प्रथम
prathamaवि · adj.In 14 kośas: 12 synonym verses, 7 as a nānārtha head word, 14 as a meaning of another word.
एकात्तानायनसर्गाग्राण्यैकाग्रं च तद्गतम् ।अनन्यवृत्यैकायतनगतं चाथाद्यमादिमम् ॥ १४५८ ॥पौरस्त्यं प्रथमं पूर्वमादिरग्रमथान्तिमम् ।जघन्यमन्त्यं चरममन्तपाश्चात्त्यपश्चिमे ॥ १४५९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
genderविadj.
पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् ॥ ८० ॥
अनुष्टुप्
genderविadj.
आदिरग्रं पुरा पूर्वं प्रथमं प्राक् पुरः स्मृतम् ।उपज्ञोपक्रमारम्भौ पश्चाच्च चरमं भवेत् ॥ ७०७ ॥
अनुष्टुप्
genderविadj.
पौरस्त्यः प्रथमोन्तोऽस्त्री जघन्यश्चरमोन्तिमः ।पाश्चात्यः पश्चिमोऽन्त्यश्च स्फुटं स्पष्टं निरर्थकम् ॥ १४० ॥
अनुष्टुप्
genderविadj.
पुंस्यादि-पूर्व-पौरस्त्य-प्रथमे चाद्य आदिमः ।अग्रं च मध्यमीयं तु मध्यमं माध्यमं तथा ॥ ९५ ॥
अनुष्टुप्
genderविadj.
जिह्मभुग्ने अरालं चादिमादी प्रथमः पुनः ।पौरस्त्यमग्र्यपूर्वे च जघन्यान्तेऽन्तिमं मतम् ॥ ३४५ ॥
अनुष्टुप्
genderविadj.
पौरस्त्यः प्रथमः पूर्व आदिराद्यादिमोऽग्रिमः ।जघन्यः पश्चिमोऽन्त्यश्च पाश्चात्त्यश्चरमोऽन्तिमः ॥ ९९ ॥
अनुष्टुप्
genderविadj.
आद्यमादिममादिश्च पौरस्त्यं प्रथमं पुनः ।पूर्वमग्रं तथा प्राक् च वाक्ये प्रथमवाचकः ॥ २६५२ ॥
अनुष्टुप्
genderविadj.
आदिराद्योऽग्रिमः पूर्वः पौरस्त्यः प्रथमादिमौ ।अन्तो जघन्यः पाश्चात्यश्चरमोऽन्त्योऽन्तिमोऽपरः ॥ १६७९ ॥
अनुष्टुप्
genderविadj.
मातृकाद्यः स्वराद्यश्च श्रीकण्ठः केशवो लघुः ।कलाद्यः केशवः कृष्णो भूतेशः प्रथमो भवेत् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
षष्ठं प्रथमतृतीये तुरीयतुर्ये चतुर्थं च ।द्वादशमेकादशमिति रूपं स्याद्विंशतेरर्वाक् ॥ २१ ॥
metre not recognised
genderविadj.
जघन्यं तु कुपूयं स्यादसारं लघु फल्गु च ।पुंस्यादिराद्यपौरस्त्यप्रथमप्रमुखादिमाः ॥ ७६ ॥
अनुष्टुप्
genderविadj.
आदौ प्रधाने परमः परस्मिन्विशेष्यवत्स्यात्प्रणवे तु षण्ढे ।आदौ प्रधाने प्रथमोऽन्यवत्स्यात्पुष्पे फलेऽस्त्री कुसुमं दृगार्तौ ॥ ८७ ॥
उपजातिः
meanings
आद्यायां च विभक्तौ च स्यात् पुनस्तिङ्विभक्तिषु ।आदितस्त्रितये पुंसि प्रथनस्तु पुमानयम् ॥ १११३ ॥
अनुष्टुप्
प्रथम as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् पुरस्तात्प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि । Amarakośa 3.3.480
- धरणिकोश अग्रअग्रं पलानां परिमाणमुक्तं प्रान्तेऽवलम्बेऽप्यधिकेऽपि चाग्रम् । अग्रं पुनः पर्वणि चाग्रमाहुः पूर्वे प्रधाने प्रथमे गणे च ॥ Dharaṇikośa 26.3.12
- धरणिकोश पुरस्तात्यावत्तावत्परिच्छेदे कार्त्स्न्ये मानेऽवधारणे । पुरस्ताच्चतुर्षु प्राच्यां पुरार्थे प्रथमेऽग्रतः ॥ Dharaṇikośa 34.7.6
- धरणिकोश पुरस्तिरोऽन्तर्धौ तिर्यगर्थे मिथोऽन्योन्यं मिथो [रहः] । पुरोऽग्रेऽपि प्रथमे स्यादञ्जसा तत्त्वशीघ्रयोः ॥ Dharaṇikośa 34.20.2
- कोषकल्पतरु पुरस्तात्प्राच्यां पुरोऽर्थे प्रथमे पुरस्तादग्रतोर्थके । स्वस्ति मङ्गलपुण्याशीःसुखाङ्गीकरणार्थकम् ॥ ९१ ॥ Koṣakalpataru 5.1.91
- नानार्थार्णवसंक्षेप एकएकशब्दस्तु धीमद्भिः समाम्नातश्च केवले । प्रधाने प्रथमेऽन्यस्मिन् समानेऽल्पेऽप्यसौ पुनः ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 2.4.5
- नानार्थार्णवसंक्षेप पूर्वपूर्वा स्त्रियामिन्द्रदिशि त्र्यपरप्रतियोगिनि । दिग्देशकालविषयेष्वग्रप्रथमयोरपि ॥ ७९८ ॥ Nānārthārṇavasaṃkṣepa 2.5.798
- नानार्थार्णवसंक्षेप मुख्यत्रिषु तु स्यान्मुखभवे प्रधाने प्रथमेऽपि च । मुष्कस्तु वृषणे न स्त्री स्त्रीभगावयवे तु ना ॥ १००५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1005
- परमानन्दीयनाममाला अग्रप्रतिमापूर्जयोरर्चाग्रं श्रेष्ठे प्रथमेऽधिके । अस्तः क्षिप्ते गिरेर्भेदेऽऽशू रथाङ्गे च सत्वरे ॥ ९ ॥ Paramānandīyanāmamālā 5.1.9
- परमानन्दीयनाममाला गणगर्भः कुक्षौ बले संधौ ग्रामः संवसथे स्वरे । गणः सैन्यान्तरे पूगे संख्यायां प्रथमे तथा ॥ १५८ ॥ Paramānandīyanāmamālā 5.9.158
- शब्दरत्नावली पुरस्तात्अहो बतानुकम्पायां खेदे सम्बोधनेऽपि च । पुरस्तात्प्रथमेऽवाच्यामग्रे चाल्पपुरार्थयोः ॥ Śabdaratnāvalī 8.1.33
- शब्दरत्नावली पुरस्भोः स्यात्सम्बोधने प्रश्ने विषादेऽपि निगद्यते । अञ्जसा च द्रुते तत्त्वे निरस्त्वर्द्धिवक्रयोः ॥ नीचैः स्वच्छन्दाल्पयोः स्यात्पुरश्च प्रथमाग्रयोः । पूर्वेद्युः प्रातःसमये धर्मादौ पूर्ववासरे ॥ पतस्ततः प्रभृतयस्तूहनीयाः प्रयोगताः ॥ Śabdaratnāvalī 8.1.60
- शब्दरत्नाकर पुरस्भागे प्रकारकथने वीप्सायां लक्षणे प्रति । प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रे पुरः स्मृतः ॥ २२७२ ॥ Śabdaratnākara 5.2.2272
- वैजयन्ती पुरस्तात्पुरस्तात्पूर्वदिश्यग्रे पुराप्रथमयोरपि । शीघ्रे सपदि सद्योऽर्थे समयान्तिकमध्ययोः ॥ ३३ ॥ Vaijayantī 8.7.33