कोरक
korakaपुं · masc.In 16 kośas: 17 synonym verses, 5 as a nānārtha head word, 8 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
पुष्पं प्रसवः कुसुमं प्रसूनकं सुमनसः समाख्याताः ।कोरकजालककलिकाकुड्मलमुकुलानि तुल्यानि ॥ १८६ ॥
आर्या
genderपुंmasc.
शिफा स्त्रियां कन्दमस्त्री शिफाकन्दोऽपि वा स्त्रियाम् ।विसं त्रिषु मृणालो ना कोरकः पुन्नपुंसकः ॥ १५४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोरकालीककरकपानकानां समन्ततः ।विशेषकस्य चषककण्ठाकाभ्यां ततोऽपि च ॥ १४७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शिताग्रोऽप्यथ वृन्तं स्यात्क्लीबे प्रसवबन्धनम् ।कलिका जालकं क्लीबे क्षारकः कोरकोऽस्त्रियौ ॥ ३६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अलक-वालक-मालक-मूलकाः[231b] करक-कोरक-मोदक-यावकाः ।***भ्रमरको मणिकस्तथाफलक-पुस्तक-मस्तक-मुस्तकाः ।पुलकस्तिलको झर्झरकश्चरक-हंसकौ ।मधुपर्कश्च फटकः सरकः श्वपकस्तथा ।किञ्जल्कः कटकोऽथामलकः स्यात्फलवाचकः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
आकाशकुसुमं तारं कोरकं कारकण्टकम् ।निरकं निर्मलं संग्यं नक्षत्रेषु निगद्यते ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
पद्मरागे रविमणिः कुरुविन्दं तु कोरकम् ।पक्वदाडिमबीजाभं माणिक्यं शिखरं मतम् ॥ २४ ॥
अनुष्टुप्
genderक्लीneut.
प्रसूनं सुमनःशब्दो भूम्नि चैव मतः स्त्रियाम् ।जालकक्षारकौ पुंसिः कोरकः कलिका स्त्रियाम् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
मध्यशैवलयोर्नाम सूतकः कूलकोऽपि च ।कोरकः करकः पङ्कः पातकस्तिलकान्दुकौ ॥ १२८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पलाशः पल्लवः पर्णं दलं पत्रं छदोऽङ्घ्रिकम् ।कलिका कोरकः कुड्मी प्रफुल्लो विकचः स्फुटः ॥ १५२ ॥
अनुष्टुप्
genderपुंmasc.
कलिका कोरकं स्याच्च कुसुमकलिकार्थकः ।कुड्मलं मुकुलञ्चैतदऽर्धस्फुटितकोरके ॥ १९७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 सु (wrong syllable)
genderक्लीneut.
जालिका कोषिका जालं जालकं क्षारकोऽपि च ।कलिः कली च कलिका कोरकोऽङ्कुरितोन्मुखम् ॥
अनुष्टुप्
genderपुंmasc.
प्रसूतकं प्रसूतं च प्रफुल्लं फुल्लवत् सुमम् ।कुसुमं कलिकायां तु कलिः स्यात्कोर-कौरकौ ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
पल्लवोऽस्त्री किसलयं प्रवालं पुंनपुंसकम् ।जालकं क्षारकः पुंसि कलिका कोरकोऽस्त्रियाम् ॥ ४४९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मकरन्दो मरन्दोऽस्य रसे जालं तु जालकम् ।कलिका कोरकश्चाथ कुट्मलो मुकुलोऽस्त्रियौ ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
कोरकस्त्वस्त्रियां पुष्पकलिकायां त्रिषु त्वयम् ।शब्दकारिण्यथ क्लीबं कोलकं मरिचे तथा ॥ ५९६ ॥
अनुष्टुप्
कोरक as a meaning in nānārtha verses
- धरणिकोश जालसालः सर्जतरौ वापि सर्गप्राकारयोरपि । जालं गवाक्षयानाये दन्ते वृन्दे च कोरके ॥ Dharaṇikośa 27.2.13
- कोषकल्पतरु जालकवर्तको हयखुरे द्वितयस्मि- न्नेष पक्षिणि मतोऽथ कुलाये । जालिनीफलककोरकदम्भा- नायवाचि किल जालकमन्त्ये ॥ ४६ ॥ Koṣakalpataru 6.1.46
- शिवकोष कण्टककण्टकः कोरके वेणौ पद्मबीजे तु कण्टकम् । स्त्री शाल्मलीकछुरयोः करकः सारलट्वयोः ॥ १९ ॥ Śivakoṣa 1.3.19
- शिवकोष मुनिधाना वितुन्नके भृष्टयवाद्यन्ने च सक्तुषु । मुनिः पियालदमनागस्त्यकोरककिंशुके ॥ २४४ ॥ Śivakoṣa 16.244
- शब्दरत्नावली जालकजालकं कोरके नीडे दम्भे जाले समूहके । न पुंसि मोचके फले जालिका विधवा स्त्रियाम् ॥ Śabdaratnāvalī 7.1.76
- शब्दरत्नावली अङ्गारककुरुण्टके चोन्त्यकाङ्गे(?) मङ्गलेऽङ्गारकोऽपि च । इक्षुकाण्डे पलाशद्रुकोरकेऽङ्गारके भवेत् ॥ Śabdaratnāvalī 7.1.157
- शब्दरत्नावली रक्तरेणुरक्तरेणुः कोरके स्यात् सिन्दूरे च पलाशके । रागचूर्णः कामदेवे फल्गुके दन्तधावने(?) ॥ Śabdaratnāvalī 7.15.88
- शब्दरत्नावली रूपग्रन्थावृत्तौ नाटकादौ श्लोके चा कोरकेऽपि च । रेपः क्रूरे निन्दिते च रोपो बाणे च रोपणे ॥ Śabdaratnāvalī 7.21.11