कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मण्डली

maṇḍalīस्त्री · fem.

In 7 kośas: 8 synonym verses, 3 as a nānārtha head word.

मण्डली मण्डलं च स्यात् जगती जगदुच्यते ।पिष्टपं विष्टपं तुल्ये त्रविष्टप(त्रिपिष्टप?)त्रिविष्टपे ॥ ७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्ट (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.25 · p. 161
तन्त्रिकामृतवल्ली च विशल्या मधुपर्ण्यपि ।छिन्नोद्भवा वरा च स्यात्कुण्डली मण्डली तथा ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.18 · p. 185
गोलोमी च नमस्कार्या श[61b]तवीर्या च दुर्मरा ।विरजा मण्डली रुद्धशाद्वलं शल्यमस्त्रियाम् ॥ १८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.464 · p. 85
स्याद्गौडशर्करायां तु मत्स्यन्दी(ण्डी?) मन्दती(ण्डली?)ति च ।किंचित्पङ्काकृते तस्मिन्फाणितं परिकीर्तितम् ॥ ४६४ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.14 · p. 178
लाञ्छने लक्ष्मणं लक्ष्म, लक्षणं चन्दिरातपे ।चन्द्रिका चन्द्रिमाऽपि स्यात्, मण्डले मण्डली मता ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.829 · p. 105
अनीकमस्त्री पटली मण्डली संहतिस्ततिः ।सधर्मिणां समाजः स्यात् पशूनां समजो गणः ॥ ८२९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण त्रिलिङ्गप्रकरणम् Śabdaratnākara 7.4.2328 · p. 284
विभीतकी वटी शाटी कवाटी मण्डली तटी ।भल्लातक्यामलक्यौ च स्फुलिङ्गः शलली त्रिषु ॥ २३२८ ॥
अनुष्टुप्
genderविadj.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.23 · p. 285
मण्डलं शलभं भल्लातकं कलक्षकदलौ ।मृणालामलकौ दाडिमश्च ङ्यन्ताः स्त्रियामिमे ॥ २३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1323 · p. 163
रोचनाशम्यधःपुष्पीमसीशुक्लवचास्वपि ।इत्येवमथ विज्ञेया शब्दज्ञैर्मण्डली त्रयी ॥ १३२३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1386 · p. 168
मण्डली तु द्वयोः सर्पजातिभेदेषु केषुचित् ।षड्विंशतौ मण्डलवदर्थे तु त्रिष्वथ स्त्रियाम् ॥ १३८६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1387 · p. 168
आवलौ मालिकाप्याढ्यजनानां मन्दिरान्तरे ।सप्तलासंज्ञके पुष्पवल्लिभेदेऽप्यसौ स्मृता ॥ १३८७ ॥
अनुष्टुप्
doubtful