कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धातु

dhātuपुं · masc.

In 15 kośas: 17 synonym verses, 15 as a nānārtha head word, 23 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.620 · p. 27
रस आहारतेजोऽग्निसंभवः षड्रसासवः ।आत्रेयोऽसृक्वरो धातुर्घनमूलमहापरः ॥ ६२० ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1036 · p. 40
स्यादाकरः खनिः खानिर्गञ्जा धातुस्तु गैरिकम् ॥ १०३६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शैलवर्गः Amarakośa 2.3.13
धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.170 · p. 21
उच्यते गैरिकं धातुस्ताम्रं शुल्वमुदुम्बरम् ।आरकूटः स्मृतो रीतिः कांस्यं सौराष्ट्रकं तथा ॥ १७० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.632 · p. 72
क्षतजं लोहितमस्रं रुधिरमसृक् शोणितं च रक्तं स्यात् ।अस्थीनि धातुकीकसकुल्यानि भवन्ति तुल्यानि ॥ ६३२ ॥
आर्या
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.27 · p. 129
सौभाञ्जनपलाकास्तु क्रिलापामार्गमुज्झुकैः (?) ।यवजस्वर्जिकायुक्तैः क्षाराष्टकमुदाहृतम् ॥त्रिषु लावणिकः प्रोक्तो यः स्याल्लवणविक्रयी ।धातुः पुमान्गैरिकोऽस्त्री रक्तग्रावा गवेरुकम् ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.29 · p. 221
लोमस्वङ्कुरितेषु द्वौ हृषिता हृष्ट इत्यपि ।लोमशो रोमशो रोमसंयुक्तः पञ्च भेद्यवत् ।रसासृङ्मांस-मेदोऽस्थि-मज्ज-शुक्राणि धातवः ।सप्त वा दश चैकेषां रोमत्वक्स्ना[89a]युभिः सह ॥ २९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.30 · p. 222
रस आहारजन्माग्निसंभवः षड्रसासवः ।आत्रेयोऽसृक्करो धातुर्घनमूलो(ल)महापरः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.45 · p. 223
इ[90a]न्द्रियं बीजमानन्दप्रभवं किट्टवर्जितम् ।प्रधानं पौरुषं पुंस्त्वं गर्भकृद्धातुरित्यपि ॥ ४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 170 · p. 82
प्रस्तरोपलपाषाणदृषद्धातुः शिला घनः ।तत्र जातमयो लोहं शातकुम्भं नयेत्परम् ॥ १७० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.316 · p. 43
गिरेर्मनःशिलादिः स्याद्धातुः स्याद्गैरिकादिकम् ।अथाकरे खनिः खानिर्लोहं कालायसं घनम् ॥ ३१६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.998 · p. 153
रसाऽसृग्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ९९८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1789 · p. 293
स्वर्णरौप्यादयो लोके धातुर्वा गैरिकं भवेत् ॥ १७८९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शैलवर्गप्रकाशः Śabdaratnāvalī 3.3.18 · p. 56
गिरेरूर्ध्वस्थिता भूमिरुक्ता शैष(?)मधित्यका ।गिरेर्मनःशिलाद्यस्तु धातुरित्यभिधीयते ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.47 · p. 45
शुक्ल-धातू भृगुर्हंसः सामगः सत्यसङ्गतिः ।मत्यानन्दोऽथ दीप्तास्यः समयः षा-र्णकः स्मृतः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात र् Tantrābhidhāna 7.44.52 · p. 51
रो भुजङ्गो धातुरक्तः सूर्यो वै वेदकस्तथा ।दीपको ज्वलनश्चैव स्थूलदण्डश्च तैजसः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.65
श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः ।इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः ॥ ६५ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.857 · p. 98
पृथिव्यादिषु भूतेषु शरीरेषु रसादिषु ।लोहेषु च स्मृतो धातुः स्वभावे गैरिकादिषु ॥ ८५७ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तश्लोकः Dharaṇikośa 15.3.7 · p. 82
धातुः श्लेष्मादिरूप्यादिपृथ्व्यादिचक्षुरादिषु ।मनःशिलादिभूवाद्योर्विशेषादस्थ्नि गैरिके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.17 · p. 207
भातुर्मयूखे खरभासि चाथयातुः पुमानध्वगकालयोः स्यात् ।क्लीबे तु रक्षस्यथ धातुरश्म-विकारपञ्चेन्द्रियगोचरेषु ॥ १७ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.18 · p. 207
वातादिदोषेषु रसादिकेषुश्रोण्यादिभूषास्तिपचादिषु स्यात् ।विशेषतस्त्वस्थिनि गैरिकेऽथदेहेऽप्तुराद्ये परगस्त्वभीष्टे ॥ १८ ॥
उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.64 · p. 26
भस्रायां चर्मखण्डे च ऋषिभेदेऽथ धाकवाक् ।ओदनानडुहोर्धातुशब्दस्तु धनलोहयोः ॥ ६४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.65 · p. 26
स्वर्णे रेतसि पाषाणे शरीरे गैरिके रसे ।अस्थ्नि स्वभाव आकारे स्याद्भूवादिसुबन्तयोः ॥ ६५ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.66 · p. 26
वातादिशब्दस्पर्शादिगैरिकादित्वगादिषु ।महाभूतेष्विन्द्रियेषु पादे पञ्चाक्षरे तथा ॥ ६६ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास धकारादयः Paramānandīyanāmamālā 5.17.252 · p. 194
गवि ध्वाङ्क्षस्तु काके स्याद्बकयाचकयोरपि ।धातुः क्रियादिरूप्यादिमहाभूतेषु तद्गुणे ॥ २५२ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र तद्विः Śivakoṣa 12.1.180 · p. 17
तेजोवती करञ्ज्यो रक्तो ना भल्लके दृढस्कन्धे ।धातुः शिलादौ श्लेश्मादौ रसादौ गैरिकेऽस्थ्नि च ॥ १८० ॥
अनुष्टुप्metre not read in every line
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.17 · p. 215
दितिः स्त्रियां खण्डने स्यात्तथा च दैत्यमातरि ।दीप्तं निर्भासिते दग्धे ज्वलितेऽपि च वाच्यवत् ॥द्रुतं शीघ्रे विनीते च विम्राणे चाभिधेयवत् ।दृतिश्चर्मपुटे मीते द्युतिः स्त्री रश्मिशोभयोः ॥धातुर्मनःशिलादौ तु श्लेष्मादौ गैरिकेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.18 · p. 215
शब्दयोनिमहाभूततद्गुणेषु रसादिषु ।इन्द्रियेषु च धाता स्याद् विधौ तु पालके त्रिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1943 · p. 236
धातुर्भुवादिशब्दादिगैरिकादित्वगादिषु ।चक्षुरादिपृथिव्यादिहेमादिषु च रेतसि ॥ १९४३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.28 · p. 216
धातुर्वातादिशब्दादिगैरिकादित्वगादिषु ।महाभूतेष्विंद्रियेषु शब्दयोनिस्वभावयोः ॥ २८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.29 · p. 216
लोहेऽर्थे गैरिकस्वर्णरेतोऽस्थिषु विशेषतः ।नरोऽर्जुने मनुष्ये च नाकः स्वर्गान्तरिक्षयोः ॥ २९ ॥
अनुष्टुप्
doubtful

धातु as a meaning in nānārtha verses