कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पुरस्

purasअ · indecl.

In 12 kośas: 9 synonym verses, 4 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य अव्ययवर्गः Abhidhānacintāmaṇi 7.1529 · p. 57
पुरः पुरस्तात्पुरतोऽग्रतः प्रायस्तु भूमनि ॥ १५२९ ॥
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह अव्ययवर्गः Amarakośa 3.4.7
अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः ॥ ७ ॥
अनुष्टुप्
genderअindecl.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.707 · p. 82
आदिरग्रं पुरा पूर्वं प्रथमं प्राक् पुरः स्मृतम् ।उपज्ञोपक्रमारम्भौ पश्चाच्च चरमं भवेत् ॥ ७०७ ॥
अनुष्टुप्
genderअindecl.
कल्पद्रुकोशः Kalpadrukośa · केशव अव्ययप्रकाण्डः Kalpadrukośa 3.4.10 · p. 458
सामीप्येऽथान्तरे साचि तिर्यगर्थे विवादिते ।सहसाऽथाङ्ग हे है भोः प्याट् पाडथ पुरोग्रतः ॥ १० ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.40 · p. 124
प्रेत्यामुत्रान्यसंसारेऽथास्ता[240a]नेर्विषये परै (?) ।प्रागुदक्प्रत्यगाद्याः स्युः पुरस्तात्तु पुरोऽग्रतः ॥ ४० ॥
अनुष्टुप्metre not read in every line
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अव्ययप्रकरणम् Suśīlanāmamālā 8.2788 · p. 455
समन्तात् सर्वतो विष्वक् परितश्च समन्ततः ।स्यादऽग्रतः पुरस्तात् च पुरश्च पुरतः पुनः ॥ २७८८ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश एकार्थवर्गः Śabdaratnāvalī 8.2.11 · p. 305
अकस्मात्सहसा चेतिद्वयमेतदर्किते ।पुरः पुराग्रे पुरतोऽग्रताद्यसमक्षयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ग्रे (syllables merged)
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.95 · p. 257
उपजोषं च समुपजोषं, सर्वासु दिक्ष्विह ।समन्ततः समन्ताच्च, पुरस्तात् पुरतः पुरः ॥ ९५ ॥
अनुष्टुप्
genderअindecl.
वैजयन्ती Vaijayantī · यादवप्रकाश अव्ययपर्यायाध्यायः Vaijayantī 8.8.11 · p. 287
अतीते वर्तमाने च स्यादन्ते रजनेरुषा ।मुहुः पुनःपुनः शश्वत्पुरस्तु पुरतोऽग्रतः ॥ ११ ॥
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.184
पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् ।मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे ॥ १८४ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास सान्ताः Dharaṇikośa 34.20.2 · p. 243
तिरोऽन्तर्धौ तिर्यगर्थे मिथोऽन्योन्यं मिथो [रहः] ।पुरोऽग्रेऽपि प्रथमे स्यादञ्जसा तत्त्वशीघ्रयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 थ (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.60 · p. 304
भोः स्यात्सम्बोधने प्रश्ने विषादेऽपि निगद्यते ।अञ्जसा च द्रुते तत्त्वे निरस्त्वर्द्धिवक्रयोः ॥नीचैः स्वच्छन्दाल्पयोः स्यात्पुरश्च प्रथमाग्रयोः ।पूर्वेद्युः प्रातःसमये धर्मादौ पूर्ववासरे ॥पतस्ततः प्रभृतयस्तूहनीयाः प्रयोगताः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययद्व्यक्षराध्यायः Śabdaratnākara 5.2.2272 · p. 276
भागे प्रकारकथने वीप्सायां लक्षणे प्रति ।प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रे पुरः स्मृतः ॥ २२७२ ॥
अनुष्टुप्

पुरस् as a meaning in nānārtha verses