कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्लवंगम

plavaṃgamaपुं · masc.

In 7 kośas: 8 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1292 · p. 49
पृथौ गृण्डिबलोपाकौ कोकस्त्वीहामृगो वृकः ।अरण्यश्वा मर्कटस्तु कपिः कीशः प्लवंगमः ॥ १२९१ ॥प्लवंगः प्लवगः शाखामृगो हरिर्बलीमुखः ।वनौका वानरोऽथासौ गोलाङ्गूलोऽसिताननः ॥ १२९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.192 · p. 51
मण्डूके हरिशालूरप्लवभेकप्लवंगमाः ।वर्षाभूः प्लवगः शालुरजिह्वव्यङ्गदर्दुराः ॥ १३५४ ॥स्थले नरादयो ये तु ते जले जलपूर्वकाः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.45 · p. 322
प्लवप्लवंगप्लवगप्लवंगमनगाटनाः ।स्याद्वृक्षशाखापर्णानां पर्यायेभ्यो मृगार्थकः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.120 · p. 357
वर्षानन्दो गाढवर्चाः शालूरः कोक इत्यपि ।प्लवंगमश्च शालूरः सालुश्चापि प्रवंगमः ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.2 · p. 110
वर्षाभूः पुंसि मण्डूको हरिर्भेकः प्लवंगमः ।प्लव-शालूर-सालूराजिह्व-प्लवग-दर्दुराः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.10 · p. 189
प्लवंगमः पूर्वगामी दुर्मुखश्च वलीमुखः ।शाखामृगो ग्राममृगोऽस्थिभञ्जो मण्डलो हरिः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.249 · p. 83
प्लवंगमहरी शालूरो व्यङ्गः कुत्रचित्स्मृतः ।इत्यादयोऽपरे भेदा ज्ञेया ग्रन्थान्तरे स्वयम् ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.696 · p. 89
प्लवंगमो दधिमुखः शाखामृगवलीमुखौ ।गोलाङ्गूलः कृष्णमुखो दीर्घपुच्छो वलीमुखः ॥ ६९६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास मार्धश्लोकः Dharaṇikośa 24.2.21 · p. 144
प्लवंगमः स्मृतो भेके वानरे च प्लवंगमः ।महापद्मो निधौ दृष्टः संख्यानागविशेषयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.92 · p. 285
भेके मर्कटके प्लवंगम इति प्रोक्तो विपश्चिद्गणैः ॥ ९२ ॥
शार्दूलविक्रीडितम्metre not read in every line
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2216 · p. 268
रक्षःसतोः पुण्यजनः पामराज्ञौ पृथज्जनौ ।नटे काशे पोटगलः कपौ भेके प्लवंगमः ॥ २२१६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 8.1.32 · p. 267
प्लवंगमः कपौ भेके प्लवंगप्लवगाविव ।मौक्तिकेऽस्त्रे पारशवो विप्राच्छूद्रासुतेऽयसि ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)