समज
samajaपुं · masc.In 12 kośas: 13 synonym verses, 1 as a nānārtha head word.
genderपुंmasc.
पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् ।स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
पशूनां समजोन्येषां समाजः स्यात्सधर्मिणाम् ।ये विश्वस्ताः पक्षिमृगास्ते छेका गृह्यकास्त्रिषु ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
अरण्यमस्त्री विपिनं कान्तारं समजं त्रसम् ।गहनं गुहिनं वार्क्षं सत्रं षण्डं च काननम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
कुलं सजातिभिर्यूथं तिरश्चां पुंनपुंसकम् ।समजस्तु पशूनां स्यात्समाजस्त्वन्यदेहिनाम् ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
ओघः समुदयः सङ्घः सङ्घातः समितिस्ततिः ।निचयः प्रकरः पङ्क्तिः पशूनां समजो व्रजः ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
पशूनां समजः संघः समाजो देहिनां स तु ।शुकानां शौकमित्यादिप्रत्ययैः स्यात्तदर्थकैः ॥ ३०७ ॥
अनुष्टुप्
genderपुंmasc.
समूहः पुञ्जितश्चैव सजातीयगणे स्मृतः ।यूथं तिर्यग्जातिवृन्दे समजः पशुसंहतौ ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
ग्रामो विषयशब्दोक्तभूतेन्द्रियगुणाद्गणे ।समजः स्यात् पशूनां वै समाजश्चान्यदेहिनाम् ॥ २५६८ ॥
अनुष्टुप्
genderपुंmasc.
समजः पशुवृन्दे स्यात् समाजोऽन्यसधर्मभिः ।उत्करः पुञ्जराशी तु कूटोऽस्त्री पुञ्जकेष्वपि ॥
अनुष्टुप्
genderपुंmasc.
अनीकमस्त्री पटली मण्डली संहतिस्ततिः ।सधर्मिणां समाजः स्यात् पशूनां समजो गणः ॥ ८२९ ॥
अनुष्टुप्
genderपुंmasc.
वार्क्षं वनं तलं तल्कं गुहिलं समजं त्रसम् ।लीलोद्यानं देवनं स्याद्वीथ्याली पङ्क्तिरावली ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
पशूनां समजोऽन्येषां समाजो धीमतां सभा ।उद्भिज्जानां तु षण्डोऽस्त्री स्कन्धोऽश्वनरहस्तिनाम् ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
समजः पशुबृन्दे स्याद् विपिने मूर्खसंहतौ ।सामजः सामसम्भूते भवेन्मत्तमतङ्गजे ॥
अनुष्टुप्