कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तथ्य

tathyaक्ली · neut.

In 14 kośas: 12 synonym verses, 11 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.176 · p. 15
सत्यं सम्यक्समीचीनमृतं तथ्यं यथातथम् ॥ २६४ ॥यथास्थितं च सद्भूतेऽलीके तु वितथानृते ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.40
सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.144 · p. 18
ऋतं सत्यं समीचीनं सम्यक् तथ्यं यथातथम् ।अलीकं वितथं मिथ्या मृषा स्यादनृतं तथा ॥ १४४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.73 · p. 447
चटु चाटु प्रियप्रायं प्रियसत्यं तु सूनृतम् ।सत्यं तथ्यं समीचीनमृतं सत्यं यथातथम् ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.55 · p. 71
सत्यं तथ्यं भूतं सम्यगृतं स्यात्समीचीनम् ।सदथाव्ययं यथार्थं यथातथं स्याद्यथास्थितं च मतम् ॥ ५५ ॥
उद्गीतिः
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.181 · p. 27
नामधेयं प्रिये वाक्ये चटु चाटु यथाक्रमम् ।सत्यं यथातथं तथ्यं सद्भूतं च यथास्थितम् ॥ १८१ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.133 · p. 32
असत्यं वितथं कूटं मिथ्यालीकं मृषानृतम् ।सत्यं तथ्यमृतं सम्यक् सूनृतं च यथास्थितम् ॥ १३३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.383 · p. 49
यथातथमृतं तथ्यं सद्भूतं स्यान् मृषाऽनृतम् ।अलीकं वितथं मिथ्याऽसत्यं सत्येतरत् तथा ॥ ३८३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.398 · p. 28
अविस्पष्टं भवेन्म्लिष्टं वितथं चानृतं मृषा ।अथ सत्यमृतं सम्यक् तथ्यावितथमित्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.107 · p. 185
तथ्यं यथातथं सम्यक्, समीचीनं च, रूक्षके ।निष्ठुरं तृतीयवर्गद्वितीययुगवर्णने ॥ १०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तृ (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.935 · p. 117
ग्रस्तं सत्यमृतं तथ्यमसत्यं वितथानृते ।अलीकं सान्त्वमुख्यानि पदानि त्रिषु तद्वति ॥ ९३५ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.3 · p. 196
सत्यं तथ्यमृतं सम्यक् समीचीनं तथार्थवाक् ।कर्कशे परुषो रूक्षो मठरः खोरणः खरः ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.

तथ्य as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् सत्यरहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः ॥ १५४ ॥ Amarakośa 3.3.154
  • धरणिकोश सत्यसत्यं युगे च लोके स तपोलोकात्परस्तु यः । सत्या स्यात्सत्यभामायां सत्यं शपथतथ्ययोः ॥ Dharaṇikośa 25.3.13
  • कोषकल्पतरु सत्यलब्धव्यवा[38a]चि त्रितयेऽप्यथार्घ्यम् अर्घार्हयोग्यार्थकमन्यलिङ्गम् । सत्यं तु तथ्ये शपथे कृते त- द्युक्तेऽन्यवत्पुंसि तु लोकभेदे ॥ ४० ॥ Koṣakalpataru 6.26.40
  • कोषकल्पतरु औचित्यकौकृत्यं त्वनुतापकेऽप्यनुचिताचारेऽथ देवे रवा- वादित्यो [41b]रविदेवताकहविषि त्वादित्यमुक्तं त्रिषु । पौलस्त्यौ किल यक्षराक्षसपती स्तस्तथ्ययोग्ये उभे औचित्ये अवधार्हमोधवचसोः प्राज्ञैरवध्यं स्मृतम् ॥ ७२ ॥ Koṣakalpataru 6.26.72
  • नानार्थार्णवसंक्षेप सत्यआरोग्ये क्ली तु सत्यं स्याच्छपथे तथ्य एव च । त्रि तु तद्वति सत्या तु सत्यभामाह्वये स्त्रियाम् ॥ १४५० ॥ Nānārthārṇavasaṃkṣepa 2.5.1450
  • शब्दरत्नावली सत्यअथ सन्ध्या पितृप्रस्वां युगसन्धिनदीभिदोः । सत्यं कृतयुगे दिव्ये तथ्ये त्रिषु च तद्वति ॥ Śabdaratnāvalī 7.26.35
  • शब्दरत्नावली मा स्ममा विकल्पे वारणे स्यात्स्मातीते पादपूरणे ॥ मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि । अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके ॥ अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते । उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते ॥ ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते । उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥ Śabdaratnāvalī 8.1.48
  • शब्दरत्नाकर ऋतऊर्णा तन्तौ भ्रुवोरन्तरावर्तेऽव्यादिलोमसु । ऋतं तथ्ये शिलोञ्छे च ऋतुर्गीष्मादिपुष्पयोः ॥ १८७७ ॥ Śabdaratnākara 4.1.1877
  • शब्दरत्नाकर सत्यसत्यं तु शपथे तथ्ये परमार्थेऽभिधेयवत् । स्वरोऽकाराद्युदात्तादिषड्जादिषु जनस्वने ॥ २०२२ ॥ Śabdaratnākara 4.1.2022
  • वैजयन्ती ऋतवर्षार्थजीवितेप्बायुरास्यं मुखविले मुखे । उरस्तु वक्षसि श्रेष्ठ ऋतं तथ्यसिलोंच्छयोः ॥ ३ ॥ Vaijayantī 6.3.3
  • वैजयन्ती सत्यसमा स्त्री वत्सरे साधुसर्वतुल्येषु वाच्यवत् । परमार्थेऽर्थवत्सत्यं षण्डः शपथतथ्ययोः ॥ ९५ ॥ Vaijayantī 6.5.95