कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निर्ग्रन्थ

nirgranthaपुं · masc.

In 11 kośas: 9 synonym verses, 5 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.76 · p. 6
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.345 · p. 41
नग्नाटो दिग्वासाः क्षपणः श्रमणश्च जीवको जैनः ।आजीवो मलधारी निर्ग्रन्थः कथ्यते सद्भिः ॥ ३४५ ॥
आर्या
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.148 · p. 85
श्वेताम्बरः श्वेतभिक्षुः क्षपणस्तु दिगम्बरः ।नग्नाढश्रमणाह्लीकनिर्ग्रन्था जीवजीवकाः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.369 · p. 130
कर्त्तप्रमाथ सन्तापनिवापच्छेदसंज्ञयाः ।कदव्यापादनिर्ग्रन्थनिस्तर्हविशसा अपि ॥ ३६९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.53 · p. 13
साधन्तश्च भदन्तश्च भग्नाटश्च दिगम्बरः ।आजीवो मलधारी च निर्ग्रन्थः क्षपणस्तथा ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.100 · p. 242
पाराशरी च कर्मन्दी परिव्राण्मस्करी च सः ।पारिरक्षक - निर्ग्रन्थ - पारिकाङ्क्षि-तपस्विनः ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.120 · p. 31
यतिर्यती मुनेः साधुस्तपस्वी संयतो व्रती ।भिक्षुर्मुमुक्षुर्निर्ग्रन्थः ऋषिर्योगी च संयमी ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.51 · p. 8
वाचंयमोऽनगारश्च निर्ग्रन्थः श्रमणो मुनिः ।ऋषिर्यतिर्यती साधुः मुमुक्षुर्भिक्षुकश्च सन् ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.16 · p. 202
आजीवो जीवको जैनो निर्ग्रन्थो मलवार्यपि ।हृदयालुः सुहृदयो महेच्छस्तु महाशयः ॥ १६ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास थपादः Dharaṇikośa 16.1.3 · p. 89
निर्ग्रन्थः क्षपणे निःस्वे क्षवथुः क्षुतकासयोः ।मन्मथौ स्मरकपित्थौ सिद्धार्थौ बुद्धसर्षपौ ।गोग्रन्थिः करवीरे तु षड्ग्रन्था तु शटी वचा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.4.30 · p. 43
निर्ग्रन्थः स्यात् क्षपणके दरिद्रे ग्रन्थवर्जिते ।निर्दटः परदोषोक्तिपरे निष्ठुरभाषिणि ॥ ३० ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नकारादयः Paramānandīyanāmamālā 5.18.276 · p. 197
नन्दकोऽसौ मुकुन्दस्य हर्षके कुलपालके ।निर्ग्रन्थः कदलीसाले निर्धने श्रमणेऽपि च ॥ २७६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश थान्ताः Śabdaratnāvalī 7.17.13 · p. 228
दमथुर्ना दमे दन्ते निशीथो रात्रितद्भिदोः ।निर्ग्रन्थो नग्नके निःस्वे मूर्खेऽपि निःसहायके ॥प्रमथा स्त्री तु पथ्यायां तुरङ्गे पार्षदे पुमान् ।वरूथो रथगुप्तौ ना क्लीबन्तु गेहचर्मणोः ॥मन्मथः कामदेवे स्यात्कामचिन्ताकपित्थयोः ।भवेद्वयस्था सूक्ष्मैलाकाकल्यामलकीषु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 7.4.13 · p. 255
दुर्विधो निर्धने नीचे निहतो न्यक्स्वरे हते ।निर्ग्रन्थः श्रमणे निस्स्वे निरस्तस्तु निराकृते ॥ १३ ॥
अनुष्टुप्