कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चूर्णि

cūrṇiस्त्री · fem.

In 8 kośas: 8 synonym verses, 7 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.103 · p. 213
श्वेता कपर्दिका श्वेती चूर्णिः षण् कितवं पणः ।परिणायस्तु सारीणां समन्तान्नयने स्त्रियाम् ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.51 · p. 444
चूर्णी चूर्णिरुभेतुल्ये पद्धती पद्धतिः समे ।इत्येवं परिशिष्टादि पथाऽनेन समुन्नयेत् ॥ ५१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.99 · p. 65
चूर्णिः स्त्रियां भवेद्भाष्यं सूत्राभिप्रायवर्णकम् ।शारीरकीयं तच्छारीरकं शंकरभाषितम् ।पातञ्जलं फाणिपतं तत्पतञ्जलिभाषितम् ॥ ९९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.96 · p. 281
स्याच्चूर्णि चूर्णसंसृष्टं मौद्गं मुद्गैः समन्वितम् ।प्रणीतमुपसंपन्नं प्रयस्तं तु सुसंस्कृतम् ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.49 · p. 100
शाणीन्द्राणी द्रुणी[225a]गोणी कृपाणी चूर्णिरेषणी ।तूर्णिर्वेणिः करेणूर्णा ववर्णा दक्षिणा घृणा ॥ ४९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.47 · p. 311
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.103 · p. 185
ज्योतिषं ज्यौतिषं, भाष्ये चूर्णि-चूर्ण्यौ समे मते ।यङ्लुगन्ते चर्करीतं, चर्करितं, कलिन्दिका ॥ १०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.58 · p. 152
स्त्री चूर्णिरथशुक्तिः स्याद्दुर्नामा दीर्घकोशिका ।जलूका तु जलालोका सृक्था भूम्नि जलौकसः ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास णश्लोकः Dharaṇikośa 14.3.7 · p. 57
चूर्णे क्षोदे च धूलौ च चूर्णे स्यान्मृगयाचनम् ।चूर्णानि वासयोगाः स्युश्चूर्णिः कपर्दिकापि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.16 · p. 196
भेद्याभः कुकरे गुवाकुभिदि तु झूणिः स्त्रियां दुःसुर-स्तुत्यां चाथ कपर्दकीयशतके भाष्येऽपि चूर्णिः स्त्रियाम् ।भूर्णिः स्त्री भुवि पोषके तु परवज्जूर्णिस्तु कान्ता ज्वरेसंतापिन्यपरोपमोऽथ जलदे मूल्ये च वाणिः पुमान् ॥ १६ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 12 तु (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.433 · p. 79
चूर्णमस्त्री वासयोगे धूलौ क्षारान्तरे त्रि तु ।दग्धेऽथ चूर्णिः स्त्रीलिङ्गा ग्रन्थभेदे कपर्दके ॥ ४३३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.434 · p. 79
ना तु चूर्णयतौ द्वे तु चूचुर्जात्यन्तरे नृणाम् ।किरात्यां शम्बराज्जाते वैदेहादिति केचन ॥ ४३४ ॥
अनुष्टुप्
meaningsधातु
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1736 · p. 209
ज्यानिर्जीर्णौ क्षये हानिर्जामिस्तु कुलयोषिति ।तीर्णिस्तु तरणे चूर्णिर्ग्रन्थे चूर्णिः कपर्दके ॥ १७३६ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1921 · p. 234
चूर्णिर्ग्रन्थे कपर्दे च चर्चा चार्चिक्यचिन्तयोः ।पाठे च चञ्चुरेरण्डे पुंसि पक्ष्यङ्गके स्त्रियाम् ॥ १९२१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.12 · p. 221
घृणा जुगुप्साकृपयोर्घोणापि रथकर्णिका ।चिन्ताचर्चिक्ययोश्चर्चा चूर्णिर्ग्रन्थे कपर्दके ॥ १२ ॥
अनुष्टुप्