सव्य
savyaवि · adj.In 15 kośas: 13 synonym verses, 7 as a nānārtha head word, 9 as a meaning of another word.
genderविadj.
genderविadj.
वामं सव्यं विदुः प्राज्ञा अपसव्यं च दक्षिणम् ।प्रतिकूलानुकूलार्थे अपष्ठु त्वनपष्ठु च ॥ ७५६ ॥
अनुष्टुप्
genderविadj.
हृत्पृष्ठवंशगे यज्ञोपवीती स्यादतः पुमान् ।सव्यश्चाप्यपसव्यस्तु प्राचीनावीत इत्यपि ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
अपष्ठ्वव्ययमत्राथ सव्यं स्याद्वाममङ्गकम् ।दक्षिणं त्वपसव्यं स्यात्संबाधः पुंसि संकटम् ॥ २१ ॥
अनुष्टुप्
genderविadj.
अपसव्यप्रतीपेऽपि प्रसव्यं तद्विशेषतः ।वपुरङ्गं तथा सव्यमपसव्यं च दक्षिणे ॥ ३४९ ॥
अनुष्टुप्
genderविadj.
सव्यं वामशरीरे स्यादपसव्यं तु दक्षिणे ।सव्ये तु पष्ठु संप्रोक्तमपसव्ये त्वपष्ठु च ॥ ७०३ ॥
अनुष्टुप्
genderविadj.
genderविadj.
पराचीनं प्रतीपञ्च विपरीतञ्च कुत्रचित् ।देहस्य वामे सव्यं स्यादपसव्यन्तु दक्षिणे ॥
अनुष्टुप्
genderविadj.
आधानाग्निरहस्तान आयुः स्यात्पाशुबन्धिकः ।सव्यापसव्यावनलौ मृतके सूतके क्रमात् ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
सव्यं वामं शरीरं स्यादपसव्यं तु दक्षिणम् ।प्रतिलोमं प्रतीकूलं प्रतीपं च विलोमवत् ॥ १६८३ ॥
अनुष्टुप्
genderविadj.
घः संहर्ता दक्षकरः काम(ल)रूपी शिवोत्तमः ।खड्गी सव्यो घोरनामा मेधा गौश्च घ-कारकः ।शिवाख्यो लाङ्गली मूलं दन्तुरो घुर्घुरोऽपि च ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
सव्यस्तु मृतके वह्निरपसव्यस्तु सूतके ।धूमस्तरिर्मेघवाही धूपोऽसौ गंधवासितः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
सङ्ख्यमस्त्री रणे स्त्री तु सङ्ख्या स्याद्गणने तथा ।एकत्वादौ विचारे च सव्यं तु त्रिषु दक्षिणे ॥ १४४६ ॥
अनुष्टुप्
meaningsदक्षिण
सव्य as a meaning in nānārtha verses
- धरणिकोश वामवामं निर्भरसुन्दरद्रविणयोर्वामं प्रतीपार्थकं वामं सव्यमुदाहृतं कविवरैर्वामः स्मृतः शंकरः । वामः कामः पशौ पयोधरवरे वामा स्मृता कामिनी वामी स्याद्वडवा तथोष्ट्रकवधूर्वामी शिवा गर्दभी ॥ Dharaṇikośa 24.3.8
- कोषकल्पतरु वामस्त्री तु क्षा[31a]न्तिभुवोर्गदे गदभिदि स्यादाममस्त्री त्रये- ऽपक्वेऽथ प्रहरे च संयमगतो यामोऽथ वामो हरे । चेतोजे जलदे धने तु चरमे, सव्ये प्रतीपेऽवरे त्रय्यां, योषिति रासभीषु करभीष्वश्वाशृगाल्योः स्त्रियाम् ॥ ६० ॥ Koṣakalpataru 6.25.60
- नानार्थार्णवसंक्षेप वामवामः स्यात् सुन्दरे सव्ये प्रतिकूले स्त्रियां पुनः । महादेवस्य नवसु शक्तिष्वेकत्र योषिति ॥ १२१५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1215
- नानार्थार्णवसंक्षेप प्रसव्यअसम्मते च निष्कामे प्रसव्यं पुनरुच्यते । प्रतिकूलेऽनुकूले च सव्यदक्षिणयोरपि ॥ ३८ ॥ Nānārthārṇavasaṃkṣepa 3.4.38
- शब्दरत्नावली वामवामः स्तने हरे कामे पुंसि क्लीबं धनेऽपि च । चारुप्रतीपसव्येषु नार्यामपि वामा स्त्रियाम् ॥ Śabdaratnāvalī 7.25.21
- शब्दार्णव वामवामस्तु वक्रे रम्ये स्यात् सव्ये वामगतेऽपि च ॥ २१८ ॥ Śabdārṇava 218
- तन्त्राभिधान शशः सव्यञ्च कामरूपी कामरूपो महामतिः । सौख्यनामा कुमारोऽस्थि श्रीकण्ठो वृषकेतनः ॥ १५३ ॥ Tantrābhidhāna 2.47.153
- वैजयन्ती वामलोलं चले लोलुपे च व्यग्रो व्यापृत आकुले । वल्गु मंजौ च वामस्तु सौम्ये सव्यप्रतीपयोः ॥ १६ ॥ Vaijayantī 6.4.16
- वैजयन्ती प्रसव्यप्रहतौ क्षुण्णव्युत्पन्नौ प्रयतौ पूतसंस्कृतौ । सव्यायत्तौ प्रसव्यौ द्वौ प्रवृद्धौ प्रसृतैधितौ ॥ १८ ॥ Vaijayantī 7.4.18