कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धूलि

dhūliस्त्री · fem.

In 13 kośas: 12 synonym verses, 3 as a nānārtha head word, 13 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.98
रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः ॥ ९८ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर दशमोपदेशः Bālaprabodhikā 10.176 · p. 82
इष्टका लोष्टका तु स्यादूपरस्तु … मृत्तिका ।धूलिश्चापि रजः पांसू रेणुः स्यादनिलध्वजः ॥ १७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
कोषकोशौ वेषवेशौ धूलिधूल्यौ समे मते ।रंहो रङ्घोऽपि निर्दिष्टमधोऽङ्घश्चोच्यते बुधैः ॥ २६६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.334 · p. 126
संशप्तका अथ रजः क्षोदः सान्ते उभे च षण् ।रेणुस्त्रिषु रजः क्लीबे धूलिर्धूली स्त्रियामुभे ॥ ३३४ ॥
अनुष्टुप्
genderस्त्रीfem.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderस्त्रीfem.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.79 · p. 266
धूलिर्धूली रजो रेणु पांशुः पांशुश्च मन्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.364 · p. 135
उल्कासमय इत्येवं संग्रामादनिवर्तिनः ।पुंसि पांशुर्द्वयोरेणुर्धूलिर्धूली रजो रजम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.23 · p. 219
धूलि-धूल्यौ पांशु-पांसू रजो ना सान्तषण् रजः ।दलौ लोष्टो लेष्टुर्लोष्टुर्नाकौ कुलक-कूलकौ ॥ २३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ले (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण स्त्रीलिङ्गप्रकरणम् Śabdaratnākara 7.1.2308 · p. 281
तुटितृटिकटित्रोटिकुटिकोटिकरोटयः ।गौल्यालिकुहलीपालीमधूलीधूलिकेलयः ॥ २३०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 तृ (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.25 · p. 125
झरुका त्विष्टकाया विडूषस्तु क्षारमृत्तिका ।धूलिः स्त्रियां रजः पांसू रेणुः पुंस्यथ कर्दमे ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश लिङ्गसङ्ग्रहाध्यायः Vaijayantī 8.9.26 · p. 291
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.88 · p. 343
युगे चतुर्थे सुभटे स्त्रियां तुबुद्धैः प्रदिष्टः कलिकागतोऽयम् ।धूलिस्तु संख्यान्तररेणुषु स्त्रीदुलिर्मुनौ ना कमठस्त्रियां स्त्री ॥ ८८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.7 · p. 43
धूल्यश्वयोरश्वकन्दे पर्पटे मरिचेऽयसः ।सर्पस्य सीसके नागकेसरे द्विपसर्पयोः ॥ ७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पर्यायसंयोगन्यायप्रदर्शनाध्यायः Vaijayantī 8.6.17 · p. 282
धूल्यश्वयोरश्वकन्दे पर्पटे मरिचेऽयसः ।इत्यादीन्यन्यनामानि बोद्धव्यान्यन्यवस्तुषु ॥ १७ ॥
अनुष्टुप्

धूलि as a meaning in nānārtha verses

  • धरणिकोश चूर्णचूर्णे क्षोदे च धूलौ च चूर्णे स्यान्मृगयाचनम् । चूर्णानि वासयोगाः स्युश्चूर्णिः कपर्दिकापि च ॥ Dharaṇikośa 14.3.7
  • धरणिकोश क्षोदरदो विलेखने दन्ते छदः स्यात्पक्षपत्रयोः । क्षोदश्च पेषणे धूलौ स्वादुर्मिष्टमनोज्ञयोः ॥ Dharaṇikośa 17.1.1
  • धरणिकोश पांशुपांशुर्धूलिषु सस्यार्थे चिरसंचितगोमये । केशोऽसुरान्तरे केशा ह्रीवेराप्पतिकुन्तलाः ॥ Dharaṇikośa 29.2.3
  • कोषकल्पतरु गुलकआह्निकमशनेऽहीन- निर्वर्त्यकर्मण्युदीरि[254b]तं चरमे तत् । गुलकः कलोक्तिधूलि- स्नेहामत्रेषु वाच्यवन्मलिने ॥ ९४ ॥ Koṣakalpataru 6.1.94
  • कोषकल्पतरु रेणुधूलौ रेणुरपि द्वयोर्नरि पुनः स्यात्पर्पटाह्वौषधे सूक्ष्मेऽल्पे च परोपमोऽथ च किणो न स्त्री व्रणाङ्के घुणे । Koṣakalpataru 6.15.18
  • कोषकल्पतरु तूस्तवातं प्रवाते पवने तु पुंसि तूस्तं जटाधूलिरजःसु पापे । अस्तः पुमान्पश्चिमपर्वतेऽथ क्षिप्ते गते स्यादिह भेद्यलिङ्गः ॥ २७ ॥ Koṣakalpataru 6.16.27
  • नानार्थार्णवसंक्षेप चूर्णचूर्णमस्त्री वासयोगे धूलौ क्षारान्तरे त्रि तु । दग्धेऽथ चूर्णिः स्त्रीलिङ्गा ग्रन्थभेदे कपर्दके ॥ ४३३ ॥ Nānārthārṇavasaṃkṣepa 2.5.433
  • नानार्थार्णवसंक्षेप ?कलोक्तौ मलिने धूलौ स्नेहपात्र इतीदृशम् । गोधूमस्तूदितो नागरङ्गधान्यप्रभेदयोः ॥ ८१ ॥ Nānārthārṇavasaṃkṣepa 3.2.81
  • शब्दरत्नावली गुण्डकगुण्डकः स्नेहपात्रे स्याद् धूलौ च मण्डलेऽपि च । गैरिकं कणके धातौ गृह्यकण्ठोकनिघ्नयोः(?) ॥ गोलकस्तु गुडे जारात् विधवातनयेऽपि च । गोरङ्कुः पक्षिभेदे स्यान्नग्नके वन्दितेऽपि च ॥ Śabdaratnāvalī 7.1.69
  • शब्दरत्नावली परागपरागः पुष्परेणौ तु धूलिसानीयचूर्णयोः । चन्दने गिरिभेदे च स्वच्छन्दगमनेऽपि च ॥ Śabdaratnāvalī 7.3.40
  • शब्दरत्नावली चूर्णक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
  • शब्दरत्नावली तूस्ततूस्तं धूलौ जटायाञ्च पापे सूक्ष्मे च न द्वयोः । त्रेताग्नित्रितये युगे तिप्राणितेरिते ॥ Śabdaratnāvalī 7.16.15
  • शब्दरत्नावली पांशुपांशुर्धूलिषु शय्यासु चिरसञ्चितगोमये । पशुर्मृगादौ प्रमथे देवे च प्राणिमात्रके ॥ पशुसन्दर्शनेऽपि स्यादव्ययं पश्वेति स्मृतम् । पशो ना बन्धने शस्त्रे छात्राद्यन्तश्च निन्दिते ॥ कर्णान्तः शोभनार्थे च केशान्तः संहतार्थके । पेशी स्त्री मांसपिण्ड्याञ्च मांसीखड्गपिधानयोः ॥ अण्डभेदे नदीभेदे पिशाचीराक्षसीभिदोः । वंशः कुले च पृष्ठांशे वर्गतेजनयोरपि ॥ Śabdaratnāvalī 7.30.9