पायस
pāyasaक्ली · neut.In 15 kośas: 23 synonym verses, 3 as a nānārtha head word.
पायसं परमान्नं च क्षैरेयी क्षीरजं दधि ।गोरसश्च तदघनं द्रप्सं पत्त्रलमित्यपि ॥ ४०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
genderक्लीneut.
पायसस्तु वृक्षधूपः श्रीवासः सरलद्रवः ॥ ६४८ ॥
metre not recognised
genderपुंmasc.
तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः ॥ १२८ ॥श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ ।
अनुष्टुप्
genderपुंmasc.
genderक्लीneut.
यवागूरुष्णिका श्राणा तरला च विलेपिका ।क्षैरेयी पायसं प्रोक्तं परमान्नं च सूरिभिः ॥ ३२० ॥
अनुष्टुप्
genderक्लीneut.
तक्कोले स्थूलमरिचं तस्मिन् कोलकमित्यपि ।जातीकोशं कोशफलं श्रीवेष्टः पायसग्रही ॥ २८४ ॥
अनुष्टुप्
genderपुंmasc.
इष्टापूर्तं तदेकोक्त्या हव्यपाके चरुः पुमान् ।परमान्नं पायसोऽस्त्री स्यात् क्षीरेय्यपि वाच्यवत् ॥ ८८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सम्यक् संसाधिते क्लीबे परमान्नं ततस्त्रियाम् ।क्षीरेयी पायसः पुंसि क्लीबे दुग्धार्थतश्चरु ॥ २५० ॥
अनुष्टुप्
genderपुंmasc.
रक्तशीर्षः पायसश्च श्र्यङ्कः क्षीरश्रवस्तथा ।श्रीवासोऽपि चदच्याह्वो(?) वृकधूपक इत्यपि ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
पायसं परमान्नं स्यात्प्रहितं त्ववरान्नकम् ।सूदः सूपः कूलकोऽस्त्री बुस्तं मांसजलं रसः ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
कूर्चिका च किलाटी च परमान्नं तु पायसम् ।क्षैरेयी घृतनामानि तुल्ये द्वे घृतसर्पिषी ॥ ७४ ॥
अनुष्टुप्
genderक्लीneut.
रालः सर्जरसः सर्जमणिः सर्वरसोऽपि च ।तुरुष्कः पिण्डकः सिल्हो वृक्षधूपे तु पायसः ॥ २९९ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्देवदारुनिर्यासकृतधूमे तु पायसः ।वृकधूपः श्रीनिवासः श्रीवेष्ट्यः(ष्टः?) श्रीकरः करः ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
भक्तौदनावन्नमन्धः पायसं क्षीरिका जरा ।मण्डकः पोलिका पोली काकडाऽङ्गारमण्डकः ॥ २६८ ॥
अनुष्टुप्
genderक्लीneut.
हविष्यान्नं तु क्षैरेयी परमान्नं च पायसम् ।घृतपक्वं तु पक्वान्नं घृतपूरादिभेदवत् ॥ ५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
genderक्लीneut.
परमान्नञ्च क्षैरेयी पयः पक्वं हि पायसम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ञ्च (wrong syllable)
genderक्लीneut.
पायसो क्षीरधूपश्च दध्याह्वयो घृताह्वयः ।क्षीराह्वयश्च श्रीवासः श्रीवेष्टः सरलद्रवः ॥ १०५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह्व (wrong syllable)
genderपुंmasc.
परमान्नं पायसः स्यात् क्षीरतण्डुलपाकजम् ।पयोविकारमात्रेषु क्लीबे पायसमिष्यते ॥
अनुष्टुप्
genderपुंmasc.
श्रीवासः पायसो रक्तशीर्षकः सरलद्रवः ।श्रीवेष्टोऽथ स्थासकस्तु चर्चा चार्चिक्यमित्यपि ॥ ११५५ ॥
अनुष्टुप्
genderपुंmasc.
छन्दांसि गायत्र्यादीनि कुण्डी त्वस्त्री कमण्डलुः ।ज्ञानमाद्यमुपज्ञा स्यात् परमान्नं तु पायसम् ॥ १२२७ ॥
अनुष्टुप्
genderक्लीneut.
भिस्सा तु भक्तमन्धोऽन्नं दीदिविर्नोदनोऽस्त्रियाम् ।पायसं परमान्नं स्यात् मिः सटा दग्धिका समे ॥ १४३२ ॥
अनुष्टुप्
genderक्लीneut.
श्रीवेष्टः पायसं श्र्याख्यं श्रीवासो रक्तशीर्षकः ।वेष्टः श्रीवत्सपिण्याको दधिश्च सरलद्रवे ॥ १०९ ॥
अनुष्टुप्
genderक्लीneut.
दग्धान्नं भिस्सिटा झिल्ली परमान्नं तु पायसम् ।क्षैरेयी चाथ मण्डोऽस्त्री रसाग्रोथ करोटिका ॥ ७७ ॥
अनुष्टुप्
genderक्लीneut.
संक्षेपणे द्वंद्वमुखादिषु स्या-न्ना कीकसः स्यात्कृमिजातिवाची ।अस्थ्न्यन्तिमे पायस ईरितो नाश्रीवासवृक्षे परमान्नकेऽन्त्ये ॥ ९१ ॥
इन्द्रवज्रा
प्राणकस्तु प्राणिनि त्रि ना तु स्याज्जीवकद्रुमे ।पायसोऽस्त्री दुग्धसिद्ध ओदने पुंसि तु स्मृतः ॥ ११३५ ॥
अनुष्टुप्
meaningsदुग्धसिद्धौदन
श्रीवेष्टाह्वयनिर्यासे पयःसम्बन्धिनि त्रिषु ।पारुष्यस्तु पुमानुक्तो गीष्पतौ रभसेन वै ॥ ११३६ ॥
अनुष्टुप्
doubtful