कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्षपण

kṣapaṇaपुं · masc.

In 8 kośas: 6 synonym verses, 14 as a meaning of another word.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.345 · p. 41
नग्नाटो दिग्वासाः क्षपणः श्रमणश्च जीवको जैनः ।आजीवो मलधारी निर्ग्रन्थः कथ्यते सद्भिः ॥ ३४५ ॥
आर्या
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.148 · p. 85
श्वेताम्बरः श्वेतभिक्षुः क्षपणस्तु दिगम्बरः ।नग्नाढश्रमणाह्लीकनिर्ग्रन्था जीवजीवकाः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.53 · p. 13
साधन्तश्च भदन्तश्च भग्नाटश्च दिगम्बरः ।आजीवो मलधारी च निर्ग्रन्थः क्षपणस्तथा ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.41 · p. 5
गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ।दिगम्बरस्तु नग्नाटः क्षपणः श्रमणो जिनः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव विशेष्यनिघ्नवर्गः Trikāṇḍaśeṣa 3.1.22 · p. 84
अन्यसाधारणं त्वावेशिकं प्रातिस्विकं च तत् ।भिन्नकः क्षपणोऽह्नीको बौद्धो वैनायकः स्मृतः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.15 · p. 202
शिपिविष्टस्तु दुश्चर्मा दुर्बालश्च द्विनग्नकः ।क्षपणश्रमणौ नग्नो नग्नाटश्च दिगंबरः ॥ १५ ॥
अनुष्टुप्
genderविadj.

क्षपण as a meaning in nānārtha verses

  • धरणिकोश कीरकचित्रकं तिलके व्याघ्रे वृक्षभेदे च चित्रकः । कीरको वृक्षभेदे स्यात्क्षपणे प्रापणेऽपि च ॥ Dharaṇikośa 1.2.25
  • धरणिकोश निर्ग्रन्थकनिर्ग्रन्थकं विजानीयात्क्षपणेऽप्यपरिच्छदे । एडमूकं विजानीयाच्छठं वाक्श्रुतिवर्जितम् ॥ Dharaṇikośa 1.2.48
  • धरणिकोश निर्ग्रन्थनिर्ग्रन्थः क्षपणे निःस्वे क्षवथुः क्षुतकासयोः । मन्मथौ स्मरकपित्थौ सिद्धार्थौ बुद्धसर्षपौ । गोग्रन्थिः करवीरे तु षड्ग्रन्था तु शटी वचा ॥ Dharaṇikośa 16.1.3
  • धरणिकोश दिगम्बरपयोधरः कोषकारे स्त्रीस्तने वारिदेऽपि च । दिगम्बराः सामाख्याता नग्नक्षपणशंकराः ॥ Dharaṇikośa 26.2.71
  • कोषकल्पतरु निर्ग्रन्थकज्योत्स्ना नरि त्वापणिके कचे स्या- न्निर्ग्रन्थकस्तु क्षपणे दरिद्रे । पुनर्नवायां तु कटिल्लकः स्या- त्स्यात्कारवेल्ले च कुठेरके च ॥ ३७ ॥ Koṣakalpataru 6.1.37
  • कोषकल्पतरु विकचकवचस्तु गर्दभाण्डे संनाहे चानके न स्त्री । विकचः क्षपणे केतु- ग्रहे स्फुटे तु भेद्याभः ॥ १० ॥ Koṣakalpataru 6.5.10
  • कोषकल्पतरु अर्हन्तउद्वान्तस्त्वमदे द्विपे त्रिषु समुद्गीर्णेऽथ कक्षान्तरे क्ष्मापानां प्रमदापुरेऽप्यकुशले त्वस्वन्तमन्त्येऽन्तयोः । क्षेत्रे चानवधौ *** वुदितः साधौ प्रवृत्तौ पुमान् अर्हन्तः क्षपणे जिनेऽथ जलधौ प्रोक्तस्तरन्तः पुमान् ॥ २० ॥ Koṣakalpataru 6.16.20
  • कोषकल्पतरु नग्ननग्नस्तु बन्दिक्षपणार्थको ना- न्यवद्विवस्त्रेऽप्यथ लज्जिते स्यात् । सक्ते च लग्नं परवन्न तु स्त्री मेषादिराशेरुदये प्रदिष्टम् ॥ ९४ ॥ Koṣakalpataru 6.21.94
  • शब्दरत्नावली जीवकजालिको वाच्यवद्ग्रामजालिकैवर्तयोरपि । जीवकः पीतशाले स्यात् प्राणके क्षपणेऽपि च । न पुंसि कूर्चशीर्षे स्यादाजीवे जीविकाऽपि च ॥ Śabdaratnāvalī 7.1.78
  • शब्दरत्नावली निर्ग्रन्थिकनिपुने क्षपणे हीने निर्ग्रन्थिक उदाहृतः । शिखण्डे भुजगे बाणे प्रचलाकः समीरितः ॥ Śabdaratnāvalī 7.1.178
  • शब्दरत्नावली नग्नधानाः स्त्रियां भृष्टयवे धन्याकेऽभिनवाङ्कुरे । धेना नद्यां नदे पुंसि न्यूनं गर्ह्योनयोरपि । नग्नस्त्रिषु विवसने बन्दिक्षपणयोः पुमान् ॥ Śabdaratnāvalī 7.20.13
  • शब्दरत्नावली दिगम्बरदिगम्बरः शिवे नग्ने क्षपणे च तमस्यपि । दुरोदरो द्यूतभेदे द्यूतकारे पणेऽपि च ॥ Śabdaratnāvalī 7.27.126
  • त्रिकाण्डशेष पुष्यलकव्याघ्रे च कोषकारे व पाकौ पचनशावकौ । पुष्यलको गन्धमृगे कीलके क्षपणेऽपि च ॥ ३३ ॥ Trikāṇḍaśeṣa 3.3.33
  • त्रिकाण्डशेष नग्नदेवोद्याने सुते पुंसि नग्नौ क्षपणवन्दिनौ । श्रुतौ दृष्ट्यां निशमनं खगङ्गाऽपि नलिन्यथ ॥ २४५ ॥ Trikāṇḍaśeṣa 3.3.245