कण्ठीरव
kaṇṭhīravaपुं · masc.In 16 kośas: 16 synonym verses, 2 as a meaning of another word.
अरण्यजेऽस्मिन्गवलः सिंहः कण्ठीरवो हरिः ॥ १२८३ ॥हर्यक्षः केसरीभारिः पञ्चास्यो नखरायुधः ।महानादः पञ्चशिखः पारीन्द्रः पत्यरी मृगात् ॥ १२८४ ॥श्वेतपिङ्गोऽप्यथ व्याघ्रो द्वीपी शार्दूलचित्रकौ ।चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः ॥ १२८५ ॥
अनुष्टुप्
genderपुंmasc.
सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः ।कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः ॥पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
मातङ्गद्विरदद्विपाः करिगजस्तम्बेरमानेकपाः,कुम्भीकुञ्जरवारणेभरदिनः सामोद्भवः सिन्धुरः ।तुल्यार्थाः कथिता हरिर्मृगपतिः पञ्चाननः केसरी,हर्यक्षो नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः ॥ २१४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
हर्यक्षः केशरी मानी नखी मृगपतिर्हरिः ।कण्ठीरवः पञ्चशिखः शैलाटो भीमविक्रमः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
सिंहो हरिः पञ्चशिखो मृगेन्द्रो मृगारि-नागारि-नखायुधाः स्युः ।पारीन्द्र-कण्ठीरव-जङ्गमाद्रि-शैलाट-विक्रान्त-सकृत्प्रजाश्च ॥ १ ॥
उपजातिः
genderपुंmasc.
सिंहः सुगन्धिः पारीन्द्रः शार्दूलः श्वेतपिङ्गलः ।कण्ठीरवो महानादो हरिः शार्दूलविक्रमः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
नागाद्यरिः कण्ठी(ण्ठि)रवो मृगेन्द्रः केसरी हरिः ।व्याघ्रश्चमूरः शार्दूलः शरभोऽष्टापदोऽष्टपात् ॥ ९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण्ठी (wrong syllable)
genderपुंmasc.doubtful
[42] सिंहः पञ्चाननः श्वेतपिङ्गः कण्ठीरवो हरिः ।महानादस्तथेभारिः पारीन्द्रो नखरायुधः ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
ग्लौरात्रेयो मुरश्चन्द्रो वृष्णिर्मिहिर इत्यपि ।ष्ट्यूमः स्थ्यूमश्चर्वरश्च क्लेदुः कण्ठीरवोंऽशुमान् ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
कण्ठीरवो महानादो मृगारिर्नखरायुधः ।पञ्चाननो गजारातिः पुण्डरीकस्तु चित्रकः ॥ १५२ ॥
अनुष्टुप्
genderपुंmasc.
महानादो नभःक्रान्तः कण्ठीरवश्च केसरी ।इभारिः रक्तजिह्वश्च वनराजो गणेश्वरः ॥ २३२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderपुंmasc.
सिंहः पारीन्द्रः पञ्चास्यो मृगेन्द्रः श्वेतपिङ्गलः ।कण्ठीरवः पञ्चशिखः शैलाटी भीमविक्रमः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्द्रः (wrong syllable)
genderपुंmasc.
सिंहे पारिन्द्र-पारीन्द्रौ कण्ठीरव- कण्ठेरवौ ।केशरी दन्त्यतालव्यः, व्याघ्रे द्वीपीव द्वीपिनः ॥ ३१९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 क (wrong syllable); pāda 4, syllable 5 व (wrong syllable)
genderपुंmasc.
सिंहः पञ्चमुखो हरिर्मृगपतिः कण्ठीरवः केसरीहर्यक्षो नखरायुधोऽथ कुठरः स्यादल्पकण्ठीरवः ।सिंहारिः शरभोऽष्टपादथ समाः शार्दूलपिण्डारक-व्याघ्रद्वीपितरक्षुचित्रतनवः स्युः पुण्डरीकोऽप्यमी ॥ ६७६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
सिंहः कण्ठीरवो भीमविक्रान्तः करिमाचलः ।पञ्चशिखश्च शैलाटः पारीन्द्रः श्वेतपिङ्गलः ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 शि (wrong syllable)
genderपुंmasc.
कण्ठीरवो मृगरिपुः सुगन्धिर्हरितो हरिः ।हलीक्ष्णस्तृणसिंहः स्यात् कुटरुर्मूगासिंहकः ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 गा (wrong syllable)
genderपुंmasc.
कण्ठीरव as a meaning in nānārtha verses
- शब्दरत्नावली अगौकस्अगौकाः शरभे पुंसि कण्ठीरवविहङ्गयोः । उदर्चिर्वीतिहोत्रे स्यादुत्प्रगे हरकामयोः ॥ Śabdaratnāvalī 7.32.42
- शब्दरत्नावली सिंहसहा पृथ्वीमुद्गपर्णीकुमारीषु नखौषधे । सिंहः कण्ठीरवे राशौ चोत्तरत्थो भवेद्वरे ॥ Śabdaratnāvalī 7.33.14