नामधेय
nāmadheyaक्ली · neut.In 12 kośas: 12 synonym verses.
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तोऽथाह्वयोऽभिधा ।गोत्रसंज्ञानामधेयाख्याह्वाभिख्याश्च नाम च ॥ २६० ॥
अनुष्टुप्
genderक्लीneut.
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः ॥ ७ ॥आख्याह्वे अभिधानं च नामधेयं च नाम च ।हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
आख्या संज्ञाभिधाह्वानं नामधेयं च नाम च ।आख्यायिका कथाख्यानं प्रह्वलीका प्रहेलिका ॥ १५२ ॥
अनुष्टुप्
genderक्लीneut.
जनश्रुतिः किंवदन्तिर्वार्त्तोदन्तः पुमानयम् ।वृत्तान्तोऽपि प्रवृत्तिः स्त्री नामधेयं च नाम च ॥ ६७ ॥
अनुष्टुप्
genderक्लीneut.
आख्याभिक्षा(ख्या?)भिधा संज्ञाह्वा गोत्रं नाम चास्त्रियाम् ।शर्माह्वया नामधेयमभिधानं च न स्त्रियाम् ॥ ३२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
नामधेयं प्रिये वाक्ये चटु चाटु यथाक्रमम् ।सत्यं यथातथं तथ्यं सद्भूतं च यथास्थितम् ॥ १८१ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानं नामधेयं नामाख्या आह्वयोऽभिधा ।गोत्रं संज्ञा च संबुद्धिर्हूतिराकरणं हवः ॥ १२९ ॥
अनुष्टुप्
genderक्लीneut.
नामधेयं च नाम स्यादथ सम्बोधनं पदम् ।आन्त्रणमपि ज्ञेयमाह्वानं त्वभिमन्त्रणम् ॥ ३७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादुदन्तकः ।नामाभिधानमाह्वानं नामधेयञ्च लक्षणम् ॥
अनुष्टुप्
genderक्लीneut.
किंवदन्तिर्वदन्तिश्चोदन्ते वृत्तान्त-वार्तिके ।अभिधायां नामधेयं नामाख्याऽभिख्ययाऽह्वयः ॥ १०५ ॥
अनुष्टुप्
genderक्लीneut.
स्यादाख्याह्वाभिधा संज्ञा नामधेयं च नाम च ।हूतिराकरणाह्वाने संहूतिर्बहुभिः कृता ॥ ९०६ ॥
अनुष्टुप्
genderक्लीneut.
हक्कारामंत्रणाह्वानं सहूतिर्बहुभिः कृता ।अभिधानं नामधेयं नामाख्याह्वाभिधाह्वयः ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.