चर्मन्
carmanक्ली · neut.In 21 kośas: 32 synonym verses, 6 as a nānārtha head word, 24 as a meaning of another word.
त्वक्छविश्छादनी कृत्तिश्चर्माजिनमसृग्धरा ॥ ६३० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अड्डनं फलकं चर्म खेटकावरणस्फुराः ॥ ७८३ ॥
अनुष्टुप्
genderक्लीneut.
अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम् ॥ ४६ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
खेटकं फलकं चर्म प्रोक्तमावरणं बुधैः ।वर्मितः स्यात्कवचितः सन्नद्धो दंशितस्तथा ॥ ४६० ॥
अनुष्टुप्
genderक्लीneut.
कबन्धः कथ्यते रुण्डः क्षतमीर्ममरुर्व्रणः ।असृग्धराजिनं चर्म कृत्तिस्त्वक् परिकीर्तिता ॥ ६३० ॥
अनुष्टुप्
genderक्लीneut.
क्लीबेऽजिनं देहवर्म चर्म पुंसि महापटः ।रक्ताधारोऽप्यथमलः किट्टेऽस्त्र्यथ तनूरुहम् ॥ २४० ॥
अनुष्टुप्
genderक्लीneut.
फलकोऽस्त्री फलं फाण्टं खेटं क्लीबे स्फुटं पुनः ।अद्भुतावरणे चर्मदके संग्राहकोस्य तु ॥ ३११ ॥
अनुष्टुप्
genderक्लीneut.
बलं वीर्या न ना वध्रं त्वक्त्वचासृग्धरा शिपिः ।;l(5270}कृत्तिश्छविश्छादनी च त्वचो ना चर्म चाजिनम् ॥ ४६ ॥
अनुष्टुप्Latin letters: l
genderक्लीneut.
वृसी च कृत्तिस्त्वजिनं चर्म च व्रतिवाससि ॥ ९७ ॥
genderक्लीneut.
फलकोऽ *[ स्त्री ]फलं चर्मावरणं खेटकाडुने ।फरकोऽस्त्री स्फुरोऽथ स्यात्संग्राहो मुष्टिरस्य यः ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderक्लीneut.
प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ।कृष्णाजिनं कर्णिकः स्यात्कृत्तिः स्त्री चर्म चाजिनम् ॥ ११७ ॥
अनुष्टुप्
genderक्लीneut.
पुंस्त्वं मज्जसमुद्भूतमिन्द्रियानन्दसंभवे ।तनूरुहं लोम रोम चर्म कृत्तिस्तथाजिनम् ॥ २८४ ॥
अनुष्टुप्
genderक्लीneut.
प्रत्याकारपरीवारौ कोशः स्यादसिसंवृतौ ।खोटकः फलकं चर्माड्डनं चावरणं तथा ॥ ३८८ ॥
अनुष्टुप्
genderक्लीneut.
फलं च फलकश्चर्म संगृही संग्रहोऽपि च ।गृहश्च संगृहश्चापि चर्ममुष्टौ प्रकीर्तितौ ॥ ३६५ ॥
अनुष्टुप्
genderक्लीneut.
तरवारिस्तीव्रमार्गः कृपाणः कोषमन्दिरः ।प्रासः कुन्तो लोहविद्युत् फलकं चर्म चार्मिकम् ॥ २२७ ॥
अनुष्टुप्
genderक्लीneut.
अजिनं चर्म कृत्तिस्त्वक्चीरं वल्कं च वल्कलम् ।वितर्दिर्वेदिका वेदी गुहा स्यात्कन्दरा दरी ॥ ६ ॥
अनुष्टुप्
genderक्लीneut.
खेटकः पलकं चर्म शस्त्रिका तु कृपाणिका ।असिधेनुरसिपुत्री छुरिका क्षुरिका च सा ॥ ३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable)
genderक्लीneut.
असृग्धराऽजिनं चर्म त्वक् कृत्तिः छादनी छविः ।अजिनं चर्म कृत्तिस्तु नामानि मृगचर्मणः ॥ १०१७ ॥
अनुष्टुप्
genderक्लीneut.
आवरणं खेटकं खेटः फलकं मड्डनं स्फुरः ।स्फुरकः फरकं चर्म नामानि फलकस्य वै ॥ १२८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
हीरकं मौक्तिकं स्वर्णं रजतं चर्म चन्दनम् ।शङ्खो वस्त्रं च नामानि विशेषरत्नकानि वै ॥ १८४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
genderक्लीneut.
खटः खेटोऽपि तत्रैव बलहा वेगनाशनः ।त्वक् त्वचा च त्वचं चर्म छलीच्छलिरसृग्धरा ॥
अनुष्टुप्
genderक्लीneut.
अजिनं चर्म कृत्तिः स्त्री व्रतचर्म निगद्यते ।भैक्ष्यं भिक्षासमूहे स्याद् भैक्षमित्यपि कुत्रचित् ॥
अनुष्टुप्
genderक्लीneut.
उड्डनञ्चद्रुफलाकचर्मास्त्री फलकं फलम् ।तथा फलकमुष्टौ तु संग्राहोऽपि च संग्रहः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
genderपुंक्लीm. n.
बल-बल्ये च वीर्ये द्वे लोम रोम तनूरुहे ।तनुरुहं, चर्म चर्मं त्वक् त्वचं चोचमित्यपि ॥ १९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
genderक्लीneut.
त्वक् स्त्रिायमजिनं चर्म माता तु जननी प्रसूः ।जनयित्री सवित्री च तातो जनयिता पिता ॥ ११२२ ॥
अनुष्टुप्metre not read in every lineimpossible sign sequence: ्वक् स्त्रिायमजिनंnearly अनुष्टुप्
genderक्लीneut.
फलकोऽस्त्री फलं चर्म खेटकः क्षुद्रचर्मणि ।मुष्टौ मण्डुकसंग्राहौ क्रकचः करपत्रकम् ॥ १३५० ॥
अनुष्टुप्
genderक्लीneut.
हीरकं मौक्तिकं स्वर्णं रजतं चन्दनानि च ।शङ्खश्च चर्म च वस्त्रं चेत्यष्टौ रत्नस्य जातयः ॥ १७३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
पाशाङ्कुशवराभीतिखड्गचर्मधनुःशराः ।मौषली मुद्रिका दौर्गी मुद्राः शक्तेः प्रियङ्कराः ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलंबितम् ।कृष्णाजिनं कर्णिकं स्यात् कृत्तिः स्त्री चर्म चाजिनम् ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
धौते निशातन्निशितं क्ष्णुतं तेजितमर्थवत् ।फलं चर्ममयं चर्म फलकं खेटकं समम् ॥ १९७ ॥
अनुष्टुप्
genderक्लीneut.
मीनो मत्स्ये राशिभेदे भानू रश्मिदिवाकरौ ।भर्म भृतौ सुवर्णे स्याच्चर्म स्यात्फलकेऽपि च ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 भृ (wrong syllable)
meaningsफलक
गजानां पूर्वजङ्घादिपादयोरथ गोत्रवाक् ।लोके यानेऽप्यथो चर्म फलकाख्यास्त्रवारणे ॥ २१ ॥
अनुष्टुप्
meaningsफलकाख्यास्त्रवारण
त्वचि चिह्नं त्वभिज्ञाने पताकायामथो हृदि ।प्रज्ञायामपि चित्तं स्याच्चोचं तु स्यात् तरुत्वचि ॥ २२ ॥
अनुष्टुप्
meaningsत्वच्
doubtful
ग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च ।गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी ।गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु ।चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥चक्री काककुलालाजग्रामजालिकसूचके ।सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः ।चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् ।छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥छदनं चलने पक्षे पिधानेऽपि नपुंसकम् ।छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥जवनस्तु रये वेगिहये वेगवति त्रिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 सि (wrong syllable); pāda 4, syllable 3 त्यु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
चर्मन् as a meaning in nānārtha verses
- धरणिकोश त्वच्त्वक्त्वचाचोचशब्दाः स्युः वल्के चर्मणि पत्रके । रुग्रुचावपि रश्मिः स्याच्छोभाभिलाषयो रुचा ॥ Dharaṇikośa 5.2.1
- धरणिकोश खेटकोटिरश्रौ प्रकर्षे च संख्याचापाग्रयोरपि । खेटः कफे ग्रामभेदे कुत्सिते चर्मनन्दके ॥ Dharaṇikośa 10.2.5
- धरणिकोश कृत्तिअर्तिः पीडाध[नु]ष्कोटयोर्भ्रान्तिर्मिथ्यामतिर्भ्रमिः । कीर्तिः प्रसादयशसोः कृत्तिश्च चर्म कीर्तिता ॥ Dharaṇikośa 15.1.3
- धरणिकोश वरूथवरूथो रथगुप्तिः स्याद्वरूथं चर्म निर्दिशेत् । अनीकस्थो राजरक्षी गजशिक्षाविचक्षणः ॥ Dharaṇikośa 16.2.9
- कोषकल्पतरु त्वच्प्रतिमायां पूजायामर्चा चर्चा स्थासकसुचर्चिकाचिन्ताः । इच्छाशोभारुचयो रुचिः स्त्रियां चर्मवल्कयोस्त्वक् ॥ ८ ॥ Koṣakalpataru 6.5.8
- कोषकल्पतरु कृत्तियुतिस्तथामिश्रण मिश्रणेषु च्युतिर्वराङ्गे च्यवने तथोक्ता । त्वक्चर्मणोः कृत्तिरिहापि भूर्जे स्यात्कृत्तिकावाच्यथ भित्तिरुक्ता ॥ ५७ ॥ Koṣakalpataru 6.16.57
- कोषकल्पतरु दृतिपत्तिर्गतौ सैन्यविशेषके स्त्री पुमांस्तु शू[290b]रे पदगेऽन्यवत्स्यात् । दृतिर्द्वयोश्चर्मपरे तु मत्स्ये शास्तिस्तु शास्त्रे युजि शासनेऽपि ॥ ५९ ॥ Koṣakalpataru 6.16.59
- कोषकल्पतरु वध्रस्यात्कण्टकार्यामपि मक्षिकायां क्षौद्रं जले स्यान्मधुनि द्वयोनम् । अज्रोऽन्यवद्गन्तरि नायकेऽथ वध्रो द्वयोश्चार्मणरज्जुवाची ॥ ४८ ॥ Koṣakalpataru 6.27.48
- कोषकल्पतरु खल्लपुष्पान्तरे हस्तपदावमोट- रोगे तु खल्ली नरि चातकेऽसौ । वस्त्रान्तरे चर्मणि निम्नकेऽथा- लुः स्त्री तथालूश्च गलन्तिकायाम् ॥ ७६ ॥ Koṣakalpataru 6.28.76
- नानार्थार्णवसंक्षेप त्वच्क्ष्माशब्दो भुवि नद्यां च गिर्शब्दो वाचि योषिति । ज्या भूमिमौर्व्योस्त्वग्गन्धद्रव्ये चर्मणि वल्कले ॥ ५३ ॥ Nānārthārṇavasaṃkṣepa 1.1.53
- नानार्थार्णवसंक्षेप गोसमाम्नाये समाम्नातः स्तोत्रनामसु स त्रिषु । विकारयोर्लक्षणया दुग्धाभिषवचर्मणोः ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 1.5.7
- नानार्थार्णवसंक्षेप छविपिटके चेति विद्वांसः केचिदाचक्षतेतमाम् । छविश्चर्मणि शोभायां दीप्तौ यज्वद्विजन्मनाम् ॥ ३६ ॥ Nānārthārṇavasaṃkṣepa 2.1.36
- नानार्थार्णवसंक्षेप अजिनअजिनं चर्मणि क्लीबं जिनहीने तु भेद्यवत् । अजपस्त्वसदध्येतर्ययं ना निर्जपे त्रिषु ॥ ९५ ॥ Nānārthārṇavasaṃkṣepa 4.95
- नानार्थार्णवसंक्षेप लोचकरक्तांशुके मांसपिण्डे नीलिन्यां चर्मणि भ्रुवि । अजयस्तु पठत्येनं नीलीरक्तांशुके त्रि तु ॥ १५८१ ॥ Nānārthārṇavasaṃkṣepa 4.1581
- परमानन्दीयनाममाला त्वच्तशब्दस्तस्करे पुच्छे क्रोडे युद्धेऽपि ता श्रियाम् । धरण्यामपि ताशब्दः त्वक्च वल्कलचर्मणोः ॥ २२ ॥ Paramānandīyanāmamālā 1.22
- शब्दरत्नावली त्वच्चञ्चुरेरण्डमृगयोः पुंसि त्रोटौ स्त्रियामपि । त्वक् स्त्रियान्तु वल्कले स्यात् चर्मण्यपि गुडत्वचि ॥ Śabdaratnāvalī 7.6.6
- शब्दरत्नावली खेटखेटोऽस्त्रीचर्मणि ग्रामकफयो घोटके त्रिषु । गृष्टिः सकृत्सूतगव्यां बदरायामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.11.11
- शब्दरत्नावली खड्गारीटखड्गारीटस्तु चर्मणि धाराव्रतादिधारिणोः । नारकीटः स्वदत्ताशाघातके चाश्मकीटके ॥ Śabdaratnāvalī 7.11.58
- शब्दरत्नावली कृत्तिकुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके । कृतं स्यादलमर्थे च विहिते युगभेदके ॥ हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते । स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥ कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् । केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥ गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे । ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥ Śabdaratnāvalī 7.16.9
- शब्दरत्नावली वरूथदमथुर्ना दमे दन्ते निशीथो रात्रितद्भिदोः । निर्ग्रन्थो नग्नके निःस्वे मूर्खेऽपि निःसहायके ॥ प्रमथा स्त्री तु पथ्यायां तुरङ्गे पार्षदे पुमान् । वरूथो रथगुप्तौ ना क्लीबन्तु गेहचर्मणोः ॥ मन्मथः कामदेवे स्यात्कामचिन्ताकपित्थयोः । भवेद्वयस्था सूक्ष्मैलाकाकल्यामलकीषु च ॥ Śabdaratnāvalī 7.17.13
- शब्दरत्नावली खल्लखल्लो गर्ते यन्त्रभेदे चर्मण्यपि च चातके । खल्ली चरणहस्तावमर्दरोगे भवेत्स्त्रियाम् ॥ Śabdaratnāvalī 7.28.10
- त्रिकाण्डशेष त्वच्चर्चिकायां च चर्चा स्यात्वक् स्त्री चर्मगुडत्वचोः । वामने पामरे नीचो नमुचिर्दितिजे स्मरे ॥ ७६ ॥ Trikāṇḍaśeṣa 3.3.76
- वैजयन्ती फलकफलकी चन्दने स्त्री न स्त्री दार्वासनचर्मणोः । फेनिलं बदरे फेनयुक्तेऽथ ब्राह्मणो द्विजे ॥ ६० ॥ Vaijayantī 7.5.60
- वैजयन्ती लोचकश्रेष्ठे भूषापुण्ट्रशृंगपुच्छचिह्नाश्वलिंगिषु । लोचको मांसपिण्डे स्यान्नीलिन्यां चर्मणि भ्रुवि ॥ ७३ ॥ Vaijayantī 7.5.73