चन्द्रातप
candrātapaपुं · masc.In 9 kośas: 7 synonym verses, 4 as a meaning of another word.
षोडशोंऽशः कला चिह्नं लक्षणं लक्ष्म लाञ्छनम् ।अङ्कः कलङ्कोऽभिज्ञानं चन्द्रिका चन्द्रगोलिका ॥ १०६ ॥चन्द्रातपः कौमुदी च ज्योत्स्ना बिम्बं तु मण्डलम् ।
अनुष्टुप्
genderपुंmasc.
चन्द्रिका कौमुदी ज्योत्स्ना तथा चन्द्रातपः स्मृतः ।मण्डलं बिम्बमाख्यातं हृदये लाञ्छनं मृगः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
सौमी स्यात्सोमदेवत्या सौम्या सोमीयमन्यवत् ।चन्द्रातपश्चन्द्रगोली चन्द्रिका कौमुदी तथा ।ज्योत्स्ना च षोडशोऽस्यांशः कलाऽसौ षोडशी ध्रुवा ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
चन्द्रातपोऽथ तद्विम्बं मण्डलं परिकीर्तितम् ।स्त्रियां प्रसन्नता सादः प्रपूर्वो नरि दृश्यते ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
चन्द्रिका कौमुदी ज्योत्स्ना चन्द्रिमा चन्द्रगोलिका ।चन्द्रातपश्च बिम्बं तु मण्डलं तदनन्तरम् ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
त्रिषु चाप्रपदीनं तत् पादाग्रप्रापितं हि यत् ।उल्लोचः स्यात् वितानोऽस्त्री चन्द्रा चन्द्रातपः पुमान् ।पटवासः पटमयं दूः षं वस्त्रगृहं स्थूलम् ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वैकक्ष्यं तु बृहतिका प्रावारश्चोत्तरासंगः ।चन्द्रोदय उल्लोचः कदरश्चन्द्रातपो वितानोऽस्त्री ॥ १२३ ॥
उद्गीतिः
genderपुंmasc.
चन्द्रातप as a meaning in nānārtha verses
- धरणिकोश ज्योत्स्नाज्योत्स्ना ज्योतिःषु या रात्रिर्ज्योत्स्ना चन्द्रातपः स्मृतः । ज्योत्स्नी पटोलिका ख्याता ज्योत्स्नी ज्योत्स्नान्विता निशा ॥ Dharaṇikośa 19.2.7
- नानार्थार्णवसंक्षेप चन्द्रिकाचन्द्रिका तु स्त्रियां ज्योत्स्नासंज्ञे चन्द्रातपे तथा । चन्द्रभागाख्यनद्यां च चन्दिरं तु जले नपि ॥ ७११ ॥ Nānārthārṇavasaṃkṣepa 4.711
- शब्दरत्नावली ज्योत्स्नाजिनो बुद्धे जित्वरे च तथार्हति पुमानयम् । ज्योत्स्ना ज्योत्स्नायुतनिशि ज्ञेया चन्द्रातपेऽपि च ॥ Śabdaratnāvalī 7.20.9
- शब्दरत्नावली वितानसार्वभौमगृहेऽपि स्यादहङ्कारपरे त्रिषु । वितानोऽस्त्री तु विस्तारचन्द्रातपमखेषु च ॥ Śabdaratnāvalī 7.20.77