · p. 228
उपजातिः
अलिन्दः कुकुदः कन्दाष्टापदौ गुददोहदौ ।छदः ककुदकुन्दौ च सौधोत्सेधायुधा अपि ॥ १४२ ॥
6.5.142 · p. 229
अनुष्टुप्
श्राद्धौषधकबन्धानि गन्धमादनचन्दनौ ।प्रस्फोटनपिधाने च लग्नराजादनाशनाः ॥ १४३ ॥
6.5.143 · p. 229
अनुष्टुप्
वितानं यौवनं शिश्नं केतनं नलिनं दिनम् ।आपीनपुलिने मौनमुदपानौदने धनम् ॥ १४४ ॥
6.5.144 · p. 229
अनुष्टुप्
समानो वर्धमानश्च विमाननिधने अपि ।हायनस्थानयानानि वस्नोद्यानासनानि च ॥ १४५ ॥
6.5.145 · p. 229
अनुष्टुप्
निपानं शयनं द्वीपिगृञ्जनौ कुणपो निपः ।विष्टपद्वीपशष्पानि मण्डपो विटपोऽपि च ॥ १४७ ॥
6.5.147 · p. 229
अनुष्टुप्
आवापचापसूर्पाणि दीपस्तूपोडुपाः शफः ।कुतपोऽथ डिम्बबिम्बकलभाः ककुभो निभः ॥ १४८ ॥
6.5.148 · p. 229
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
जम्भः कुसुम्भसंक्रामसंक्रमार्महिमान्यथ ।ललामहेमगुल्माश्चोद्यामकामोद्यमाश्रमाः ॥ १४९ ॥
6.5.149 · p. 229
अनुष्टुप्
कुट्टिमः कुसुमः क्षेमक्षौमौ संगम इत्यपि ।कषायाः प्रमयो वाजपेयतूर्यौ च गोमयम् ॥ १५० ॥
6.5.150 · p. 229
अनुष्टुप्
मैरेयराजसूयौ च शल्यकुल्याव्ययान्यपि ।हिरण्यारण्यसंख्यानि मलयो वलयोऽपि च ॥ १५१ ॥
6.5.151 · p. 229
अनुष्टुप्
समयकविये पारि[10]हार्यः कम्बलवाह्यकः ।संसारसीरशृङ्गारनेत्रवक्त्राणि गह्वरम् ॥ १५२ ॥
6.5.152 · p. 230
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
हिञ्जीरस्तुबरः सूत्रकूरालिञ्जरकूबराः ।वस्त्रोपवस्त्रनीहाराः क्षत्रपद्रान्तराण्यपि ॥ १५३ ॥
6.5.153 · p. 230
अनुष्टुप्
पवित्रातिखरावारपारबेराणि कोटरम् ।पत्रमेढ्रसहस्राणि क्षीरोशीरयुगंधराः ॥ १५४ ॥
6.5.154 · p. 230
अनुष्टुप्
अन्धकारान्तरे कर्णपूरा? वरदुरोदराः ।पञ्जरः कुञ्जरश्चक्रचुक्रे केसरशेखरे ॥ १५५ ॥
6.5.155 · p. 230
अनुष्टुप्
तिमिराङ्गारराष्ट्राणि जीरमञ्जीरवासराः ।विहारवारकान्तारकासाराणि च नूपुरम् ॥ १५६ ॥
6.5.156 · p. 230
अनुष्टुप्
पलालपल्वलौ शौलबलशम्बलकुड्भलाः ।शूलमूलाञ्चलाः शीलकुण्डलाङ्गुलमङ्गलाः ॥ १५८ ॥
6.5.158 · p. 230
अनुष्टुप्
निगलनीलनलाः कमलं हलंमुशलसालतमालहलाहलम् ।गरलधूमलखण्डलवल्कलंफलतले मुकुलः शकलः खलः ॥ १५९ ॥
6.5.159 · p. 230
द्रुतविलम्बितम्
काकोलकोलाहलतैलतूलंजम्बाललाङ्गूलकपालमुल्वः ।कङ्कालगाण्डीवशरावभावानिष्ठेवरावौ शवदैवपूर्वाः ॥ १६० ॥
6.5.160 · p. 230
इन्द्रवज्रा
त्रिदिवताण्डवपारशवं पुनःकुलिशकर्कशकोशविषा अपि ।कणिशमङ्कुशपाशकरीषकादिवसरोहिषमेषविशेषकाः ॥ १६१ ॥
6.5.161 · p. 231
द्रुतविलम्बितम्
माषाम्बरीषयूषाः प्रत्यूषोष्णीषकोषनिर्यासाः ।आमिषवर्षकर्षमांसा मासः पनसावतंसौ च ॥ १६२ ॥
6.5.162 · p. 231
metre not recognised
वीतंसमासं चमसांसकांसाःकर्पासमाकाशमथोपवासः ।बुसेत्थुसेचिक्कसगेहचाटुतनूरुहं देहगृहेऽथ बर्हः ॥ १६३ ॥
6.5.163 · p. 231
उपजातिः
कुस्तुम्बरुः सानुजानू जीवातुः कशिपुः चटुः ।स्थाणुः कमण्डलुर्लक्षपटहावणुसीधुनी ॥ १६४ ॥
6.5.164 · p. 231
अनुष्टुप्
सक्तवोऽप्यररिः कम्बुर्दोर्दार्वगुरुहिङ्गवः ।पलाण्डुस्तितउर्वास्तुवेमप्रेमाणि लोम च ॥ १६५ ॥
6.5.165 · p. 231
अनुष्टुप्
ब्रह्म कर्म धनुर्नामाष्ठीवत्पक्ष्मविहायसी ।शिग्रुर्भूममहिम्नी चेत्यादयः पुंनपुंसकाः ॥ १६६ ॥
6.5.166 · p. 231
अनुष्टुप्