कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अनीक

anīkaक्ली · neut.

In 16 kośas: 25 synonym verses, 7 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.529 · p. 31
वाहिनी पृतना सेना बलं सैन्यमनीकिनी ॥ ७४५ ॥कटकं ध्वजिनी तन्त्रं दण्डोऽनीकं पताकिनी ।वरूथिना चमूश्चक्रं स्कन्धवारोऽस्य तु स्थितिः ॥ ७४६ ॥शिबिरं रचना तु स्याद्व्यूहो दण्डादिको युधि ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.606 · p. 32
प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौर्यौजसीशुष्मं शुष्म च शक्तिरूर्जसहसी युद्धं तु संख्यं कलिः ।संग्रामाहवसंप्रहारसमरा जन्यं युदायोधनंसंस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥ ७९६ ॥द्वन्द्वं समाघातसमाह्वयाभिसंपातसम्मर्दसमित्प्रघाताः ।आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च ॥ ७९७ ॥समुदायः समुदयो राटिः समितिसंगरौ ।अभ्यामर्दः संपरायः समीकं सांपरायिकम् ॥ ७९८ ॥आक्रन्दः संयुगश्चाथ नियुद्धं तद्भुजोद्भवम् ।
शार्दूलविक्रीडितम्
प्राणपुंस्थामन्क्लीतरस्क्लीपराक्रमपुंबलक्लीद्युम्नक्लीशौर्यक्लीओजस्क्लीशुष्मक्लीशुष्मन्क्लीशक्तिस्त्रीऊर्जस्क्लीसहस्क्लीयुद्धक्लीसंख्यक्लीकलिपुंसंग्रामपुंआहवपुंसंप्रहारपुंसमरपुंजन्यक्लीयुध्स्त्रीआयोधनक्लीसंस्फोटपुंकलहपुंमृधक्लीप्रहरणक्लीसंयत्स्त्रीरणपुंविग्रहपुंद्वन्द्वक्लीसमाघातपुंसमाह्वयपुंअभिसंपातपुंसंमर्दपुंसमित्स्त्रीप्रघातपुंआस्कन्दनक्लीआजिस्त्रीप्रधनक्लीअनीकक्लीअभ्यागमपुंप्रविदारणक्लीसमुदायपुंसमुदयपुंराटिस्त्रीसमितिस्त्रीसंगरपुंअभ्यामर्दपुंसंपरायपुंसमीकक्लीसांपरायिकक्लीआक्रन्दपुंसंयुगक्लीनियुद्धक्ली
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.78
ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः ।वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥ ७८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.175
वीरपानं तु यत्पानं वृत्ते भाविनि वारणे ।युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् ।अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः ।अभ्यामर्द समाघात संग्रामाभ्यागमाहवाः ॥ १०५ ॥समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः ।
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.453 · p. 52
सङ्ग्रामः समितिः समिच्च समरं संख्यं समीकं रणं,युद्धं युत्प्रधनं मृधं समुदयः संयत्कलिः संयुगम् ।द्वन्द्वायोधनसम्प्रहारकलहाक्रन्दाहवाभ्यागमाः,संस्फोटप्रविदारणप्रहरणानीकाजयः सङ्गरः ॥ ४५३ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.457 · p. 53
पृतना सेना ध्वजिनी पताकिनी वाहिनी बलं सैन्यम् ।चक्रं चमूर्वरूथिन्यनीकिनी स्यादनीकं च ॥ ४५७ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.249 · p. 116
अस्त्रियां कटकं चक्रमनीकं च चमुस्त्रियाम् ।गलोर्गलः कुटः कोटः कोटो दुर्गश्च पुंस्यमी ॥ २४९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.357 · p. 128
प्रविदारश्च संग्रामो विदारः प्रविदारणम् ।संस्फेटश्चापि संपानोऽनीकः संफेट इत्यपि ॥ ३५७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 263
तन्त्रं सैन्यं च कटकं चक्रं चाविकमस्त्रियाम् ।स्कन्धावारोऽपि दण्डोऽथ व्यूहो विन्यसनं पृतः ॥ ९ ॥
अनुष्टुप्
genderपुंक्लीm. n.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 268
स्त्रीत्वे स्युः समिदाजि-युत्समितयो न स्त्री रणानीकभाक्संख्यं संयुग-संपराय-समराः संयन्न पुंलिङ्गभाक् ॥ ४८ ॥
शार्दूलविक्रीडितम्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.33 · p. 111
genderपुंक्लीm. n.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 86 · p. 43
अक्षौहिणी बलानीकं वाहिनी साधनं चमूः ।ध्वजिनी पृतना सेना सैन्यं दण्डो वरूथिनी ॥ ८६ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.365 · p. 147
ध्वजिनी वाहिनी तन्त्रं चमूर्दण्डो वरूथिनी ।अनीकं चक्रसैन्ये च कटकं पृतना पुनः ॥ ३६५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.395 · p. 151
आहवः संप्रहारोऽपि संस्फोटकलहौ समौ ।अनीकं प्रधानाजी वाक्रन्दः संयुगमित्यपि ॥ ३९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धा (wrong syllable)
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.130 · p. 227
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.343 · p. 68
सांयुगीनो युद्धशौण्डे शालीनस्तद्विरुद्धके ।हस्तिवृन्दे तु बाडा स्यादनीको हयसंहतौ ॥ ३४३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.345 · p. 69
अनीकिनी बलं सन्यमनीकं च वरूथिनी ।अनेकवस्तुरूपेण विन्यस्ते व्यूह इष्यते ॥ ३४५ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.21 · p. 36
परिपन्थी प्रत्यनीको दस्युदुर्हृदरातयः ।अनीकं कटकं सैन्यं चक्रं दण्डो बलं चमूः ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1216 · p. 190
अनीकं कटकं तन्त्रं सेना सैन्यमनीकिनी ॥ १२१६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1327 · p. 209
आयोधनं तथा राटिः समितिश्चापि विग्रहः ।तथाऽऽक्रन्दोऽप्यनीकश्चाऽभ्यामर्दोऽभ्यागमः पुनः ॥ १३२७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.310 · p. 131
वाहना गुल्मिनी सैव वरचक्षुर्वरूथिनी ।अनीकमस्त्रियां सैन्यं बलं चक्रं चतुष्टयम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.379 · p. 135
अस्त्रियस्त्रय एते स्युरनीकः समरो रणः ।नियुद्धं मल्लयुद्धञ्च बाहुयुद्धं समीरितम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.829 · p. 105
अनीकमस्त्री पटली मण्डली संहतिस्ततिः ।सधर्मिणां समाजः स्यात् पशूनां समजो गणः ॥ ८२९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1356 · p. 165
वरूथिनीतपाकिन्यावनीकं पुंनपुंसकम् ।चक्रं सैन्यं बलं सैन्यमुखे गुल्मगुणौ समौ ॥ १३५६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1376 · p. 167
कदनप्रथनक्रन्दनसंख्यसमीकानि संविदाजियुधः ।संयत्समितौ समितिः समररणानीकमस्त्रियां त्रितयम् ॥ १३७६ ॥
गीतिः
genderपुंक्लीm. n.
धरणिकोश Dharaṇikośa · धरणिदास कपादः Dharaṇikośa 1.1.6 · p. 3
आनकः पटहे भेर्यां सायकः शरखड्गयोः ।अनूकं च कुले शीले अनीकं मृधसैन्ययोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.79 · p. 146
धूमेन्द्रवोस्त्वजीवो ना स त्रिषूपहते मतः ।कुण्डीकुलविभेदे तु चुलुकी शिशुमारके ।अभीकः कवौ कामुकः क्रूरवाचीविशेष्यायतोऽनीकमस्त्री रणेऽपि ।अलीकालिके नाकभालानृतेषुस्मृते चाप्रियेऽथ व्यलीकं न योषित् ॥ ७९ ॥
अनुष्टुप्two metres in one verse
meaningsरण
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.49 · p. 51
शिलाजतुन्यश्मजं स्यादश्मजाते पुनस्त्रिषु ।अनीकं तु नृशण्डे स्यात् सेनायां समरेऽपि च ॥ ४९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.50 · p. 51
बाणावयवभेदे चाप्यथानूकं नपुंसकम् ।देहावयवभेदे च शीले चान्वय एव च ॥ ५० ॥
अनुष्टुप्
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2042 · p. 248
अण्डजो ब्रह्मणि व्याले गोधायां सरटे खगे ।अशनिर्वज्रतटितोरनीकोऽस्त्री चमूयुधोः ॥ २०४२ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.3 · p. 92
अन्तिकं निकटे चुल्ल्यां नाटयोक्तौ चाग्रजन्तिका ।अनीकोऽत्री रणे सैन्ये गौर्यां मातरि चाम्बिका ॥ ३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.15 · p. 258
अलसौ पादरुङ्मन्दावण्डीरौ शक्तपूरुषौ ।विद्युत्पव्योरक्ल्यशनिरनीकोऽस्त्री चमूयुधोः ॥ १५ ॥
अनुष्टुप्

अनीक as a meaning in nānārtha verses