गण
gaṇaपुं · masc.In 21 kośas: 34 synonym verses, 12 as a nānārtha head word, 29 as a meaning of another word.
गणा नवास्यर्षिसंघा एकादश गणाधिपाः ।इन्द्रभूतिरग्निभूतिर्वायुभूतिश्च गोतमाः ॥ ३१ ॥व्यक्तः सुधर्मा मण्डितमौर्यपुत्रावकम्पितः ।अचलभ्राता मेतार्यः प्रभासश्च पृथक्कुलाः ॥ ३२ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ति (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable); pāda 3, syllable 5 ता (wrong syllable)
genderपुंmasc.
genderपुंmasc.
संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयःसंदोहः समुदायराशिविसरव्राताः कलापो व्रजः ।कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकंवृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः ॥ १४११ ॥समवायो निकुरम्बं जालं निवहसंचयौ ।जातं तिरश्चां तद्यूथं संघसार्थौ तु देहिनाम् ॥ १४१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
genderपुंmasc.
समूहे निवहव्यूहसंदोहविसरव्रजाः ।स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः ॥ ३९ ॥समुदायः समुदयः समवायश्चयो गणः ।स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ।पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि ॥ ८१ ॥सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ ।
अनुष्टुप्
genderपुंmasc.
पिनाकं स्यादजगवं प्रमथास्तु गणाः स्मृताः ।कपर्दोऽस्य जटाबन्धस्तण्डुः स्यान्नन्दिकेश्वरः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
क्लीबे सेनामुखं गुल्मोऽस्त्रियामपि गणः पुमान् ।वाहिनी पृतना चापि चमूः पुनरनीकिनी ॥ २५१ ॥
अनुष्टुप्
genderपुंmasc.
निचयः प्रचयश्चैव प्रकरश्चाकरः पुनः ।समुदायः समुदयः समवायो गणश्च यः ॥ २०१ ॥
अनुष्टुप्
genderपुंmasc.
अजाद्धनुः स्यादप्येवं पिनाकोऽस्त्री ततोऽप्यथ ।प्रमथाः स्युः पारिषदाः पार्षदाः स्युर्गणाश्च ते ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
genderपुंmasc.
तण्डुर्नन्दीश्वरः केलिकिलः कूष्माण्डको गणः ।मञ्जुवक्त्रो मञ्जुघोषो मञ्जुश्रीर्ज्ञानदर्पणः ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
लिड्गीर्भाषा वाणिगाथे जिह्वा वाणी द्वयोः पुमान् ।घोषः स्वरः स्वनोऽपि स्याद्गणो धेनाऽपि कारिका ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
शूलं तु त्रिशिखं पारिषद्याः स्युः प्रमथा गणाः ।कुष्माण्डकः केलिकिलो नन्दितं… ॥ ७४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
समूहो निवहो व्यूहः संदोहः प्रकरो गणः ।ओघ-व्रज-व्रात-वार-विसर-व्रज-संचयाः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
सेनामुखं गुल्म-गणौ वाहिनी पृतना चमुः ।अनीकिनी दशानीकिन्यक्षौहिण्युच्यते बुधैः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
निघादयःशब्दाः पुंसि भवन्ति । अयं निघः पर्वतः । अयं सङ्घः समूहः । अयमुद्घः प्रशस्तः । अयमुपघ्न आश्रयः पर्वतश्च । अयमोघो नदीवेगः पुरुषारम्भश्च । विघ्नः कर्मनिघातः । घर्मो निदाघः । अर्घः पूजा मूल्यविशेषः । वर्णो हरितपीतादिः ब्राह्मणादिः अकारादीनि चाक्षराणि ।पणगुणगणकणशोणाः किणफणघुणशाणबाणचूर्णाश्च ।नित्यं हि पुंसि पन्था बाष्पोष्माध्वानश्च विज्ञेयाः ॥ २६ ॥
metre not recognised
genderपुंmasc.
पणादयः शब्दाः पुंसि भवन्ति । अयं पणो विंशतिगण्डकः । अयं गुणः सङ्ख्याख्यः शुक्लादिः[दि] पाटलादिश्च । अयं गणः सङ्घातः । अयं कणः परमाणुः । शोणो नदः । किणो निकषः । फणो भुजङ्गः । घुणः कीटविशेषः । शाणः पाषाणविकारः । बाणः शरः असुरः घृष्टिका च । अयं चूर्णः शकलः खण्ड इत्यर्थः । अयं पन्था मार्गः । अयं बाष्पोऽश्रु । अयमूष्मा घर्मः । अयमध्वा मार्गः । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।नपुंसके श्वभ्रतृणरणार्णानि ।वीणातूणाघोणाघृणास्तु नियतं स्त्रियां विद्यात् ॥ २७ ॥
metre not recognised
genderपुंmasc.
ब्राह्मीप्रभृतयः सप्त मातरः प्रमथा गणाः ।सुखंसुणस्तु खट्वाङ्गो अथाष्टैश्वर्यमेव हि ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
कलापः पटलं कूटं स्तोमो व्रातगणावपि ।संहतिः संचयो जातं चयो निवहजालके ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
समुदाये समुदयो व्यूहो वाह(र?)श्चयो गणः ।समवायश्च पटलं निकरश्चक्रवालकम् ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
एकाशीतिस्तुरङ्गाणां रथेभाः सप्तविंशतिः ।गणः प्रोक्तो भटानां तु शतं त्रिंशच्च पञ्च च ॥ ३४९ ॥
अनुष्टुप्
genderपुंmasc.
प्रमथाद्याः पारिषदाः नन्दिभृङ्ग्यादयो गणाः ।ब्राह्मी माहेश्वरी काली कौमारी शक्रवल्लभा ॥ ३९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
genderपुंmasc.
मभजासानयरता गणा अष्ट लघुर्गुरु ।एकं द्विचतुःषट्स्वरैर्द्रुतो लघुर्गुरुः प्लुतः ॥ ११२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
ओघः संघो व्रजो व्रातो निकरः प्रकरश्चयः ।संदोहः संहतिः स्तोमो वारः समुदयो गणः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
प्रमथाः पार्षदास्तस्य पारिषदाः गणाः स्मृताः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
genderपुंmasc.
आकर उत्करः कूटं कलापश्च कदम्बकम् ।निकरो निकुरम्बञ्च प्रकरः पेटकं गणः ॥ २५६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderपुंmasc.
महेशस्य पारिषदाः प्रमथाः पशवो गणाः ।मातरस्त्वस्य कथिताः शब्दशास्त्रानुसारतः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्य (wrong syllable)
genderपुंmasc.
क्लीबे तु वृन्द-पटल-मण्डलानि कदम्बकम् ।गणः समुदयो जालं जातञ्च निकुरम्बकम् ।समवायः संहतिः स्त्री विज्ञेयाः पञ्चविंशति ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सेनामुखे त्रिगुणिते गुल्मस्तत् त्रिगुणे गणः ।गणस्त्रिभिर्वाहिनी स्यात् पृतना वाहिनी त्रयम् ॥
अनुष्टुप्
genderपुंmasc.
चोराख्यगन्धद्रव्ये तु गणवद्गणहासकः ।शुषिरायां नटी-नल्यौ ग्रन्थिपर्णेंऽशुकं मतम् ॥ २२७ ॥
अनुष्टुप्
genderपुंmasc.
निकरव्यूहसमूहव्रातनिकायौघविसरसंदोहाः ।झाटचयवारसंचयनिचयगणप्रकरपेटकप्रचयाः ॥ ८२७ ॥
गीतिः
genderपुंmasc.
अनीकमस्त्री पटली मण्डली संहतिस्ततिः ।सधर्मिणां समाजः स्यात् पशूनां समजो गणः ॥ ८२९ ॥
अनुष्टुप्
genderपुंmasc.
गणास्तु प्रमथाः पारिषदाः कूष्माण्डकादयः ॥ ७ ॥
genderपुंmasc.
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।अनीकिनीत्यनीकिन्यः पुनरक्षौहिणी दश ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
पूगप्रकरसंघातविसरव्रातसंचयाः ।वारस्कन्धगणस्तोमसमवायचयव्रजाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
गणः स्यात्प्रमथे संघे संख्यासैन्यप्रभेदयोः ।क्षणो व्यापारशून्यत्वे मुहूर्तोत्सवपर्वसु ।कणोऽतिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके कणा ॥
अनुष्टुप्
धान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवेकृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे ।कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक-श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु ।व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो-ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः ।ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौमूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः ।संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणोघ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् ।काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौबाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥
शार्दूलविक्रीडितम्metre not read in every line
घ्राणस्य विषये लेशे तथा सम्ब(न्धि?न्ध)मात्रके ।गणो बहुत्वसङ्ख्यायां गणने प्रमथे व्रजे ॥ ४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ऋषिभेदे सैन्यभेदे गुल्माख्यात् त्रिगुणे ध्वनौ ।अजयस्य त्विदं ग्रन्थे दृश्यते प्रमथे चले ॥ ४२ ॥
अनुष्टुप्
doubtful
जलमुस्तेऽटवेर्बिन्दोः सिध्मादौ देहवैकृते ।गणस्याब्धेश्च सङ्ख्यायां शिरसः शिखरे तरोः ॥ ५ ॥
अनुष्टुप्
meaningsसंख्या
गर्भः कुक्षौ बले संधौ ग्रामः संवसथे स्वरे ।गणः सैन्यान्तरे पूगे संख्यायां प्रथमे तथा ॥ १५८ ॥
अनुष्टुप्
गणस्याब्धेश्च संख्यायां बर्हिष्ठे मुस्तकेऽप्यपाम् ।मकरांबुजकूर्माणां निधिभेदेषु ते नरः ॥ १३ ॥
अनुष्टुप्
meaningsसंख्या
गण as a meaning in nānārtha verses
- धरणिकोश समुदायअवश्यायो हिमे गर्वे रौहिणेयो बुधे बले । वृषाकपायी श्रीगौर्योः समुदायो रणे गणे ॥ Dharaṇikośa 25.1.14
- धरणिकोश अग्रअग्रं पलानां परिमाणमुक्तं प्रान्तेऽवलम्बेऽप्यधिकेऽपि चाग्रम् । अग्रं पुनः पर्वणि चाग्रमाहुः पूर्वे प्रधाने प्रथमे गणे च ॥ Dharaṇikośa 26.3.12
- धरणिकोश शलकलिरन्त्ययुगे युद्धे कलिः कलहशूरयोः । शलं स्याच्छल्लकीलोम्नि [90] ब्रह्मभृङ्गगणाः शलाः ॥ Dharaṇikośa 27.2.4
- कोषकल्पतरु पिण्डदण्डोऽस्त्री लगुडे बले मथि दमे मानेऽभिमाने यमे चण्डांशोश्च गणे घटीग्रहभिदाकोणे प्रकाण्डे हये । गोण्डः पामरजातिगो नरि महानाभौ भवेद्भेद्यवत् द्वन्द्वे स्यात्कवले गणे च वपुषि त्वस्त्री गृहाङ्गे बले ॥ ७६ ॥ Koṣakalpataru 6.12.76
- कोषकल्पतरु जाततातोऽनुकम्प्ये जनकेऽपि जातं जातौ गणे च त्रिषु तु प्रजाते । त्राते तु पातः पतनेऽथ रातो लातश्च दत्तेऽप्युररीकृते च ॥ १२ ॥ Koṣakalpataru 6.16.12
- कोषकल्पतरु चितिवातिः पुमान्भास्करचन्द्रयोः स्या- द्गतिस्तु यात्राध्वदशाभ्युपाये । नाडीव्रणे स्याच्छरणे च बुद्धौ मतिस्तु वाञ्छास्मृतिबुद्धिषु स्त्री । चि[289b]तिस्तु चित्यागणयोर्दितिस्तु स्याद्दैत्यमातर्यपि( ख )ण्डने च । मूले गतौ चापि पतिः प्रभौ स्वा- श्रये करोद्वोढरि पुंसि दिष्टः ॥ ४८ ॥ Koṣakalpataru 6.16.48
- कोषकल्पतरु विवर्तसंवर्त उक्तो नरि तु त्रिगर्तो देशान्तरे स्याद्गणितान्तरे च । कम्राङ्गनाघुर्घुरिकासु तु स्त्री गणेऽपवृत्तौ[292a]नटने विवर्तः ॥ ७६ ॥ Koṣakalpataru 6.16.76
- कोषकल्पतरु यूथआस्थावलम्बस्थितियत्नवाञ्छा- सूक्ता च संस्था स्थितिनाशतौल्ये । व्यक्तौ च यूथं तु गणे तिरश्चां बृंहेऽस्त्रियां स्त्री कुसुमप्रभेदे ॥ ९९ ॥ Koṣakalpataru 6.18.99
- कोषकल्पतरु वलयवलयः करकङ्कणे गणे गदितोऽस्त्री नरि कण्ठरुग्भिदि । मलयस्तु वने च कृत्रिमे गिरिभेदेऽपि धरांशदेशयोः ॥ ५८ ॥ Koṣakalpataru 6.26.58
- कोषकल्पतरु प्रकरविशेष्यवत्स्याच्छबलेऽथ कीर्ण- पुष्पादिषु स्यात्प्रकरो गणेऽपि । स्याच्चत्वरेऽस्त्री किल जोङ्गकेऽन्त्ये ऽथो विस्तरो विस्तरणे पदानाम् ॥ ९८ ॥ Koṣakalpataru 6.27.98
- कोषकल्पतरु कटप्रूविद्याधरे रक्षसि रक्षकेलौ महत्यजे पुंसि गणे कटप्रूः । खर्जूर उक्तो नरि वृक्षभेदे स्याद्वृश्चिके रूप्यकलार्थकोऽन्त्ये ॥ ७० ॥ Koṣakalpataru 6.27.70
- कोषकल्पतरु शात्रवना संश्रवक्लेशनयोर्वचःस्थे त्रये रिपौ शात्रव आदिलिङ्गः । भावे गणे च द्विषतां द्वयोनो- ऽथो माधवः केशवराधमासोः ॥ २३ ॥ Koṣakalpataru 6.29.23
- नानार्थार्णवसंक्षेप वंशवंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले । नासोर्ध्वास्थ्नीक्षुभेदे च वंशवाद्ये तु सा स्त्रियाम् ॥ ११८३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1183
- नानार्थार्णवसंक्षेप षट्कमत्ते च कुक्कुटे च द्वे शौण्डी तु जलदावलौ । पिप्पल्यां च स्त्रियां पट्कः पुनः पण्णां गणे त्रिषु ॥ १४३४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1434
- नानार्थार्णवसंक्षेप मिथुनमधुर्सर्पिर्द्वये राशौ तृतीये स्याद्द्वयोर्गणे । युग्माख्ये तद्वति पुनस्त्रिषु स्यान्मिथुनं पुनः ॥ १४२४ ॥ Nānārthārṇavasaṃkṣepa 4.1424
- नानार्थार्णवसंक्षेप हेरुककुक्ष्यग्नौ हेरुकस्तु स्यान्महाकालाह्वये गणे । बुद्धभेदे च रभस इत्यध्यायः समाप्तवान् ॥ २४९ ॥ Nānārthārṇavasaṃkṣepa 6.249
- परमानन्दीयनाममाला जालमालत्यां छन्दसां भेदे ज्यायान् शस्ते गुरावपि । जालं तु क्षारकानायगणदर्भेषु जालके ॥ १९९ ॥ Paramānandīyanāmamālā 5.13.199
- परमानन्दीयनाममाला निकायवणिङ्मार्गे श्रुतौ मार्गे निकायो गणलक्षयोः । निसर्गस्तु स्वरूपे स्याद्विश्वनिर्माण एव च ॥ २७० ॥ Paramānandīyanāmamālā 5.18.270
- शिवकोष जीवनीयजीवनीया जयाजीवाकाकवीरासु ना गणे । तण्डुलीयः शाकभेदे विडङ्गे धातुमाक्षिके ॥ ३६३ ॥ Śivakoṣa 21.3.363
- शब्दरत्नाकर जालगवाक्षानाययोर्जालं क्षारके कपटे गणे । जरठे देशभेदे च जीनो बुद्धार्हतोर्जिनः प्राणिनि त्रिषु जीवः स्यात् पुंसि जन्तौ बृहस्पतौ ॥ १९२४ ॥ Śabdaratnākara 4.1.1924
- शब्दरत्नाकर भूतभूतं खादौ च जन्तौ च न स्त्रियां गणसत्त्वयोः । भागोंऽशे भागधेये च भानुः किरणभास्करौ ॥ १९७० ॥ Śabdaratnākara 4.1.1970
- शब्दरत्नाकर वंशचिह्नमेहनयोर्लिङ्गं वेषे बुद्ध्यादिसंगतौ । वंशः पृष्ठास्थ्नि नासोर्ध्वास्थ्नीक्षुभेदे कुले गणे ॥ १९९२ ॥ Śabdaratnākara 4.1.1992
- त्रिकाण्डशेष कुष्माण्डप्राण्यङ्गकोषयोरण्डं कुष्माडौ फलभिद्गणौ ॥ ११० ॥ Trikāṇḍaśeṣa 3.3.110
- त्रिकाण्डशेष कुलकुलं गोत्रे गणे देहे न ना ज्ञाने च केवलम् । कपिला शिंशपाकौन्त्योः कपिलोऽग्नौ मुनौ शुनि ॥ ३८६ ॥ Trikāṇḍaśeṣa 3.3.386
- त्रिकाण्डशेष मण्डूलमौलिः कङ्केलिवृक्षेऽपि मल्लः पात्रे कपालिनि । बलीयसि च मत्स्ये च मण्डूलं परिधौ गणे ॥ ४०६ ॥ Trikāṇḍaśeṣa 3.3.406
- वैजयन्ती वंशभोजने लेपने लेपो लोकः स्याद्विष्टपे जने । वंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले ॥ ५२ ॥ Vaijayantī 6.1.52
- वैजयन्ती जालछन्दः श्रुतीच्छापद्येषु च्छिद्रं रंध्रापराधयोः । जालं गवाक्ष आनाये क्षारके कपटे गणे ॥ ९ ॥ Vaijayantī 6.3.9
- वैजयन्ती संस्त्यायसविता सारथौ रुद्रे पितर्यर्के सुजातिभिः । सन्निवेशे गणे गेहे संस्त्यायः संग्रहाः पुनः ॥ ७८ ॥ Vaijayantī 7.1.78
- वैजयन्ती पटलकेशादिशौक्ल्ये पलितं शैलेये ना तु कर्दमे । पटलं दृग्रुक्छदिषोः क्ली न ना पिटके गणे ॥ ५२ ॥ Vaijayantī 7.5.52