कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · समुद्रादिप्रकाण्डः (2/2)

व्यङ्गः प्लवः शिली भेकी वर्षाभ्वी च डुलिर्डुली ।हरिनेत्रः कुलीरः स्यात् कलीरः कर्ककर्कटौ ॥ १२१ ॥
1.14.121 · p. 357
अनुष्टुप्
बहिःकुटीचरस्तिर्यग्यानः स्यादथ घुर्घुरी ।मृत्किरा वारिपर्यायकृमिः स्त्री जलमक्षिका ॥ १२२ ॥
1.14.122 · p. 357
अनुष्टुप्
इत्येते पादिनोऽथ स्युः कोशिनः शुक्तिका स्त्रियाम् ।मुक्तार्थान्मातृपर्याया महाशुक्तिश्च मौक्तिकात् ॥ १२३ ॥
1.14.123 · p. 357
अनुष्टुप्
शुक्त्यर्थाऽपि च मुक्तायाः स्फोटोऽथ कृमिसूरपि ।क्षुद्रशुक्तिश्च पुटिका जलार्थाच्छुक्तिरित्यपि ॥ १२४ ॥
1.14.124 · p. 357
अनुष्टुप्
शम्बुकोऽपि च शम्बूकः शाम्बूकः शम्बुको दरः ।शङ्खोऽर्णवभवः कम्बुरस्त्रियां पावनध्वनिः ॥ १२५ ॥
1.14.125 · p. 357
अनुष्टुप्
अन्तर्वक्त्रो महानादस्त्रिरेखोऽपि च सुस्वरः ।हरिप्रियोऽपि धवलोऽप्यथ स्यात्क्षुल्लकोऽपरः ॥ १२६ ॥
1.14.126 · p. 357
अनुष्टुप्
क्षुद्रशङ्खः शङ्खनकः शम्बूकोऽन्यो जलोद्भवः ।कृमिशङ्खश्च जलजजन्तुः कृमिजलोद्भवः ॥ १२७ ॥
1.14.127 · p. 357
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
महाकपर्दो भल्लूकः कपर्दोऽस्त्री वराटकः ।चराचरचरो वर्यो बालक्रीडनकश्च सः ॥ १२८ ॥
1.14.128 · p. 358
अनुष्टुप्
हिरण्यः श्वेत इति च बहवोऽन्ये चलेचराः ।पुंस्येवान्धुः प्रही कूप उदपानं तु पुंसि वा ॥ १२९ ॥
1.14.129 · p. 358
अनुष्टुप्
कारोत्तरश्च वीनाही प्रहिः स्यादन्धकूपके ।कर्करान्धुर्जलाष्ठावी कूपिका तु जलाम्बिका ॥ १३० ॥
1.14.130 · p. 358
अनुष्टुप्
उद्घाटको घटीयन्त्रं स्यादावर्त्तोऽरघट्टकः ।अस्त्री निपानमाहाव उपकूपजलाशये ॥ १३१ ॥
1.14.131 · p. 358
अनुष्टुप्
नेमिर्नेमी त्रिका तन्त्री वीनाहोऽस्त्र्यास्यबन्धने ।नान्दीपुटो नान्दीमुखो गर्त्तः खातोऽपि केवटः ॥ १३२ ॥
1.14.132 · p. 358
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न्दी (wrong syllable)
अवघट्टावटौ तुल्यावथ पुष्करिणीत्यपि ।दीर्घी स्त्री यष्टिका वापी वापिश्चापि स्त्रियामुभे ॥ १३३ ॥
1.14.133 · p. 358
अनुष्टुप्
मीनगोध्यपि वेशन्तः स्वल्पे सरसि पल्वलः ।अस्त्र्याखातं देवखातमखातं पुंनपुंसकम् ॥ १३४ ॥
1.14.134 · p. 358
अनुष्टुप्
स्यादस्त्रियां तलं तल्लं तटाकोऽस्त्री तडागवत् ।पद्माकरः पुमान् क्लीबे सरसं च सरः पुनः ॥ १३५ ॥
1.14.135 · p. 358
अनुष्टुप्
कासारस्तत्र महति सरसी स्यात् स्त्रियामियम् ।खेयं तु परिखाधारः खानिका जलधारणम् ॥ १३६ ॥
1.14.136 · p. 358
अनुष्टुप्
स्यादालवालमावालमावापोऽस्त्री द्विजप्रिया ।केदारः स्यात् कर्दमिलः स चोक्तः पांशुमर्दनः ॥ १३७ ॥
1.14.137 · p. 359
अनुष्टुप्
कुशेशयं गन्धसोमं कुड्मलं पुष्करं नलम् ।महोत्पलं तामरसं राजीवं श्रीकरं पुनः ॥ १३८ ॥
1.14.138 · p. 359
अनुष्टुप्
स्यात्सरःसरसीपङ्कपर्यायेभ्यो रुहार्थकम् ।एभ्यो जन्मार्थकं चापि जलार्थादपि जार्थकम् ॥ १३९ ॥
1.14.139 · p. 359
अनुष्टुप्
विसपर्यायपुष्पार्थं कृष्णपर्यायकन्दकम् ।लक्ष्मीपर्यायसद्मार्थं कन्दोट्टं दिनहासि तत् ॥ १४० ॥
1.14.140 · p. 359
अनुष्टुप्
शतात्सहस्रात्पत्रार्थं कमलं कुमुदं तु तत् ।कुमुच्च शारदं पुण्डरीकं कैरवमित्यपि ॥ १४१ ॥
1.14.141 · p. 359
अनुष्टुप्
रक्ते तु स्यात् कुवलयं कुवेलं कुवलं कुवम् ।स्यादुत्पलं कोकनदमरविन्दमथापरम् ॥ १४२ ॥
1.14.142 · p. 359
अनुष्टुप्
इन्दीवरं तु नीलाब्जमिन्दिरावरमित्यपि ।कावारमीषत् श्वेतं तु नलिनं स्यादथ स्त्रियाम् ॥ १४३ ॥
1.14.143 · p. 359
अनुष्टुप्
स्यात्पद्मं किंचिदारक्तमीषन्नीलं तथोत्पलम् ।एषां तु वल्ली नलिनी विसिनी पुटकिन्यपि ॥ १४४ ॥
1.14.144 · p. 359
अनुष्टुप्
नालीकिनी नलिनिनी कमलिन्यपि पद्मिनी ।एषां बीजं तु गालोड्यं पद्मार्थादक्ष इत्यपि ॥ १४५ ॥
1.14.145 · p. 359
अनुष्टुप्
स्त्रियां क्रौञ्चादनी क्रौञ्चा श्यामा पद्मार्थकर्कटी ।नालोऽस्त्रियां स्त्रियां क्लीबे मृणालं तु मृणालिका ॥ १४६ ॥
1.14.146 · p. 360
अनुष्टुप्
षण् बिसं बिसतन्तुर्ना पद्मिन्यर्थाद्रुहं च तत् ।शालूकमेषां कन्दः स्यात् पद्ममूलं कटः पुमान् ॥ १४७ ॥
1.14.147 · p. 360
अनुष्टुप्
जलालूकं सूरणो ना करहाटः शिफा स्त्रियाम् ।अनुष्णमुत्पलं क्लीबे नलपर्यायनामकम् ॥ १४८ ॥
1.14.148 · p. 360
अनुष्टुप्
रात्रिपर्यायपुष्पार्थं शीतलार्थाज्जलार्थकम् ।हिमपर्यायपद्मार्थमथ स्यात् कुम्भिका पुनः ॥ १४९ ॥
1.14.149 · p. 360
अनुष्टुप्
पृश्निका पर्णिका वारिपर्यायेभ्यः परा स्त्रियाम् ।मूलिका पर्णिका चाथास्त्रियां शैवालशेवले ॥ १५० ॥
1.14.150 · p. 360
अनुष्टुप्
शेवालश्चापि शेपालः शीपालः शैवलोऽस्त्रियाम् ।शैवलं शीवलं तुल्यं वारिचामरमित्यपि ॥ १५१ ॥
1.14.151 · p. 360
अनुष्टुप्
नाली नाला नालमपि नालः केसरकेसरौ ।पुंसि क्लीबेऽथ नालीकं नालिकं नलिनं नलम् ॥ १५२ ॥
1.14.152 · p. 360
अनुष्टुप्
विसंडकं तु लविलं शृङ्गाटो वारिकुब्जकः ।अस्त्रियां शण्डषण्डौ द्वावब्जादीनां कदम्बके ॥ १५३ ॥
1.14.153 · p. 360
अनुष्टुप्
शिफा स्त्रियां कन्दमस्त्री शिफाकन्दोऽपि वा स्त्रियाम् ।विसं त्रिषु मृणालो ना कोरकः पुन्नपुंसकः ॥ १५४ ॥
1.14.154 · p. 360
अनुष्टुप्
संवर्त्तिका तु संवर्त्तिः संवर्ती नवपत्र्यपि ।तत्कर्णिकामध्यगतबीजकोशो वराटकः ॥ १५५ ॥
1.14.155 · p. 361
अनुष्टुप्
कल्पद्रौ केशवकृते फलिते नामसत्फलैः ।त्रयोदशः प्रकाण्डोऽयमब्ध्याद्यः सिद्धिमागतः ॥ १५६ ॥
1.14.156 · p. 361
अनुष्टुप्