कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शल्क

śalkaक्ली · neut.

In 13 kośas: 13 synonym verses, 8 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.89 · p. 54
खण्डेऽर्धशकले भित्तं नेमशल्कदलानि च ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.25 · p. 251
शल्कं चोचमथ स्त्री स्याद्दारु सामान्यकाष्ठके ।रूक्षे कलिञ्जमिध्मं स्यादेध एधः समित्स्त्रियाम् ॥ २५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.115 · p. 356
जलायुका जलूकाथ शल्कं वल्कं च वल्कलम् ।मत्स्यस्य शकलेमी स्युरित्यपादा जलेचराः ॥ ११५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.179 · p. 399
स्यात् क्लीबे शकलं भित्तं शल्कं च मण्डलं त्रिषु ।कलङ्कोऽस्त्री लाञ्छनं च चिह्नं लक्ष्म च लक्ष्मणम् ॥ १७९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.86 · p. 470
शालूकपुष्पकानूकमौक्तिकानां त्रिकस्य च ।छात्राकशल्कचिबुककुतुकानां ततोऽपि च ॥ ८६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.63 · p. 33
अमा महाकला बिम्बस्त्वस्त्री स्यान्मण्डलं त्रिषु ।नेमो ना खण्ड-शकल-खण्डलानि न योषिति ॥अर्द्धस्त्रिषु समेंऽशेऽर्द्धं भित्तं शल्कं दलं समम् ।स्त्री फालिरर्द्धा तज्जादावथार्द्धपरिमाणके ॥अर्द्धिकः स्त्री त्वार्द्धिकास्या भवेच्चान्द्रार्द्धिकाह्नि च ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.92 · p. 105
कुतुक-कुलक-तोकानूक-हल्लीसकानित्रिक-रुचक-बुकाल्कालीक-शालूक-शल्कम् ।[228a]चिबुक-किबुक धान्याकाह्निकैडूक-शौका-लिक-कुहकयुतं च क्लान्तकं निःशलाकम् ॥ ९२ ॥
मालिनी
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 187 · p. 88
समस्तं सकलं सर्वं कृत्स्नं विश्वं तथाऽखिलम् ।शकलं विकलं खण्डं शल्कं लेशं लवं विदुः ॥ १८७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.323 · p. 92
भित्तं नेमं दलं शल्कं खण्डार्धशकलानि तु ।भागो वण्टस्तथांशोऽपि तुर्यांशः पादसंज्ञकः ॥ ३२३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.85 · p. 221
मार्द्वीकधान्याकशलाकतोका-लीकोल्मुकान्यल्कबुकालिकानि ।एडूकशल्के कुहकं त्रिकं चहल्लीसकं पुष्पककौतुके च ॥ ८५ ॥
इन्द्रवज्रा
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2607 · p. 420
अधश्च शकलं शल्कं खण्डश्च खण्डलं दलम् ॥ २६०७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.22 · p. 58
शल्कं स्यात् च्छल्लकं च्छल्लि शूल्ली चोचकमित्यपि ।काष्ठं दारु समित् स्त्री स्यात् एधः एधः समिन्धनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.332 · p. 44
मत्स्यझषानिमिषाण्डजपृथुलोमविसारशकुलिमीनाः स्युः ।वैसारिणोऽथ शकलं शल्कमुलूपं च तत्त्वचि त्रितयम् ॥ ३३२ ॥
गीतिः
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.20
शीलान्वयावनूके द्वे शल्के शकलवल्कले ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास कपादः Dharaṇikośa 1.1.3 · p. 2
तोके दुहितृपुत्रौ स्तः शल्के शकलवल्कयोः ।वल्कं स्याद्वल्कले खण्डे पङ्कं कर्दमपापयोः ॥
अनुष्टुप्
meaningsशकल
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.8 · p. 136
[247b]कर्कस्तु शुक्लाश्वघटानलेषुराशौ तथा दर्पण ईरितोऽयम् ।तर्को वितर्केच्छययोः(?)क्रियायाभेदे च शल्कं शकले च वल्के ॥ ८ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1317 · p. 155
छुरिकायां तु शस्त्री स्त्री शल्कं तु शकले नपि ।केचित्त्वात्तरसे प्राहुः शकले स्याच्च वल्कले ॥ १३१७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1318 · p. 155
मुद्गरे च त्रिषु त्वेष भीतौ पातरि चाप्यथ ।शको ना पशुविष्ठायां देशभेदे जले तु नप् ॥ १३१८ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.21 · p. 178
शल्कन्तु वल्कले शकले शको जात्यन्तरे नृपे ।शङ्कर्ना शङ्करे कीले संख्यास्त्रपापजन्तुषु ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 शक (syllable split); pāda 4, syllable 3 स्त्र (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.129 · p. 228
त्वचस्त्वचा त्वक् च चोचं शल्कं वल्कं च वल्कलम् ।शकलं वल्के शल्के त्वर्धेऽपि शल्कं शकलेऽपि ॥ १२९ ॥
metre not recognised
meaningsअर्ध
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 6.3.32 · p. 226
वीर्यं पराक्रमे रेतस्यन्नमाहात्म्ययोरपि ।वेष्टं ब्रह्मणि नाके च शल्के शकलवल्कले ॥ ३२ ॥
अनुष्टुप्

शल्क as a meaning in nānārtha verses

  • कोषकल्पतरु वल्ककल्कोऽस्त्रियां तैलघृतादिशेषे दम्भे च पापे च बिभीतके च । विट्किट्टयोः पापहृदि त्रिलिङ्ग्यां वल्कं तु शल्केन समार्थमुक्तम् ॥ ९ ॥ Koṣakalpataru 6.1.9
  • शब्दरत्नावली वल्कवल्कं स्याद्वल्कले शल्के लोकः स्याद्भुवने जने । अथ वङ्को नदीवक्रे पर्याणाङ्के च तङ्कुरे(?) ॥ Śabdaratnāvalī 7.1.20