दन्तच्छद
dantacchadaपुं · masc.In 7 kośas: 4 synonym verses, 3 as a meaning of another word.
रोम तनूरुहमुक्तं नयनगतं पक्ष्म मुखगतं श्मश्रु ।अधरो दन्तच्छद ओष्ठ उच्यते दन्तवासश्च ॥ ५२४ ॥
आर्याmetre not read in every line
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
ऊर्मिपुंतरङ्गपुंध्वनिपुंशब्दपुंअञ्जलिपुंकरपुटपुंओष्ठपुंअधरपुंदन्तच्छदपुंकपोलपुंगण्डपुंगुल्फपुंपादग्रन्थिपुंघुठपुंघूंठपुंपादपुंरोगपुंवेगपुंस्पर्शपुंपाकपुंत्यागपुंयोगपुंप्रसादपुंभेदपुंछेदपुंदाहपुंदोषपुंप्रकारपुंविकारपुंजयपुंनयपुंकरपुंवरपुंभरपुंशरपुंनरपुंप्लवपुंपवपुंभवपुंअन्धकारपुंक्लीवस्तिपुंकुक्षिपुंपाणिपुंजङ्घास्त्रीशिरास्त्रीस्नुषास्त्रीनासिकास्त्रीचूडास्त्रीवसास्त्री
genderपुंmasc.
तुण्डास्ये नासिकानासाघोणागन्धवहाः स्त्रियः ।घ्राणमोष्ठाधरौ दन्तच्छदौ दशनवाससी ॥ १०८० ॥
अनुष्टुप्
genderपुंmasc.
ओष्ठस्याधस्तु चिबुकं चुबुकं चबुकं च तत् ।अधरस्त्वधरोष्ठः स्यादोष्ठा दन्तच्छदोऽपि च ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
दन्तच्छद as a meaning in nānārtha verses
- कोषकल्पतरु अधरपश्चाच्छरीरे करिणां स्त्रियां तु भवेज्जरायौ चरमेऽधुनार्थे । आर्वाग्भवे भेद्यसमं वदन्ति दन्तच्छदे पुंसि तथाधरः स्यात् ॥ ८३ ॥ Koṣakalpataru 6.27.83
- नानार्थार्णवसंक्षेप ओष्ठक्षिप्रे रक्तफलासंज्ञवल्ल्यां (चो?त्वो)ष्ठी स्त्रियामथ । ओष्ठो दन्तच्छदे पुंसि मार्जारे त्वोतुवाग्द्वयोः ॥ १२५ ॥ Nānārthārṇavasaṃkṣepa 2.5.125
- त्रिकाण्डशेष चटुनिःश्वासे दशनोच्छिष्टश्चुम्बे दन्तच्छदेपि च । परिमाणमुदोर्दिष्टिर्दिष्टः कालोपदिष्टयोः ॥ ९७ ॥ Trikāṇḍaśeṣa 3.3.97