कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ऊर्णा

ūrṇāस्त्री · fem.

In 10 kośas: 11 synonym verses, 8 as a nānārtha head word, 1 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.278 · p. 51
कार्पासं सर्वकार्यार्थं बादरं तदथ स्त्रियाम् ।ऊर्णा मेषादिलोम्नि स्यात्क्लीबे और्णं तदुद्भवे ॥ २७८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.19 · p. 463
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 220
भ्रुवोर्मध्यं कूर्च्चमस्त्री कूर्पं चावर्तके पुनः ।ऊर्णा भ्रुवोर्मध्यगते पक्ष्मा स्त्री नेत्ररोमणि ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.59 · p. 286
ऊर्णा मेषादिलोम्नि स्त्री वृन्दे त्वौरभ्रकं मतम् ।ऊर्णायास्तु विकारे स्यादौर्णमौर्णकमन्त्यवत् ।कम्बल्यं कम्बलीया तु नामनि * * * * * ।संघातोऽवेरविकटोऽविपटस्त्वविविस्तृतौ ॥ ५९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.49 · p. 100
शाणीन्द्राणी द्रुणी[225a]गोणी कृपाणी चूर्णिरेषणी ।तूर्णिर्वेणिः करेणूर्णा ववर्णा दक्षिणा घृणा ॥ ४९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
यात्रामात्रादिकान् शब्दान् स्त्रियां स्त्रीलिङ्गे विद्याज्जानीयादित्यर्थः । इयं यात्रा तीर्थादिगमनम् । इयं मात्राऽक्षरावयवस्तोकं च । इयं भस्त्रा लोहधमनी । इयं दंष्ट्रा दशनविशेषः । इयं वरत्रा त्रिगुणीकृता रज्जुः । वरत्रादीनामापि त्रान्तत्वान्नपुंसकत्वे प्राप्ते । ब्रूमः । त्रप्रत्ययाभावात्तद्व्यवस्थाभावादिति । भावान्तं त्र च । भाववाचकाद्धातोस्त्रप्रत्ययः स्यात् । ईच्च ऊच्च ईदूतौ तावन्ते यस्य तदिदं शब्दरूपमीदूदन्त अन्तःशब्दः प्रत्येकमभिसम्बध्यते । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इत्युक्तत्वात् । एकोऽच् यस्य तत् एकाच् एकस्वरमित्यर्थः । ईदूदन्तं यच्चैकाच् स्त्रियां तच्छब्दरूपं भवति । इयं स्त्री योषित् । इयं श्रीर्देवताविशेषः प्रभुशक्तिश्च । इयं भ्रूरक्ष्णोरुपरिरेखा । एकाजिति किम् । सेनानीः । ग्रामणीः । शरदादयोऽपि स्त्रियाम् । इयं शरत् ऋतुविशेषः । इयं दरत् ग्रीवास्थानम् । इयं दृषत् शिला । इयं प्रावृट् जलधरसमयः । चकारः समुच्चयार्थः । एवकारोऽवधारणे ।स्थूणोर्णे स्त्रीयोगे स्तो गृहशशपूर्वकयोर्नपुंसकता ।सर्वस्याक्षिनाम्नो जलनाम्नश्चैव मुक्त्वापः ॥ १३ ॥
metre not recognised
genderस्त्रीfem.doubtful
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.49 · p. 216
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1087 · p. 134
ऊर्णा भ्रूमध्यगावर्ते तन्मध्ये कूर्चमस्त्रियाम् ।उत्तमाङ्गशिरःशीर्षकानि मस्तकमस्त्रियाम् ॥ १०८७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.74 · p. 71
पुच्छोऽस्त्री लूम लांगूलं बालहस्तश्च वालधिः ।खुरः शफः शको विष्ठा घासस्तु यवसः शरिः ।रोमन्थनन्तु रोमन्थो रोमोर्णोर्णास्तुकोऽपि च ॥ ७४.५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.33 · p. 138
मालाकारो माल्यजीवी मालिकः प्रातिहारिकः ।ऊर्णा स्नावः कदल्यादेः करण्डी तु पुटी त्रयी ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.98
ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास णार्धश्लोकः Dharaṇikośa 14.2.3 · p. 50
ऊर्णा मेषादिलोम्नि स्याद्भ्रूमध्यावर्तकेऽपि च ।श्रेणिः समानवर्णानां संहतिः श्रेणिरावलिः ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.110 · p. 52
ऊहा न क्ली विचारे स्यात् सामग्रन्थान्तरे तु ना ।ऊर्णा सा स्त्री कदल्यादेस्तन्तौ मेषादिलोमनि ॥ ११० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.111 · p. 52
प्रशस्तरोमावर्ते च भ्रूमध्यस्थेऽथ हिंसिते ।ऊर्णस्त्रि हिंसने तु क्ली स्यादूकस्तु किलिञ्जके ॥ १११ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास उकारादयः Paramānandīyanāmamālā 5.3.63 · p. 169
ऊर्णा भ्रुवोऽन्तरे लोमावर्ते मेषस्य लोमनि ।उमा कीर्तिश्रियोर्गौर्यां कान्तिदुर्गाशचीष्यथ ॥ ६३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.4 · p. 207
ऊर्णा स्यादन्तरावर्ते भ्रुसोर्मेषादिलोमनि ।कर्णः स्यात्तु पृथापुत्रे श्रवणे काञ्चनी(?) त्रिषु(?) ॥क्षण पर्वण्युत्सवे च कालमानेऽपि न द्वयोः ।कणा तु जीवके चाल्पपिप्पलीमक्षिकासु च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1877 · p. 229
ऊर्णा तन्तौ भ्रुवोरन्तरावर्तेऽव्यादिलोमसु ।ऋतं तथ्ये शिलोञ्छे च ऋतुर्गीष्मादिपुष्पयोः ॥ १८७७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.6 · p. 220
ऊर्णा भ्रूमध्यगावर्ते तन्तौ मेषादिलोमसु ।हिंसाविक्षेपयोः कीर्णिः कीर्तिः पंके यशस्यपि ॥ ६ ॥
अनुष्टुप्

ऊर्णा as a meaning in nānārtha verses