लेखनी
lekhanīस्त्री · fem.In 9 kośas: 8 synonym verses, 1 as a nānārtha head word, 8 as a meaning of another word.
मेलामसिर्द्वयोः पत्राञ्जनं स्याच्च मसी स्त्रियाम् ।स्त्रियां स्यात्कलमः पुंसि लेखनी चापि न स्त्रियाम् ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
कलमो लेखनी वर्णतूलिका वर्ण(र्णि?)का स्त्रियः ।तूलिका कूचिका चित्रलेखनी च स्त्रियो मताः ॥चरमे चित्रमालेख्यं लिषिः स्त्री चित्रलेखनम् ।लेखीलको लेखहारो चित्रयन्त्रेषु संचकः ॥लेखबर्हं लेखपत्रं वाचनं तु प्रहेलनम् ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
भक्षभेदेऽप्युलुम्बाख्ये त्रि तु लुम्बितरि स्मृतः ।लुम्बनं त्वर्दनं ज्ञेयं लेखनी तु स्त्रियामियम् ॥ १५७१ ॥
अनुष्टुप्
genderस्त्रीfem.
अर्णःशब्दोऽक्षरं वर्णः श्लोकः पद्यं सुभाषितम् ।मसीधेनुर्मषीपात्रं लेखनी वर्णतूलिका ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
लेखनी वर्णतुली स्यात् वर्णकाक्षरतूलिका ।कराश्रयः श्रीकरणश्चित्रकः कलमः पुमान् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 तु (wrong syllable)
genderस्त्रीfem.
पिञ्जनं स्याद्विहननं पलगण्डस्तु लेपकः ।तूलिका लेखनी कूर्ची पुस्तं लेप्यादिकर्मणि ॥ १५३५ ॥
अनुष्टुप्
genderस्त्रीfem.
लेखनी वर्णतूली स्याल्लेखो वाचिकहारकः ।वर्णदूतः स्वस्तिमुखः काचनं तन्निबन्धनम् ॥ २८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्व (wrong syllable)
genderस्त्रीfem.
लेखनी तूलिका कूर्ची पुस्तं लेप्यादिकर्मणि ।या तु लेप्यमयी नारी सा स्यादंजलिकारिका ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
स्याच्चित्रतूलिकायां क्ली पुनर्लेखनमित्यदः ।क्रियायां लिखतेस्त्रिस्तु साधने लेखकर्मणः ॥ १५७२ ॥
अनुष्टुप्
meaningsचित्रतूलिका
लेखनी as a meaning in nānārtha verses
- धरणिकोश कलमकलमो लेखनी चैव शालीनां वाचकः पृथक् ? । नियमस्तु प्रतिज्ञायां यन्त्रणे निश्चये व्रते ॥ Dharaṇikośa 24.2.13
- धरणिकोश शर्करीशर्वरी तु हरिद्रा स्याच्छर्वरी वनिता निशा । शर्करी लेखनी ज्ञेया शर्करी छन्दसो भिदि ॥ Dharaṇikośa 26.2.48
- कोषकल्पतरु तूलिकाआलेख्यलेखनीतूलशय्यास्वपि च तूलिका । नाटकाङ्गे कर्णजाहे करिणामपि चूलिका ॥ १७ ॥ Koṣakalpataru 6.1.17
- नानार्थार्णवसंक्षेप कलमवीणाप्रसेवके गेयभेदे च कलमः पुनः । लेखन्यामङ्कुरे शालिप्रभेदे तस्करेऽपि च ॥ ६२ ॥ Nānārthārṇavasaṃkṣepa 3.2.62
- नानार्थार्णवसंक्षेप नाराचीअयोमयशरे स्त्री तु नाराची कथिता बुधैः । लेखन्यां नाटकं तु क्ली रूपकान्यतमे भवत् ॥ १०१४ ॥ Nānārthārṇavasaṃkṣepa 4.1014
- शब्दरत्नावली कलमकलमः पुंसि लेखन्यां शालौ पाटच्चरेऽपि च । कुसुमन्तु फले पुष्पे स्त्रीरजोनेत्ररोगयोः ॥ Śabdaratnāvalī 7.25.33
- त्रिकाण्डशेष कलमकुसुमं स्त्रीरजः पुष्पं क्षेमं कल्याणरक्षयोः । क्षेमा चण्डाऽथ कलमा लेखनीचौरशालयः ॥ २९४ ॥ Trikāṇḍaśeṣa 3.3.294
- वैजयन्ती कलमकलमोंऽकुरलेखन्योः कठाकुः खगशिल्पिनोः । कारुजः कलभे नाके क्षवथुः क्षुतकासयोः ॥ १८ ॥ Vaijayantī 7.1.18