कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शस्त्र

śastraक्ली · neut.

In 22 kośas: 39 synonym verses, 7 as a nānārtha head word, 33 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.773 · p. 32
शीघ्रवेधी लघुहस्तोऽपराद्धेषुस्तु लक्ष्यतः ॥ ७७२ ॥च्युतेषुर्दूरवेधी तु दुरापात्यायुधं पुनः ।हेतिः प्रहरणं शस्त्रमस्त्रं तच्च चतुर्विधम् ॥ ७७३ ॥
metre not recognised
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.158 · p. 40
लोहं कालायसं शस्त्रं पिण्डं पारशवं घनम् ॥ १०३७ ॥गिरिसारं शिलासारं तीक्ष्णकृष्णामिषे अयः ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.62 · p. 6
नाराचो लोहनालोऽस्त्रसायकोऽसिस्तु सायकः ॥ १४२ ॥श्रीगर्भो विजयः शास्ता व्यवहारः प्रजाकरः ।धर्मपालोऽक्षरो देवस्तीक्ष्णकर्मा दुरासदः ॥प्रसङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः ।करपालो विशसनस्तीक्ष्णधारो विषाग्रजः ॥धर्मप्रचारो धाराङ्गो धाराधरकरालिकौ ॥ १४३ ॥चन्द्रभासश्च शस्त्रोऽथ क्षुर्यस्त्री कोशशायिका ।पत्त्रं च धेनुका पत्त्रपाले तु हुलमातृका ॥ १४४ ॥कुट्टन्ती पत्त्रफलाथ शक्तिः कासूर्महाफला ।अष्टतालायता सा च पट्टिसस्तु खुरोपमः ॥ १४५ ॥लोहदण्डस्तीक्ष्णधारो दुःस्फोटाराफलौ समौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.82
आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.171 · p. 21
गिरिसारमश्मसारं लोहं कालायसं तथा शस्त्रम् ।तीक्ष्णमयः पारशवं कवयः कथयन्त्यभिन्नार्थम् ॥ १७१ ॥
आर्या
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.462 · p. 53
हेतिः शस्त्रं प्रहरणमायुधमस्त्रं चतुर्विधं तच्च ।मुक्तामुक्तममुक्तं करमुक्तं यन्त्रमुक्तं च ॥ ४६२ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.258 · p. 117
अस्त्रं शस्त्रं प्रहरणं हेतिर्वा नाथ तत्त्रिधा ।पाणियन्त्रादिना मुक्तं तच्च शक्तिशरादिकम् ॥ २५८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.282 · p. 120
तरवारिर्द्वयोश्चापि निस्त्रिंशः करपालकः ।क्लीबे शस्त्रं विशसनो धर्मपालः प्रजाकरः ॥ २८२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.283 · p. 120
तीक्ष्णधारोधरो देवो व्यवहारो दुरासहः ।प्रसङ्गी रुद्रतनयः शस्त्रो विजय इत्यपि ॥ २८३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.132 · p. 476
स्याद्गात्रापरनासीरमन्दिराणां ततः परम् ।मयूरकादम्बरयोः शस्त्रस्य नगरस्य च ॥ १३२ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.68 · p. 132
लोहोऽस्त्री गिरिसारं स्याच्छिलासारमयो घनम् ।शस्त्रं पिण्डं पारशवं तीक्ष्णं कालायसं तथा ॥ ६८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 264
क्षुद्रकानां मालवानां सेनायां वृन्दसंयुता ।वदन्ति तां कोषविदो बुधाः क्षौद्रकमालवीम् ॥सेनाजघनभागे तु भवेत्प्रतिस[120b]रस्त्रिषु ।नासीरं ना न सेनाग्रं सज्जनं तूपरक्षणम् ॥शस्त्रं ना न प्रहरण-वधत्रास्त्र-धनूंषि च ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.30 · p. 265
श्रीगर्भ-चन्द्रभासौ शस्त्र-कृपाणौ द्वयो रिष्टिः ।वारङ्गः त्सरुरेतन्मुष्टिः स्यान्मेखलाबन्धः ॥ ३० ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.38 · p. 265
शस्त्राण्यथो स्युर्यन्त्राणि नाल्यपि नालिका स्त्रियाम् ॥ ३८ ॥
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.6.83 · p. 117
genderस्त्रीक्लीf. n.
यावानिति समुच्चयो कश्चिद्यस्त्रान्तः शब्दः स नपुंसके बोद्धव्यः । पुत्रमन्त्रश्वित्रशब्दान् वर्जयित्वेत्यर्थः । यथा । सूत्रं शस्त्रं शास्त्रं मित्रं पत्रं पवित्रं च । गात्रं पोत्रं पात्रं दात्रं सत्रं परित्रं चेत्यादि । अयं पुत्रः सुतः । अयं मन्त्रो होमवाच्यो वेदश्च । हि शब्दोऽनुक्तसमुच्चयार्थः ।तेन छत्रछात्रविष्णुमित्रादीनां पुंस्त्वप्राप्तेः सिद्धिः । अयं छत्रो नर्त्तकः आतपवारणवाचकस्य छत्रशब्दस्य नपुंसकतैव । इदं छत्रं वर्षातपवारणम् । अयं छत्रोऽध्येता । अयं विष्णुमित्रः कश्चित्पुरुषः ।यात्रामात्राभस्त्रादंष्ट्रा विद्यात् स्त्रियां वरत्रा च ।इदूदन्तं यच्चैकाच् शरद्दरद्दृषत्प्रावृषश्चैव ॥ १२ ॥
metre not recognised
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.196 · p. 33
शस्त्रे स्यान्न क्लिको हेतीर्ऋष्टिः खङ्गे प्रचारकः ।चन्द्रहासोऽर्धचन्द्राग्रेऽप्युली तु करवालिका ॥ १९६ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.243 · p. 39
क्षुरोऽस्य वपनं शस्त्रं कर्तिका कर्तनीत्यपि ।शल्यस्कन्दिनी धार्या त्वक्ष्णाक्षूर्नखकृन्तनम् ॥ २४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 श (syllables merged)
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 83 · p. 42
मौर्व्यादिप्रान्तमल्यादिकन्दर्पस्यैक्षवं धनुः ।हेतिरस्त्राऽयुधं शस्त्रं पुष्पाद्यस्त्रः स्मरो मतः ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.317 · p. 44
शस्त्रं पिण्डं शिलासारं गिरिसारमयोऽपि च ।तीक्ष्णकृष्णामिषे पारशवं तत्किट्टके पुनः ॥ ३१७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.381 · p. 149
लघुहस्तः शीघ्रवेधी शास्त्रं हेतिस्ततायुधम् ।अस्त्रं प्रहरणं तुल्यमथ भेदान्ब्रुवे गुरुन् ॥ ३८१ ॥
अनुष्टुप्
genderक्लीneut.doubtful
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.356 · p. 70
आयुधेऽस्त्रं च शस्त्रं च हरं प्रहरणं तथा ।धनुर्धनुश्च चापश्च कथितौ पुंनपुंसकौ ॥ ३५६ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.222 · p. 16
शस्त्रमस्त्रं प्रहरणं हननं हेतिरायुधम् ।धनुः शरासनं चापः कोदण्डः कार्मुकेषुमुक् ॥ २२२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.26 · p. 37
शिरस्त्राणं तु शीर्षण्यं जालिका त्वङ्गरक्षिका ।शस्त्रमायुधमस्त्रं च हेतिः प्रहरणं स्मृतम् ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1264 · p. 198
आयुधं हेतिरस्त्रञ्च शस्त्रं प्रहरणं पुनः ॥ १२६४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1284 · p. 201
श्रीगर्भस्तीक्ष्णकर्मा च शस्त्रः कौक्षेयकोऽक्षरः ।व्यवहारश्च देवोऽसिः विजयश्च विषाग्रजः ॥ १२८४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1791 · p. 293
लोहं शस्त्रं तथा तीक्ष्णं धीनं च धीवरं घनम् ।गिरिसारं शिलासारं पिण्डं पारशवं पुनः ॥ १७९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.323 · p. 132
अस्त्रे शस्त्रं प्रहरणमुद्घातो हेतिरायुधम् ।अस्त्रियौ तु धनुश्चापौ धनुकोदण्डकार्मुकम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.341 · p. 133
कौक्षेयस्तरवारिः स्यात्तरवारः कृपाणकः ।निस्त्रिंशः करवारोऽसिः कृपाणी शस्त्र इत्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.272 · p. 210
शस्त्रं, चापे धन्व धन्वं पुंक्लीबो धनुवद्धनुः ।धनूः स्त्रियां त्रिणतावत् तृणता धनुषोऽग्रके ॥ २७२ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ण (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.416 · p. 55
स्याच्छिलाजतु शैलेयं गिरिधातुस्तु गैरिकम् ।शस्त्रं कालायसं तीक्ष्णं कृष्णं पारशवायसी ॥ ४१६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1185 · p. 146
स्त्रियां कृष्णविषाणा सा या कण्डूव्यपनोदिनी ।शस्त्रं स्तोत्रं ऋचां साम्नां शंसनं स्तवनं क्रमात् ॥ ११८५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1325 · p. 161
अस्त्रं शस्त्रं प्रहरणमायुधं तच्चतुष्टयम् ।करमुक्तं यन्त्रमुक्तममुक्तं मुक्तमित्यदः ॥ १३२५ ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.24 · p. 62
अस्त्रं नेत्रयुगं वौषट् ॥वौषट्॥ फडस्त्रं शस्त्रमायुधम् ॥फट्॥
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.50 · p. 69
स्यान्नायकाग्रेसरिकौ नासीरं दर्प ऊष्मणि ।शस्त्रमायुधमुद्घातः स्थावरं तु धनुर्गुणी ॥ ५० ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.54 · p. 69
ऋष्टिः खड्गः तरवारिः शस्त्रो भद्रात्मजश्च नः ।धाराविषो विरासनो न्युब्जखड्गः कटीतलः ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable); pāda 3, syllable 7 स (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.111 · p. 92
चात्वालोऽस्त्री मृत्खनः स्यादुत्करोऽवकरालयः ।शस्त्राण्युक्थानि सामानि स्तोत्राणि स्तुतयोऽपि च ॥ १११ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.157 · p. 117
सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः ।न क्ली हेतिः शस्त्रमस्त्रमायुच्छत्रुघ्नमायुधम् ॥ १५७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.196 · p. 120
मुक्तामुक्तं धृतं मुक्तं नागपाशादिदीर्घकम् ।अमुक्तं छुरिकादि स्यादिति शस्त्रं चतुर्विधम् ॥ १९६ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.339
निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास रपादः Dharaṇikośa 26.1.9 · p. 163
शास्त्रं ग्रन्थे निदेशे च शस्त्रमायुधलोहयोः ।क्षीरं दुग्धे च नीरे च भूरि प्राज्यसुवर्णयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.33 · p. 307
स्याद्वृत्तमानेऽथ युगे न शस्त्रंलोहास्त्रयोः स्याच्छुरिकासु योषित् ।अस्त्रं तु चापे प्रहृतौ च खड्गेवक्त्रं मुखे वृत्तविशेषकं स्त्री ॥ ३३ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.8 · p. 43
सङ्ख्याभेदे तु शङ्खस्य शस्त्रस्यायसि लक्षयेत् ।अपराधे तु रन्ध्रस्य व्याधेः कुष्ठाख्यभेषजे ॥ ८ ॥
अनुष्टुप्
meanings
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1316 · p. 155
नरं वररुचिः प्राह शस्त्रं तु क्लीबमायुधे ।अयस्यृङ्मन्त्रभेदेषु शंसायाः साधनेषु च ॥ १३१६ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2016 · p. 245
शारिर्द्वयोः कुथे द्यूते पर्याणे ना खगे स्त्रियाम् ।शंसनेऽस्त्रायसोः शस्त्रं श्यामा युवतिकन्ययोः ॥ २०१६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 6.3.33 · p. 226
शस्त्राण्यस्त्रमयः शंसा शास्त्रं ग्रन्थनिदेशयोः ।शार्ङ्गं चापे हरेश्चापे शीलं वृत्तस्वभावयोः ॥ ३३ ॥
अनुष्टुप्

शस्त्र as a meaning in nānārtha verses