कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पलगण्ड

palagaṇḍaपुं · masc.

In 14 kośas: 13 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.792 · p. 36
रङ्गाजीवस्तौलकिकश्चित्रकृच्चाथ तूलिका ॥ ९२१ ॥कूचिका चित्रमालेख्यं पलगण्डस्तु लेप्यकृत् ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.9
कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.591 · p. 67
लेपकः पलगण्डः स्याद्रङ्गाजीवस्तु चित्रकृत् ।कर्म लेप्यादिकं सर्वं पुस्तकर्म स्मृतं बुधैः ॥ ५९१ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.344 · p. 97
पलगण्डो लेपकारी लम्बनस्तूक्षपालकः ।कायस्थः स्याल्लिपिकरः करणोऽक्षरजीवकः ॥ ३४४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.9 · p. 295
कुम्भकारो दण्डभृच्च स्तो दार्दुरिक-चाक्रिकौ ।कुलालचक्रं दण्डारः पलगण्डस्तु लेपकः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.236 · p. 38
आर्या वृद्धा तु सा देवी या स्याद्गोमयपुत्रिका ।पलगड्गो लेपकारः कल्पाणिः समलेखनी ॥ २३६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.431 · p. 155
लेप्यकृत्पलगण्डोऽसौ पुस्तं लेप्यादिकं मतम् ।दिवाकीर्तिः क्षुरी मुण्डकश्च नापितचण्डिलौ ॥ ४३१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.572 · p. 99
कुलालः कुम्भकारे स्यान्मालाकारस्तु मालिकः ।लेपोपजीविनि प्रोक्तः पलगण्डश्च लेपकः ॥ ५७२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1516 · p. 249
लेप्यकृत् लेपको नाम पलगण्डोऽपि कथ्यते ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.8 · p. 153
पलगण्डः सुधाजीवी लेपी लेपक इत्यपि ।तन्त्रवायस्तन्तुवायस्तन्त्रवायः कुविन्दवत् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1535 · p. 185
पिञ्जनं स्याद्विहननं पलगण्डस्तु लेपकः ।तूलिका लेखनी कूर्ची पुस्तं लेप्यादिकर्मणि ॥ १५३५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.2 · p. 77
दण्डभृत्पलगण्डस्तु सुधाजीवी च लेपकः ।कायस्थे कूटकृत्पञ्जीकरौ चित्रकरे कृणुः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.14 · p. 137
पांचालिका तु वस्त्रादिपुत्रिका सालभञ्जिका ।पलगण्डो लेपकारः कल्पाणिः समलेपनी ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.361 · p. 57
परम्पराख्ये सन्ताने पलगण्डस्तु लेपके ।भित्त्यादेः सुधया मर्त्यजातिभेदेऽपि च द्वयोः ॥ ३६१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.362 · p. 57
किरातात् करणीजाते पट्टबन्धः पुनर्द्वयोः ।पत्यौ जीवति जारेण जनितः क्षत्त्रियेण यः ॥ ३६२ ॥
अनुष्टुप्
doubtful