शुभ
śubhaक्ली · neut.In 18 kośas: 29 synonym verses, 10 as a nānārtha head word, 40 as a meaning of another word.
श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः ।क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥ ८६ ॥
गीतिः
genderक्लीneut.
पवित्रं गोमये छागे शुभोऽथ भषकः शुनिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderपुंmasc.
श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् ।शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
genderपुंmasc.
श्वः श्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभम् ।भविकं भावुकं श्रेयो भव्यं भद्रं च मङ्गलम् ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं,श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् ।हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं,सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥
शार्दूलविक्रीडितम्
genderविadj.
शौक्तिकेयं शीतलं स्यादम्भः सारं च नीरजम् ।अपि स्याच्चन्द्ररत्नं च लक्षहैमवतं शुभम् ॥ ५९६ ॥
अनुष्टुप्
genderक्लीneut.
सिद्धः साध्यः शुभः शुक्लो ब्रह्मेन्द्रश्चापि वैधृतिः ।तत्रातिगञ्जो गञ्जोऽपि द्वितीयश्चाष्टमः स्त्रियाम् ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
शातं सातमथो भद्रं भगं मद्रं च भावुकम् ।भविकं मङ्गलं वा ना भव्यं द्रव्यं शिवं शुभम् ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
शुभावद्यहृषीकाणां शुक्लस्य जलपुष्पयोः ।दलांशुकमनोदारुविलपिच्छधनुर्युधाम् ॥ ७४ ॥
अनुष्टुप्
genderक्लीneut.
कल्याणं कुशलं कल्याणं गोजागरिकं भाविकं च शुभम् ।मद्रं भद्रं भन्दभन्दाके श्रेयो निःश्रेयसमपि भव्यम् ॥ ५१ ॥
metre not recognised
genderक्लीneut.
शुभं घुशं च शंयवःसशं भशं तशं तवः ।सशं यशं तयो ह्यमीसुखिन्युदीरितास्त्रिषु ॥ ५६ ॥
पञ्चचामरम्
genderविadj.
गोषड्गवं गवां षट्त्वं तद्वत्स्यादुष्ट्रषड्गवम् ।अजः शुभोऽपि जाबालश्छगलश्छागलश्छगः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
श्वःश्रेयसं शिवं शस्तं शुभं कल्याणनाम च ।शुभावहो विधिर्ना यः प्रधानं प्रकृतिः स्त्रियाम् ॥ २७२ ॥
अनुष्टुप्
genderक्लीneut.
निर्मलं विमलं वी[51]ध्रमुज्ज्वलं विशदं शुभम् ।चोक्षं शुचि विशुद्धं चावदातं चाप्यनाविलम् ॥ ३२५ ॥
अनुष्टुप्
genderविadj.
रत्नाङ्गणनभोगूथशुक्तान्नतमसामपि ।हृषीकशुभपिच्छादिधनदारुमनोहृदाम् ॥ ७२ ॥
अनुष्टुप्
genderक्लीneut.
वसुधः करकः कीनः कीरः कन्दोऽनकः शुभः ।गन्धर्वनगरं देवः संवर्तो रसदोऽभ्रजित् ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
भावुकं कुशलं क्षेमं भव्यं भाव्यं शिवं शुभम् ।शस्तं चाथ जनुर्जन्म जनिर्जनन इष्यते ॥ १४६ ॥
अनुष्टुप्
genderक्लीneut.
रज्जौ शुभं(ल्बं?) शोभनं च शुम्भं वटकरोऽपि च ।वटी वटो वटं चापि गुणो वटकरीति च ॥ ६०१ ॥
अनुष्टुप्
genderक्लीneut.
शान्तं सौख्यं सुखं शर्म शंसा वा शुभवेदनम् ।विधिश्च नियतिर्दिष्टं दैवं भाग्यं शुभं त्वयः ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
कुशलं मङ्गलं भद्रं कल्याणं भावुकं शुभम् ।क्षेमं भव्यं शिवं श्रेयः शस्तं स्वःश्रेयसं स्मृतम् ॥ १४९ ॥
अनुष्टुप्
genderक्लीneut.
श्रेयः श्वःश्रेयसं क्षेमं कुशलं श्वोवसीयसम् ।भावुकं भविकं भव्यं भद्रं मद्रं तथा शुभम् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
अजो बस्तः छगः छागः छगलश्च स्तभः स्तुभः ।तुभः शुभः पशुर्वस्तश्चेति नामानि सन्ति वै ॥ २३०१ ॥
अनुष्टुप्
genderपुंmasc.
मङ्गलं भावुकं भव्यं कल्याणं भविकं शुभम् ।अस्त्री क्षेमं प्रशस्तञ्च भद्रं श्वश्रेयसं शिवम् ॥
अनुष्टुप्
genderक्लीneut.
मध्यतालव्यकं प्रोक्तं, सुभं तालव्य-दन्त्ययुक् ।मङ्गल्यमपि माङ्गल्यं मङ्गलं च तथा स्मृतम् ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.doubtful
भाग्यं दिष्टं भागधेयं दैवं च नियतिर्विधिः ।श्वःश्रेयसं तु कल्याणं श्वोवसीयं शिवं शुभम् ॥ २८१ ॥
अनुष्टुप्
genderक्लीneut.
ज्ञप्तिर्निरञ्जनः सिद्धो झान्तः सर्वेश्वरः शुभः ।दुर्मुखश्चानुनासश्च वामाङ्गुल्यग्रगश्च ञः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
शल्यं तूस्तं च कल्कोऽथ भद्रं भल्लं शिवं तथा ।शं शुभं चाव्यये प्राणी सत्त्वो रूपं चतुष्पदः ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
श्वः श्रेयसं शिवं भद्रं कुशलं सूनृतं शुभम् ।श्रेयश्चैते समीपाद्या धर्मे क्ली तद्वति त्रिषु ॥ १४३ ॥
अनुष्टुप्
genderविadj.
धुर्धूरेऽप्यम्बुजाख्यास्तु निधिभेदे नृलिङ्गकाः ।शुभस्य फेनिलतरौ पर्यायाः स्युर्नृलिङ्गकाः ॥ १३ ॥
अनुष्टुप्
meaningsफेनिलतरु
सृगाल इत्यथ शुभं क्ली जले मङ्गले तथा ।लग्नाच्च नवमे राशौ भेद्यलिङ्गं त्वतः परम् ॥ १३७९ ॥
अनुष्टुप्
मञ्जुप्रशस्तयोश्चापि मङ्गलेन समन्विते ।अर्ध्यायां तु शुभा स्त्री स्याच्छुक्लस्त्वर्कसितत्वयोः ॥ १३८० ॥
अनुष्टुप्
दम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि ।दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ ।द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु ।रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् ।शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् ।सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः ।
अनुष्टुप्
शारीऽनिलाक्षोपकृत्योः शवलेऽपि च वाच्यवत् ।शिग्रुः पुंसि शाकमात्रे तथा शोभाञ्जनद्रुमे ॥शिरा नाड्यां स्त्रियामेव पिप्पलीमूलके पुमान् ।शीघ्रं नलद चक्राङ्ग(?) क्लीबं द्रुते गतौ(?) त्रिषु ॥शुभमम्रे क्लीबलिङ्गमुद्दीप्तशुक्लयोस्त्रिषु ।शुक्रो मासि भृगौ वह्नौ ना क्लीबे रोगरेतयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 सि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 द्रु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 प्त (wrong syllable)
अगरुण्ययसो गुन्द्रे शरस्य मकरे त्वसेः ।शुभस्य फेनिले पुंसि कार्पासे वाससो नरः ॥ १६ ॥
अनुष्टुप्
meanings
शुभ as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अरिष्टरिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे । Amarakośa 3.3.72
- धरणिकोश रिष्टम्लिष्टं म्लानेऽस्पष्टवचे रिष्टं स्यादशुभं शुभम् । दिष्टं दैवे च काले च कष्टं गहनकृच्छ्रयोः ॥ Dharaṇikośa 10.1.3
- धरणिकोश अरिष्टअरिष्टं सूतिकागारे लशुने च शुभेऽशुभे । तक्रेऽपि च तथारिष्टा निम्बफेनिलवायसाः ॥ Dharaṇikośa 10.3.7
- धरणिकोश नन्दिकुन्दो भ्रमणयन्त्रे स्यान्निधिपुष्पप्रभेदयोः । नन्दिरानन्द उद्दिष्टो द्यूते शुभविशेषयोः ॥ Dharaṇikośa 17.2.3
- धरणिकोश क्षेमहि[68]मं चन्दनमाख्यातं हिमं शीततुषारयोः । क्षेमं शुभे च गोरक्षे गन्धे लब्धानुरक्षणे ॥ Dharaṇikośa 24.2.2
- कोषकल्पतरु भन्दतेपर्यभिभ्यां तिरस्कारे परा न्यग्भुव्यपक्षये । निरः परो विद्यतिः स्याद्वैराग्ये भन्दते पुनः ॥ ११ ॥ Koṣakalpataru 3.5.11
- कोषकल्पतरु भन्दयतेभवेद्भन्दयते भन्दयति भन्दति नन्दति । पुनाति स्याद्भण्डयति तथा भण्डयते शुभे ॥ १२ ॥ Koṣakalpataru 3.5.12
- कोषकल्पतरु रिष्टआशंसिते प्रियतमे पूज्ये संकीर्तितः परवत् । रिष्टं क्षेमे च शुभे भाविनि चिह्ने विनाशस्य ॥ ११ ॥ Koṣakalpataru 6.10.11
- कोषकल्पतरु शीतियमे नरि स्यादथ सुप्तिरुक्ता स्पर्शाज्ञतारुक्स्वपनेऽन्यवत्तु । विश्रम्भघातिन्यथ शीतिरुक्ता- रामे शुभेऽथ त्विषि च स्पृहायाम् ॥ ६१ ॥ Koṣakalpataru 6.16.61
- कोषकल्पतरु सुकृतस्याद्वर्मितेऽपि दंशितमथ सुकृतं स्याच्छुभे पुण्ये । परवत्सुविहित उक्तं प्रतारिते निकृतं विकृते ॥ ९२ ॥ Koṣakalpataru 6.16.92
- कोषकल्पतरु भन्दस्थानाङ्घ्रिचिह्नाङ्कगतं पदं स्या- च्छदोऽस्त्रि पत्रे[वि]गरुत्तमाले । स्याद्ग्रन्थिपर्णेऽपि रदस्तु दन्ते विलेखने चाथ शुभेऽपि भन्दम् ॥ २० ॥ Koṣakalpataru 6.19.20
- कोषकल्पतरु नन्दनसंसूचनोत्साहवधप्रकाशे- ऽथो नन्दनं वृत्ररिपोर्वने स्यात् । शुभे तनूजे च पुमान्प्रमोद- कृत्यन्यवच्च स्रवणे तु नीरे ॥ [16a] ५३ ॥ Koṣakalpataru 6.21.75
- कोषकल्पतरु भागधेयस्याद्भागधेयोऽयुजि राजभागे शुभेऽन्तिमे चाथ बिलेशयोऽहौ । आखावुशीरे तु जलाशयं स्या- त्तोयाश्रये पुंसि बुधैः प्रदिष्टः ॥ ८६ ॥ Koṣakalpataru 6.26.86
- कोषकल्पतरु मङ्गलमांसे त्वस्त्री मङ्गलोऽस्त्री शुभे सर्वार्थरक्षणे । स्त्री गौरीसितदूर्वार्थः पुंस्यङ्गारकनामसु ॥ १७ ॥ Koṣakalpataru 6.28.17
- कोषकल्पतरु शिवशम्यामलक्योरभयाशृगाल्यो- र्गौर्यां द्वयोनस्तु शुभे सुखे च । मोक्षे जले चाथ दिवं च नाके जीवः पुमान्प्राणिनि वृक्षभेदे ॥ ९६ ॥ Koṣakalpataru 6.29.96
- कोषकल्पतरु शशुभे शमुक्तं शयने तु शः स्या- न्निशाकरे शुः प्रथितो वधेऽपि । Koṣakalpataru 6.30.1
- नानार्थार्णवसंक्षेप भद्रगजभेदे द्वयोः क्ली तु सामभेदे शुभे सुखे । एतयोस्त्वर्थयोरेकयुक्ते बृहति च त्रिषु ॥ ८८० ॥ Nānārthārṇavasaṃkṣepa 2.5.880
- नानार्थार्णवसंक्षेप भवतेषां द्वितीयतिथिषु भवस्तु प्राप्तिसत्तयोः । शम्भौ जन्मनि संसारे शुभेऽप्याह तु सज्जनः ॥ ८८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.882
- नानार्थार्णवसंक्षेप मद्रसज्जनस्तु शुभे प्राह त्रि तु तद्वति भाषितः । पुंभूम्नि नीवृद्भेदेऽथ मन्द्रो ना सामवर्तिनाम् ॥ ९२७ ॥ Nānārthārṇavasaṃkṣepa 2.5.927
- नानार्थार्णवसंक्षेप रिष्टगतेऽथ वेद एवेदं हिंसने क्ली त्रि हिंसिते । रिष्टं स्वभावे क्ली पापेऽप्यथ त्रिरशुभे शुभे ॥ ११०८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1108
- नानार्थार्णवसंक्षेप अरिष्टअप्यारण्यकयोः साम्नोः 'पवित्र त'ऋगुत्थयोः । अशुभे च शुभे वर्णविकारे सज्जनः पुनः ॥ १७ ॥ Nānārthārṇavasaṃkṣepa 4.17
- परमानन्दीयनाममाला अरिष्टशुभेऽपि सूतिकागारेऽङ्गजः कामे तनूद्भवे । अञ्जनो दिग्गजे भूध्रेऽञ्जनं सौवीरयानयोः ॥ २६ ॥ Paramānandīyanāmamālā 5.1.26
- शब्दरत्नावली गोजागरिकउडुम्बरविडम्बाख्यचित्राङ्गे क्रिमिकण्टकम् । स्यात् कण्ठकारिके पुंसि क्लीबं गोजागरिकं शुभे ॥ Śabdaratnāvalī 7.1.210
- शब्दरत्नावली रिष्टयष्टिर्ना ध्वजदण्डे तु भार्गीमधुकयोर्द्वयोः । तथा हारलताभेदेऽखण्डे शस्त्रविशेषके ॥ रिष्टं शुभेऽशुभे ना तु फेनिलद्रुमखङ्गयोः । रिष्टिः खङ्गे-पुमान् स्त्री स्यादशुभे शस्त्रभिद्यपि ॥ Śabdaratnāvalī 7.11.25
- शब्दरत्नावली अरिष्टअरिष्टः फेनिले कङ्के काके लवणनिम्बयोः । अरिष्टमशुभे तक्रे सत्यसूतीगृहे शुभे ॥ Śabdaratnāvalī 7.11.34
- शब्दरत्नावली सुकृतसुकृतं पुण्यशुभयोः क्लीबं सुविहिते त्रिषु । सुव्रता सुखदोद्यायां गवि सुष्ठुव्रतस्त्रियाम् । सुनीतिः सुष्ठुनीतौ स्याद् ध्रुवमातरि च स्त्रियाम् ॥ Śabdaratnāvalī 7.16.149
- शब्दरत्नावली शकुनश्वसनं स्याद्गन्धवाहे श्वसिते मदनद्रुमे । शकुनः पक्षिमात्रे स्यात्पक्षिभिच्छुमसंशिवोः ॥ Śabdaratnāvalī 7.20.83
- शब्दरत्नावली क्षेमअस्त्रियान्तु शुभे वल्ये क्षेमा गौर्य्यामपि स्त्रियाम् । क्षौमं स्याद्दुकूले चाट्टे पुनपुंसकयोरिह ॥ क्षौमन्तु शणजेऽपि स्यादतसीजे नपुंसकम् । खर्मश्च पौरुषेऽपि स्यात्कोषजांशुक इत्यपि ॥ गमो नाक्षविवर्ते स्यादपर्यालोचिते पथि ॥ Śabdaratnāvalī 7.25.7
- शब्दरत्नावली भव्यभयं घोरे प्रतिभये कुसुमे कुब्जकस्य च । भव्यं त्रिषु भाविनि स्याद् योग्ये च शुभसत्ययोः ॥ Śabdaratnāvalī 7.26.20
- शब्दरत्नावली धवलधवलं सुन्दरे शुभे त्रिषु ना वृषपुङ्गवे । निर्मलं क्लीबमभेऽपि निर्माल्ये विमले त्रिषु ॥ Śabdaratnāvalī 7.28.70
- शब्दरत्नावली निःश्रेयसनिःश्रेयसं शुभे मोक्षे विद्यानुभावभक्तिषु । नीलाञ्जसा विद्युति स्त्री नदीविद्याधरीभिदोः ॥ Śabdaratnāvalī 7.32.47
- शब्दरत्नाकर पुण्यपुण्यं धर्मे शुभे शुद्धे पूर्वः प्राच्यादिकेऽर्थवत् । पूर्वजेषु नृभूम्नोः स्यात् प्रस्थोऽस्त्री सानुमानयोः ॥ १९६२ ॥ Śabdaratnākara 4.1.1962
- शब्दरत्नाकर भद्रद्रव्यमात्ररसोत्पत्तिस्वभावात्मसु चेङ्गिते । गजभेदे वृषे भद्रः शुभे क्लीब उरौ त्रिषु ॥ १९७२ ॥ Śabdaratnākara 4.1.1972
- शब्दरत्नाकर रिष्टरुचिः कन्तिस्पृहार्चिःषु रीतिः स्थित्यारकूटयोः । रेणुर्मुनौ च पांसौ च रिष्टं नाशे शुभाशुभे ॥ १९८८ ॥ Śabdaratnākara 4.1.1988
- त्रिकाण्डशेष कल्याणकरणं पुसि सङ्कीर्णे कल्याणं काञ्चने शुभे । कृष्णो वर्णे हरौ व्यासे कृष्णं मरिचलोहयोः ॥ १२३ ॥ Trikāṇḍaśeṣa 3.3.123
- त्रिकाण्डशेष मङ्गलमेखलाद्रिनितम्बेऽपि ग्रहे ना मङ्गलं शुभे । निकटेऽपि च मूलं स्याद्धुस्तूरेऽपि च मातुलः ॥ ४०५ ॥ Trikāṇḍaśeṣa 3.3.405
- वैजयन्ती रिष्टरहो रहस्ये सुरते रिष्टं नाशे शुभेऽशुभे । रुक्मं हेम सुलोहं च रेतसी शुक्लमंबु च ॥ २७ ॥ Vaijayantī 6.3.27
- वैजयन्ती भव्यबालो मूर्खे शिशौ भव्यो भावी योग्यः शुभोऽपि च । मिश्रेऽपि भिन्नं म्लिष्टं तु म्लानाविस्पष्टवाक्ययोः ॥ ११ ॥ Vaijayantī 6.4.11
- वैजयन्ती अरिष्टअरिष्टो वायसे निंबे गोरसे निरुपद्रवे । क्ली तु वर्ण्ये मृत्युचिह्ने मद्ये ताम्रे शुभेऽशुभे ॥ ९ ॥ Vaijayantī 7.5.9
- वैजयन्ती निश्रेयसनिर्भर्त्सनमलक्तेऽपि मोक्षे निश्रेयसं शुभे । शस्त्रे युद्धे प्रहरणं कार्ये हेतौ प्रयोजनम् ॥ ८ ॥ Vaijayantī 8.3.8