व्यङ्ग
vyaṅgaपुं · masc.In 8 kośas: 7 synonym verses, 4 as a nānārtha head word, 2 as a meaning of another word.
व्यङ्गः प्लवः शिली भेकी वर्षाभ्वी च डुलिर्डुली ।हरिनेत्रः कुलीरः स्यात् कलीरः कर्ककर्कटौ ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
प्लवंगमहरी शालूरो व्यङ्गः कुत्रचित्स्मृतः ।इत्यादयोऽपरे भेदा ज्ञेया ग्रन्थान्तरे स्वयम् ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
मण्डूको दर्दुरो भेकः प्लवगश्च प्लवङ्गमः ।प्लवो व्यङ्गस्तथाऽजिह्वो वर्षाभूश्च हरिः पुनः ॥ २४५८ ॥
अनुष्टुप्
genderपुंmasc.
शम्बुक्कः शाम्बुकः शम्बू शाम्बूक्कोऽपि कीर्तितः ।भेकः प्लवङ्गमो व्यङ्गः प्लवगो दर्दुरः प्लवः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
मेट्रो लाङ्गुर्ध्वजो रागलता व्यङ्गोऽपि लिङ्गवत् ॥
genderक्लीneut.
व्यङ्गस्तु नन्दको भेको गूढवर्चाः क्षतालयः ।कोकोजिह्वोऽथ पञ्चाङ्गगुप्ते क्रोडांघ्रिकच्छपौ ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
श्वित्रं श्वेतेऽत्र चक्रं तु दद्रुः स्त्री मुखजः पुनः ।पुंहलोऽपि वरण्डोऽपि व्यंगो नीलं पृषन्मुखे ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
गाङ्गो भीष्मे च गङ्गोत्थे शार्ङ्गं हरिधनुर्धनुः ।व्यङ्गो भेके विनष्टाङ्गे भृगुः [14] स्याच्च तटे मुनौ ॥
अनुष्टुप्
ना तु नीलपृषद्रूपवक्त्रव्याधौ नृभूम्नि तु ।वङ्गाः स्युर्देशभेदे तद्राजे वाङ्गः पुमानथ ॥ ११८१ ॥
अनुष्टुप्
meaningsवक्त्रव्याधि
doubtful
व्यङ्ग as a meaning in nānārtha verses
- धरणिकोश अनङ्गनिषङ्गौ सङ्गतूणीरावनङ्गो व्यङ्गमन्मथौ । प्रयागौ तीर्थयज्ञौ तु जिह्मगौ सर्पमन्दगौ ॥ Dharaṇikośa 3.1.5
- नानार्थार्णवसंक्षेप निसृष्टाव्यङ्गे पुमांस्तु निषधो दक्षिणे कुलपर्वते । मेरोर्नीवृत्प्रभेदे च तस्य राजनि च त्रि तु ॥ १०२१ ॥ Nānārthārṇavasaṃkṣepa 4.1021