राजहंस
rājahaṃsaपुं · masc.In 15 kośas: 16 synonym verses, 4 as a nānārtha head word, 5 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
आताम्रै राजहंसाश्च धार्तराष्ट्राः सितेतरैः ।मलिनैर्मल्लिकाख्याश्च कथ्यन्ते चरणाननैः ॥ २५२ ॥
अनुष्टुप्
genderपुंmasc.
राजहंसस्तु तद्भेदे धार्तराष्ट्रः सितेतरे ।वरटा हंसकान्ता स्यात् वराला वरलापि च ॥ २९१ ॥
अनुष्टुप्
genderपुंmasc.
भृङ्गः कलिङ्गो धूम्याटो राजहंसस्तु बुद्धिमान् ।किकिर्दिविः स्वर्णचूडः चषो राजविहङ्गमः ॥ ३०० ॥
अनुष्टुप्
genderपुंmasc.
शकुनाहृतपर्यायो राजहंसार्थ इत्यपि ।दीर्घशूको लम्बशूके रोध्रशूकस्तु तत्समे ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
राजहंसः सितो रक्तैरक्षिचञ्चुपदैः पुनः ।मलिकाक्षो मल्लिकाक्षो मल्लिको पिचधूसरैः ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
चक्राङ्गो धवलगरुन्मराल-हंस-चक्राङ्का अपि कलकण्ठ-केरवौ च ।आरक्ताननचरणः स राजहंसःश्वेतान्यैर्मुखचरणैः स धार्तराष्ट्रः ॥ ६९ ॥
प्रहर्षिणी
genderपुंmasc.
विभावसुः स्यात्तरणौ च हार-भेदे हुताशे सुरगाथकेषु ।निशि स्त्रियां भे तु पुनर्वसुः स्या-त्कात्यायने स्यादथ राजहंसः ॥ २३ ॥
उपजातिः
genderपुंmasc.
राजहंसास्तु ते चञ्चुपादैः स्युर्लोहितैश्च ये ।मलिनैर्मल्लिकाक्षास्ते कादम्बा कलहंसकाः ॥ २२८ ॥
अनुष्टुप्
genderपुंmasc.
हंसः श्वेतगरुत्श्वेतपक्षो मानसमन्दिरः ।राजहंसो रक्तवक्त्रचरणोऽण्डजनायकः ॥ ३६६ ॥
अनुष्टुप्
genderपुंmasc.
हंसो मरालश्चक्राङ्गो मानसौकाः शितच्छदः ।हंसभेदा राजहंसाः कादम्बा धार्तराष्ट्रकाः ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
राजहंसास्त्वमी चञ्चुपादाभ्यां ये च लोहिताः ।मलिना मल्लिकाक्षाः स्युर्धार्त्तराष्ट्राः सितेतराः ॥ २४०४ ॥
अनुष्टुप्
genderपुंmasc.
राजहंसस्तु शुक्लाङ्गरक्तचञ्चूपदैरिह ॥
genderपुंmasc.
राजहंसा मल्लिकाक्षा धार्तराष्ट्रा यथाक्रमम् ।कलहंसस्तु कादम्बः किञ्चिदाधूसरच्छदः ॥ ८०८ ॥
अनुष्टुप्
genderपुंmasc.
क्षीराशश्चाप्यसौ राजहंसो रक्तैः पदाननैः ।मलिनैर्मल्लिकाक्षस्तैर्धार्तराष्ट्रः सितेतरैः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
स्याद्रक्तपादाननहंसभेदेकादम्बके पीतपदानने च ॥ २४ ॥
इन्द्रवज्रा
doubtful
नृपोत्तमे स्यात्कलहंस आद्येऽवध्वंस उक्तोऽप्यवचूर्णनेऽपि ।निन्दापरित्यागगतोऽथ मूर्वा-द्राक्षास्वपि स्यादिह दुग्धिकासु ॥ २५ ॥
उपजातिः
meaningsनृपोत्तम
doubtful
रासे रसस्तु शृङ्गारे गोष्ठामुत्सवरासयोः ।राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः ॥
अनुष्टुप्
राजहंसो नृपाग्र्ये च जिह्वाभूः शल्लकी सा ।जले शरीरधातौ च पारदस्वादयोः रसः ॥ ४४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
meaningsनृपाग्र्य
राजहंस as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप कलहंसराजहंसेऽप्यथो पुंसि विज्ञेयः श्रेष्ठभूभुजि । कलेबरं तु क्ली काये शवे त्वन्ये स्त्रियां पुनः ॥ १३७ ॥ Nānārthārṇavasaṃkṣepa 6.137
- नानार्थार्णवसंक्षेप जालपादजातरूपं सुवर्णे क्ली रूप्ये चार्थादि पूर्ववत् । जालपादो द्वयोर्हंसे राजहंसे तु दत्तकः ॥ २४० ॥ Nānārthārṇavasaṃkṣepa 6.240
- शब्दरत्नावली कलहंसकलहंसश्च कादम्बे राजहंसे परात्मनि । कनीयाननुजेऽत्यल्पे तरुणेऽपि च वाच्यवत् ॥ Śabdaratnāvalī 7.32.43
- शब्दरत्नाकर कलहंसऐराबतः सुरगजे घने काकोदराधिपे । कलहंसस्तु कादम्बे राजहंसे महानृपे ॥ २२०६ ॥ Śabdaratnākara 4.1.2206
- वैजयन्ती कलहंसदात्यौहाली कलक्वाणौ खड्गिखड्गौ करालिकौ । कलहंसो राजहंसे कादंबे श्रेष्ठभूभुजि ॥ २० ॥ Vaijayantī 8.1.20