कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आरम्भ

ārambhaपुं · masc.

In 14 kośas: 17 synonym verses, 5 as a nānārtha head word, 35 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.176 · p. 57
अभ्यादानमुपोद्घात आरम्भः प्रोपतः क्रमः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.26
प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः ।स्यादभ्यादानमुद्घात आरम्भः सम्भ्रमस्त्वरा ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.707 · p. 82
आदिरग्रं पुरा पूर्वं प्रथमं प्राक् पुरः स्मृतम् ।उपज्ञोपक्रमारम्भौ पश्चाच्च चरमं भवेत् ॥ ७०७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.37 · p. 238
वस्त्रग्रन्थिश्च नीवी स्यात्कौमुदी कार्तिकोत्सवः ।आवेशारम्भसंरम्भाः प्रियवाक् चटुचाटुनी ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.68 · p. 242
स्यात्प्रत्यादानमुद्घात आरम्भः संभ्रमस्त्वरा ।अनुक्रमः क्रमोऽथ स्यात् क्रान्तोऽधिक्रम आक्रमे ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.34 · p. 234
आर्त्विजीनस्त्वृत्विगर्हो यज्ञार्हो यज्ञियो मतः ।स सोम्यः सोमपानार्हस्त्रैवार्षिकधनो हि यः ।********माहिताग्निश्च साग्निकः ।अग्न्याहितोऽप्यथारम्भः उद्घातः प्रक्रमस्तथा ॥ ३४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.35 · p. 234
अभ्यादानमुपोद्धातो ज्ञात्वारम्भ उपक्रमः ।प्रत्युत्क्रमः प्रयोगः स्याच्छंयुवाकस्तु शंयुगी ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ बान्ताः Koṣakalpataru 6.24.52 · p. 278
आरम्भः सुरभिः पुमानृतुपतौ गन्धे च गन्धोपलेचाम्पेये सुमनःफले च कनके स्त्री शल्लकी गोगतः ।सद्गन्धे रुचिरे च वाच्यवदथ ज्ञातौ सनाभिः[30a] समेवर्षाभूर्नरि भेककिंचुलुकयोर्वृश्चीकभेक्योः स्त्रियाम् ॥ ५२ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.383 · p. 99
क्षणः समय इत्येवमुपोद्धातोऽप्युपक्रमः ।अभ्यादानमथारम्भः प्रयोगः प्रक्रमः समः ॥ ३८३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2749 · p. 447
अभ्यादानं तथाऽऽरम्भः उपक्रमश्च प्रक्रमः ।उपोद्घातस्तथोद्घातो नामधेयानि सन्ति वै ॥ २७४९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.52 · p. 174
प्रत्युत्क्रमप्रयोगार्थौ प्रयुद्धार्थावुभौ समौ ।अथाभ्यादानमारम्भ उद्घातश्च समा इमे ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.82 · p. 176
प्राक्सङ्गीतं गुणनिका पूर्वरङ्गश्च स स्मृतः ।प्रस्तावना स्यादारम्भो मुखबन्धश्च स स्मृतः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.85 · p. 256
साङ्गमोऽथो अनौद्धत्ये प्रश्रयः प्रशरोऽपि च ।आरम्भे क्रमः प्रोपाभ्यामुपोद्घात उद्घातवत् ॥ ८५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.18 · p. 89
तदात्वं प्रमुखं राजमल्ल उत्सिक्त उद्धृतः ।द्वैधं विवाद आरम्भ आदराडम्बरार्थकः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.25 · p. 85
छात्रस्तु शिष्यो मोकः प्राडुपज्ञा ज्ञानमादिमम् ।समौ सिद्धान्तराद्धान्तौ ज्ञात्वारंभ उपक्रमः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.9 · p. 104
तत्राष्टवर्ग आरंभः कृषिः सेतुर्वणिक्पथः ।खनिस्थानं वनच्छेदो दुर्गं शून्यनिवेशनम् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.15 · p. 193
अथाभ्यादानमारंभः प्रक्रमः स्यादुपक्रमः ।प्रत्युत्क्रमः प्रयोगः स्यादारोहणमभिक्रमः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास भार्धश्लोकः Dharaṇikośa 23.2.4 · p. 139
आरम्भं युद्धमिच्छन्ति चारम्भः समुपक्रमः ।विश्रम्भशब्दमिच्छन्ति विश्वासे प्रणये वधे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.78 · p. 53
स्फूर्यति ? स्यान्मानयते विष्टभ्नोति तथा स्मृतम् ।विष्टभ्नाति मतं स्तम्भेऽथारम्भाक्रमयोरवात् ॥ ७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्मा (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ बान्ताः Koṣakalpataru 6.24.51 · p. 278
विश्रम्भः प्रणये च केलिकलहे विश्वासहिंसार्थयो-र्विष्कम्भः प्रतिपन्नविस्तृतिगतः स्यान्नाटकाङ्कादिगे ।योगे योगसमाधिबन्धभिदि वाथास्त्री च वीणाङ्गकेपार्थद्रौ ककुभोऽथ दर्पवधयोरुद्योगसंभ्रान्तिषु ॥ ५१ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.18 · p. 12
वेषेऽप्याहुरथारम्भ उद्यमेऽपि वधेऽपि च ।उपक्रमे च निर्माणेऽथालम्भः स्पर्शने वधे ॥ १८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भान्ताः Śabdaratnāvalī 7.24.8 · p. 252
आरम्भः पुंसि दर्पे च त्वरायामुद्यमे वधे ॥आत्मभूः कामदेवे स्याद्विधौ विष्णौ भवेत्पुमान् ॥
अनुष्टुप्

आरम्भ as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् उपक्रमउपायपूर्व आरम्भ उपधा चाप्युपक्रमः ॥ १३९ ॥ Amarakośa 3.3.139
  • नामलिङ्गानुशासनम् क्रियाआरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् । उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः ॥ १५७ ॥ Amarakośa 3.3.157
  • नामलिङ्गानुशासनम् अथोमङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ । Amarakośa 3.3.482
  • धरणिकोश क्रियाक्रिया कृत्ये चिकित्सायां चेष्टायां कर्म[75]पूजयोः । उपायारम्भशिक्षासु निष्कृतौ संप्रधारणे ॥ Dharaṇikośa 25.3.1
  • धरणिकोश परिकरपरिकरं विदुः प्रज्ञाः पर्यङ्कपरिवारयोः । प्रगाढगात्रिकाबन्धे समूहारम्भयोरपि ॥ Dharaṇikośa 26.3.47
  • धरणिकोश अथोअथो अथ च संप्रश्ने आरम्भे मङ्गलेऽपि च । कार्त्स्न्येऽप्यनन्तरे चैव संशयेऽपि प्रकीर्तितः ॥ Dharaṇikośa 34.8.2
  • धरणिकोश सम्ओमित्यनुमतौ प्रोक्तं परमे चाप्यनुक्रमे । सं सङ्गार्थः प्रकृष्टार्थो आरम्भः शोभनार्थकः ॥ Dharaṇikośa 34.15.3
  • कोषकल्पतरु अभ्यादधातिप्रतेरभिवितो व्याप्तौ चाङस्त्वावपने हुतौ । प्रक्षेपारम्भयोरभ्याङ्युक्तोऽभेर्नाम्नि भाषणे ॥ ६९ ॥ Koṣakalpataru 3.5.69
  • कोषकल्पतरु उपक्रमिसंचारेऽपाद[199b]पायेऽथ परातः प्रतिबिम्बने । विवित्सारम्भ-विक्रान्त्योरुपधायां तथा स्मृतः ॥ ४८ ॥ Koṣakalpataru 3.5.48
  • कोषकल्पतरु किंचप्राक् प्रभाते व्यतीतेऽग्रे पूर्वार्थेऽवान्तरेऽपि च । किं चारम्भे हिरुङ्मध्ये ननु च प्रश्नदुर्गिरोः ॥ ८३ ॥ Koṣakalpataru 5.1.83
  • कोषकल्पतरु अवष्टम्भस्तम्भारम्भसुवर्णकेषु च तथावष्टम्भ उक्तो बुधै- श्चण्डान्ते(?) नरि शातकुम्भ उदितश्चामीकरे त्वन्तिमे ॥ ५४ ॥ Koṣakalpataru 6.24.54
  • कोषकल्पतरु प्रक्रमछन्दोविशेषेऽपि च कर्णिकायां मध्याङ्गुलावप्यधमस्तु निन्द्ये । न्यूने त्रयेथावसरे क्रमे चा- रम्भे तथा प्रक्रम ईरितोऽत्र ॥ ८० ॥ Koṣakalpataru 6.25.80
  • कोषकल्पतरु उपक्रमदिङ्नागे सकलक्षितेरधिपतौ स्यात्सार्वभौमस्तथा सर्वक्षोणिनिमित्तयोरपि मतः संयोगकोत्पातयोः । आरम्भेऽथ उपक्रमो गदचिकित्सोत्कोचयोर्विक्रमे- ऽथावर्ते जलगुल्म एव उदितः कूर्मे पयश्चत्वरे ॥ ९४ ॥ Koṣakalpataru 6.25.94
  • कोषकल्पतरु क्रियाछायातपाभावरविस्त्रियोस्त्विट्- शोभासु पङ्क्तौ प्रतिबिम्बके च । त्राणे च लञ्चेऽथ चिकित्सनेहा- रम्भोपदेशार्चननिश्चयेषु ॥ ५३ ॥ Koṣakalpataru 6.26.53
  • कोषकल्पतरु परिकरपर्यङ्के परिवारे प्रगाढगात्रप्रबन्धे च । आरम्भे च विवेके परिकर उक्तो बुधैर्व्राते ॥ ८८ ॥ Koṣakalpataru 6.27.88
  • नानार्थार्णवसंक्षेप क्रियाक्रिया स्त्री निष्कृतौ शिक्षाचिकित्सोपायकर्मसु । करणारम्भपूजासु चेष्टायां सम्प्रधारणे ॥ २०४ ॥ Nānārthārṇavasaṃkṣepa 2.5.204
  • नानार्थार्णवसंक्षेप उपक्रमउपक्रमश्चिकित्सायामुपधारम्भयोरपि । उपायपूर्वे त्वारम्भेऽमरसिंहः शरेप्यथो ॥ ३६ ॥ Nānārthārṇavasaṃkṣepa 6.36
  • परमानन्दीयनाममाला अवष्टम्भसाफल्यत्यागयोश्चाप्यवष्टम्भो हा[14]टके मतः । संरम्भारम्भयोः स्तम्भेऽभिजातो शकुलीनयोः ॥ ४० ॥ Paramānandīyanāmamālā 5.1.40
  • परमानन्दीयनाममाला उपक्रमविक्रमे च चिकित्सायामुपधारम्भयोरपि । उपलब्धिर्मनीषायां प्राप्तौ ज्ञानेऽपि कथ्यते ॥ ७३ ॥ Paramānandīyanāmamālā 5.3.73
  • परमानन्दीयनाममाला क्रियाकोशः पेश्यां वने दिव्ये धनागारे च कुड्मले । क्रिया कर्मणि चेष्टायामारम्भोपाययोरपि ॥ ९४ ॥ Paramānandīyanāmamālā 5.7.94
  • शब्दरत्नावली अनुबन्धआरम्भे प्रकृता वृत्तौ पुमान् मुखानुयापिनि । अनिरुद्धः कामपुत्रे वाच्यलिङ्गस्त्वनर्गले ॥ Śabdaratnāvalī 7.19.39
  • शब्दरत्नावली उपक्रमज्ञात्वारम्भे विक्रमे स्याच्चिकित्सायामुपक्रमः । स्वीकारेऽप्यभ्यागमने भवेदुपगमः पुमान् ॥ Śabdaratnāvalī 7.25.46
  • शब्दरत्नावली क्रियापुंसि क्लीबन्तु कायं स्यान्मनुष्यतीर्थभिद्यपि । क्रिया कर्मणि पूजायामारम्भे सम्प्रधारणे ॥ उपाये निष्कृतौ शौचे चेष्टायामपि च स्त्रियाम् । कुड्यं विलेपने भित्तौ क्लीबं कौतुहलेऽपि च ॥ कुल्यं सूर्पे कीकशे स्यादामिषे द्रोणभिद्यपि । कुल्या जीवन्तिकौषध्यां प्रणाल्यां सरिति स्त्रियाम् ॥ अमात्ये पुंसि च कुलीद्भवे कुलहिते त्रिषु । कृत्या कर्मणि देवे स्त्री विद्विष्टकार्ययोस्त्रिषु ॥ गयो ना पशुराजर्षिभेदे तीर्थे पुनः स्त्रियाम् । गव्या गोसंहतौ क्लीबं रागद्रव्ये धनुर्गुणे ॥ गोदुग्धादिगोहितयोस्त्रिषु गव्यं निगद्यते ॥ Śabdaratnāvalī 7.26.11
  • शब्दरत्नावली किञ्चचात्योन्यार्थे समाहारेऽन्वाचये पादपूरणे । समुच्चये च निर्द्वन्द्वे पक्षान्तरेऽवधारणे ॥ किञ्च पक्षान्तरारम्भसाकल्यपूर्वदूषणे । प्राक् पूर्वानन्तराग्रेषु प्रभावातीतयोरपि ॥ दिग्देशकालभेदेषु क्रमप्राप्तावपि स्मृतम् । तिर्यक् तिरोऽर्थे वक्रार्थे विरुद्धार्थेऽपि दृश्यते ॥ ननु च प्रश्नदुष्टोक्तयोः सम्यग्दृढप्रतिज्ञयोः ॥ Śabdaratnāvalī 8.1.18
  • शब्दरत्नावली उपअप चौर्ये च निर्देशे विकृतौ च विपर्यये । विनियोगे वर्जनार्थे हर्षापकृष्टयोरपि ॥ अपि सम्भावनाशङ्काप्रश्नगर्हासमुच्चये । कामचारक्रियायुक्तपदार्थे च निगद्यते ॥ उप दाक्षिण्यसामर्थ्यहीवात्मय … । अधिकार्थे समीपे च दाषाख्याननिदर्शने । आश्चर्यकरणे दाने मारणे व्याप्तिलिप्सयोः ॥ उपमारम्भपूजासु भवेदुद्योग इत्यपि । Śabdaratnāvalī 8.1.44
  • शब्दरत्नाकर क्रियाशिक्षायां निष्कृतौ चेष्टाचिकित्सोपाययुक्तिषु । आरम्भे कोटिरश्र्यग्रप्रकर्षावधिसीमसु ॥ १९०५ ॥ Śabdaratnākara 4.1.1905
  • शब्दरत्नाकर परिवारपरिवारः परिजने शस्त्रकोशे परिच्छदे । विगाढगात्रिकाबन्धे समूहारम्भयोरपि ॥ २२१८ ॥ Śabdaratnākara 4.1.2218
  • शब्दरत्नाकर अथोमङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ । अयि सानुनये प्रश्ने स्यादध्यधिक ईश्वरे ॥ २२६१ ॥ Śabdaratnākara 5.2.2261
  • त्रिकाण्डशेष अवष्टम्भस्वर्णारम्भाववष्टम्भौ वाणी छन्दोऽप्यनुष्टुभौ ॥ २८३ ॥ Trikāṇḍaśeṣa 3.3.283
  • त्रिकाण्डशेष आत्मभूआरम्भे उद्यमे दर्पे कामे ब्रह्मणि चाऽत्मभूः । ऋषभौ श्रेष्ठवृषभौ करभोऽधःकरोष्ट्रयोः ॥ २८४ ॥ Trikāṇḍaśeṣa 3.3.284
  • त्रिकाण्डशेष परिकरवलीकवनयोर्नीघ्रं पूरः खाद्ये पयश्चये । यत्नारम्भौ परिकरौ खड्गफलेऽपि पुष्करम् ॥ ३६२ ॥ Trikāṇḍaśeṣa 3.3.362
  • वैजयन्ती क्रियाक्रिया तु निष्कृतौ शिक्षाचिकित्सोपायकर्मसु । करणारंभपूजासु चेष्टायां संप्रधारणे ॥ ९ ॥ Vaijayantī 6.2.9
  • वैजयन्ती उपक्रमउपक्रमश्चिकित्सायामुपधारंभयोरपि । उपग्रहस्तु बन्दौ स्याद्ग्रहणेऽप्यनुकूलने ॥ १८ ॥ Vaijayantī 8.1.18
  • वैजयन्ती परिकरविवेके स्यात् परिकरः पर्यस्तिपरिवारयोः । प्रगाढगात्रिकाबन्धे समूहारंभयोरपि ॥ ३३ ॥ Vaijayantī 8.1.33
  • वैजयन्ती अथअपि संभावनाप्रश्नगर्हाशङ्कासमुच्चये । अथाथोऽनन्तराप्यर्थविकल्पारंभमंगले ॥ १४ ॥ Vaijayantī 8.7.14