कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

लाञ्छन

lāñchanaक्ली · neut.

In 14 kośas: 14 synonym verses, 3 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.14 · p. 8
षोडशोंऽशः कला चिह्नं लक्षणं लक्ष्म लाञ्छनम् ।अङ्कः कलङ्कोऽभिज्ञानं चन्द्रिका चन्द्रगोलिका ॥ १०६ ॥चन्द्रातपः कौमुदी च ज्योत्स्ना बिम्बं तु मण्डलम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.20
कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.44 · p. 6
चन्द्रिका कौमुदी ज्योत्स्ना तथा चन्द्रातपः स्मृतः ।मण्डलं बिम्बमाख्यातं हृदये लाञ्छनं मृगः ॥ ४४ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.45 · p. 6
अङ्कश्चिह्नमभिज्ञानं लाञ्छनं लक्ष्म लक्षणम् ।कलङ्कश्चेति विज्ञेया नातिनानार्थवाचकाः ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.37 · p. 136
द्विविधो हस्तिश्यामोऽथ प्रियङ्गुः पीततण्डुलः ।रागी च कङ्गुः कणिशो लाञ्छनो बहुकाणिशः ॥ ३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्ति (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.65 · p. 33
अंशः स्याद्वण्टको भागः पादस्तु स तुरीयकः ।लक्षणं लक्ष्मणं लक्ष्म लाञ्छनं केतनोऽस्त्रियाम् ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 152 · p. 73
कलङ्कावद्यमलिनं किञ्जल्कं लक्ष्म लाञ्छनम् ।निबोधमधमं पङ्कं मलीमसमपि त्यजेत् ॥ १५२ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.318 · p. 22
अर्कसूतेऽरुणोऽनूरुस्तार्क्ष्यभ्राताऽरुणद्युतिः ।कौमुदी चन्द्रिका ज्योत्स्ना कलङ्को लक्ष्मलाञ्छनम् ॥ ३१८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.75 · p. 42
दृप्तोऽभिमानी गर्विष्ठो गर्वितः स्तब्ध उन्नतः ।कलङ्को लाञ्छनं लक्ष्म चिह्नमङ्कश्च लक्षणम् ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.38 · p. 6
शङ्खः सर्पश्च सिंहश्च क्रमतो लाञ्छनानि च ।तत् तत् तीर्थकृतां चैतच्चिह्नानि ज्ञापकान्यपि ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.90 · p. 14
षोडशोंऽशः कला ज्ञेया लाञ्छनं लक्ष्म लक्षणम् ।चिह्नमङ्कः कलङ्कश्चाऽभिज्ञानं तदनन्तरम् ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.200 · p. 14
प्रसन्नता प्रसादस्तु प्रसन्नर्धे (?) हि सर्वतः ।लाञ्छनं लक्ष्मणं लक्ष्म चिह्णं लक्षणमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.177 · p. 24
जैवातृको दशहयः कलात्मा कैरवप्रियः ।प्राचीनतिलकश्चिह्नं लाञ्छनं लक्ष्म लक्षणम् ॥ १७७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.29 · p. 19
अंकश्चिह्नमभिज्ञानं लांछनं लक्ष्म लक्षणम् ।पुष्पवन्तौ सहैवोक्त्यां सूर्याचन्द्रमसावुभौ ॥ २९ ॥
अनुष्टुप्
genderक्लीneut.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.62 · p. 255
स्त्रियामुषायां करतोयिकायांस्यात्कुट्टिनीनामसु गोविशेषे ।तृणेऽन्तिमे नेत्रगदान्तरेऽथस्याल्लाञ्छनं लक्षणनामवाचि ॥ ६२ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1568 · p. 184
क्रियायां स्याल्लालयतेर्लाञ्छनं त नपुंसकम् ।अङ्कने चैव चिह्ने च संज्ञायां रभसोऽपठीत् ॥ १५६८ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.258 · p. 180
योषिज्जिह्वा च ललना लाञ्छनं नामचिह्नयोः ।रक्ते वितानमुल्लोचे विलग्नं मध्यलग्नयोः ॥ २५८ ॥
अनुष्टुप्

लाञ्छन as a meaning in nānārtha verses