All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
नान्ताः
इति धान्ताः ।
अग्निर्भल्लातके चित्रे घनो मुस्ते घनं त्वचि ।ज्योत्स्नी पटोलिकायां स्याज्ज्योत्स्ना श्यामलघोषयोः ॥ २४३ ॥
16.243 · p. 22
अनुष्टुप्
धाना वितुन्नके भृष्टयवाद्यन्ने च सक्तुषु ।मुनिः पियालदमनागस्त्यकोरककिंशुके ॥ २४४ ॥
16.244 · p. 23
अनुष्टुप्
कङ्केल्लिमल्ल्योर्मृत्स्ना तु तुवरीमृत्सयोरपि ।रास्ना च स्याद्भुजङ्गाक्ष्यामेलापर्ण्यामपि स्त्रियाम् ॥ २४५ ॥
16.245 · p. 23
अनुष्टुप्