ज्योत्स्नी
jyotsnīस्त्री · fem.In 11 kośas: 9 synonym verses, 3 as a nānārtha head word, 3 as a meaning of another word.
ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका ।
अनुष्टुप्
genderस्त्रीfem.
ज्योत्स्नी च ज्यौत्स्निका ज्योत्स्ना ज्योत्स्नावत्यां निशि स्थिताः ।तारकं तारका तारा तारं च परिकीर्त्यते ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
दर्शरात्रिस्तमिस्राथ ज्योत्स्नी स्यात्पूर्णिमानिशा ।निशागणो गणरात्रो गर्भकं यामिनीद्वयम् ॥ १३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
genderस्त्रीfem.
ज्योत्स्नावती चन्द्रवती ज्योत्स्नी चन्द्रिकयान्विता ।अभ्रं मेघो वारिवाहो जलविड्घूमयोनयः ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
अथ सा तामसी या स्यात्तमोयुक्ता विभावरी ।ज्योत्स्नी ज्योत्स्ना ज्योत्स्निका सा भवेत् ज्योत्स्नान्विता निशा ॥
अनुष्टुप्
genderस्त्रीfem.
धामाङ्गवः घोषकः स्याद् घोषो घोणालताह्वये ।धामाङ्गवे पीतवर्णे महाजाली प्रकीर्तिता ।परोलिका परोली च ज्योत्स्नी जाली पटोलिका ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
ज्योत्स्नायुक्तक्षपायां तु, ज्योत्स्नी ज्योत्स्नापि, दर्शनिट् ।तमिस्रा दन्तसंयोगा द्युः पक्षी निड्द्वयावृतः ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
घण्टाला तु कृतच्छत्रा ज्योत्स्नी कोशातकी फली ।ग्राम्या मृदङ्गफलिका जालिनी फलिनीत्यपि ॥ ६२७ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्योत्स्न्यां स्वल्पफला ग्राम्या मृदंगः कृतवेधनः ।अथ जिंगी दीर्घफला मागधी मलनोत्तमा ॥ १६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
genderस्त्रीfem.
अग्निर्भल्लातके चित्रे घनो मुस्ते घनं त्वचि ।ज्योत्स्नी पटोलिकायां स्याज्ज्योत्स्ना श्यामलघोषयोः ॥ २४३ ॥
अनुष्टुप्
meaningsपटोलिका
ज्योत्स्नी पटोलिकायान्तु ज्योत्स्नायुतनिशि स्त्रियाम् ।तनुर्देहे त्वचि स्त्री स्यात्त्रिष्वल्पे विरले कृशे ।दानं त्यागे हस्तिमदे च्छेदपालनशुद्धिषु ॥
अनुष्टुप्
ज्योत्स्नी as a meaning in nānārtha verses
- धरणिकोश पटोलीदुकूलं कथितं क्षौमे दूकूलं शुक्लवाससि । पटोलावौषधीवस्त्रभेदौ ज्योत्स्नी पटोल्यपि ॥ Dharaṇikośa 27.2.42
- कोषकल्पतरु पटोलकासीसके चासनपर्णिकायां शीतेऽन्यवत्स्यात्प्रमदे तु शत्रौ । कल्लोल उल्लोलकवाचकश्च ज्योत्स्न्यां पटोलो द्वितयेऽम्बरे ना ॥ ३६ ॥ Koṣakalpataru 6.28.36
- परमानन्दीयनाममाला कोशातकीकाकरूकोऽथ दम्भे स्याद्भीते घूके स्त्रिया जिते । कोशातकः कचे घोषे स्त्रीत्वे ज्योत्स्नी पटोल्यपि ॥ १४४ ॥ Paramānandīyanāmamālā 5.7.144