कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

श

śa

In 3 kośas: 0 synonym verses, 10 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.1 · p. 364
शुभे शमुक्तं शयने तु शः स्या-न्निशाकरे शुः प्रथितो वधेऽपि ।
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 2, syllable 1 स्या (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शान्ताः Śabdaratnāvalī 7.30.1 · p. 288
शः शस्त्र ईश्वरेऽपि स्यान्मङ्गले तु नपुंसकम् ।शान्तौ च शयने शी स्याद्धियांशा शूर्निगद्यते ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात मन्त्राभिधान Tantrābhidhāna 1.27 · p. 3
श-कारश्च महेशानि! वृषघ्नः कथितो बकः ।ष-कारः श्वेत आख्यातो मूर्द्धन्यो वृषसंज्ञकः ॥ २७ ॥
अनुष्टुप्
शः सव्यञ्च कामरूपी कामरूपो महामतिः ।सौख्यनामा कुमारोऽस्थि श्रीकण्ठो वृषकेतनः ॥ १५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ञ्च (wrong syllable)
वृषघ्नः शयनं शान्तः सुभगा विस्फुलिङ्गिनी ।मृत्युदेवो महालक्ष्मीर्महेन्द्रः कुलकौलिनी ॥ १५४ ॥
अनुष्टुप्
बाहुर्हंसो वियत् वक्त्रं हृदनङ्गाङ्कुशः खलः ।वामोरुः पुण्डरीकात्मा कान्तिः कल्याणवाचकः ॥ १५५ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.33 · p. 26
वदन्ति शं बुधाः श्रेयः शश्च शास्ता निगद्यते ।शीः शसं शयनं चाहुर्हिंसा शूश्च निगद्यते ॥ ३३ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.1 · p. 27
अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
metre not recognised
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.46 · p. 45
अस्थि धातुर्वराहश्च लक्ष्मीशः शंकु-कर्णिके ।तथा नयः समिधश्च साम्बकः शा-र्णकः स्मृतः ॥ ४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मि (wrong syllable)
तन्त्राभिधान Tantrābhidhāna · अज्ञात वरदातन्त्रोक्तमन्त्रार्थाभिधान Tantrābhidhāna 11.10 · p. 65
महालक्ष्म्यर्थकः शः स्याद् धनार्थो रेफ उच्यते ।ईस्तुष्ट्यर्थो परो नादो बिन्दुर्दुःखहरार्थकः ॥
अनुष्टुप्