कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चतुर्मुख

caturmukhaपुं · masc.

In 10 kośas: 9 synonym verses, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.213 · p. 13
द्रुहिणो विरिञ्चिर्द्रुघणो विरिञ्चः परमेष्ठ्यजोऽष्टश्रवणः स्वयंभूः ।कमनः कविः सात्त्विकवेदगर्भौ स्थविरः शतानन्दपितामहौ कः ॥ २११ ॥धाता विधाता विधिवेधसौ ध्रुवः पुराणगो हंसगविश्वरेतसौ ।प्रजापतिर्ब्रह्मचतुर्मुखौ भवान्तकृज्जगत्कर्तृसरोरुहासनौ ॥ २१२ ॥शंभुः शतधृतिः स्रष्टा सुरज्येष्ठो विरिञ्चनः ।हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ २१३ ॥
metre not recognised
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 72 · p. 36
विधिर्वेधा विधाता च द्रुहिणोऽजश्चतुर्मुखः ।पद्मपर्य्याययोनिश्च पितामहविरञ्चिनौ ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.24 · p. 8
परमेष्ठी जगत्कर्ता पद्मभूरात्मभूरपि ।नाभिभूरष्टकर्णोऽपि पद्मासनचतुर्मुखौ ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.8 · p. 2
ब्रह्मा प्रजापतिः स्रष्टा विधिर्वेधाः पितामहः ।हिरण्यगर्भो द्रुहिणः परमेष्ठी चतुर्मुखः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.270 · p. 36
ब्रह्मा चतुर्मुखः शम्भुः स्रष्टा शतधृतिर्ध्रुवः ।विश्वरेताः जगत्कर्ता पितामहः प्रजापतिः ॥ २७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.27 · p. 3
अष्टाकर्णो हंसरथः सर्वकर्ता चतुर्मुखः ।कृष्णो विष्णुर्वासुदेवो वैकुण्ठः केशवो विधुः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.480 · p. 63
चतुर्मुखो ब्रह्मसंज्ञः पञ्चास्यस्तु हराह्वयः ।षण्मुखो गुहसंज्ञः स्यात् किंपाकः काकमर्दकः ॥ ४८० ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.3 · p. 41
हृत् तारको गुरुर्दीर्घो नारायण-चतुर्मुखौ ।अनन्तो वासुदेवश्च वेदान्तः कारकः स्मृतः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.7 · p. 3
हिरण्यगर्भो द्रुहिणो विरिञ्चः कश्चतुर्मुखः ।पद्मासनः सुरज्येष्ठश्चिरजीवी सनातनः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.

चतुर्मुख as a meaning in nānārtha verses