All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
स्वरादिकाण्डः · भूमिवर्गप्रकाशः (2/2)
अमोघानन्दनब्रह्मपुत्रलौहित्यलोहिताः ।कुमारो घर्घरः सिन्धुभैरवाद्यास्तथा परे ॥
2.2.121 · p. 44
अनुष्टुप्
नदभेदाश्च विज्ञेयाः सम्भेदः सिन्धुसङ्गमे ।प्रणाली च प्रणालश्च नदनद्यादिवर्त्मनि ॥
2.2.122 · p. 44
अनुष्टुप्
देविका सरयूजातौ त्रिषु दाविकसारवौ ।सौगन्धिकन्तु कह्लारं सुगन्धिकमपि क्वचित् ।सौगन्धिके रक्तवर्णे हल्लकं रक्तसन्ध्यकम् ॥
2.2.123 · p. 44
अनुष्टुप्metre not read in every line
उत्पलं स्यात् कुवलयं कुवेलं कुर्वलं तथा ।नीलोत्पलञ्च नीलाम्बुजन्म कन्दोट्टमित्यपि ॥
2.2.124 · p. 44
अनुष्टुप्
कन्दोट्टो रात्रिहासश्च सोमबन्धुश्च कन्दटम् ।पङ्कशूरणशालूकशालूनि शालूकं तथा ॥
2.2.126 · p. 44
अनुष्टुप्metre not read in every line
मूले सौगन्धिकादीनां भवेदेतच्चतुष्टयम् ।कुम्भिका वारिपर्णी च वारिमूली खमूलिका ॥
2.2.127 · p. 44
अनुष्टुप्
पर्णी पृश्नी खमूलिश्च खमूली वारिकर्णिका ।शैवालौ जलनीली च शैवालं वारिचामरम् ॥
2.2.128 · p. 44
अनुष्टुप्
हटपर्णाऽम्बुतालञ्च शोपालमपि कुत्रचित् ।कुमुद्वती स्यात् कुमुदवती कैरविनीत्यपि ॥
2.2.130 · p. 45
अनुष्टुप्
तथा कुमुदिनी च स्यादुत्पलिन्यपि कुत्रचित् ।स्यात् पद्मिनी कमलिनी विसिनी च सरोजिनी ॥
2.2.131 · p. 45
अनुष्टुप्
अम्भोजिनी च नलिनी पुष्करिण्यरविन्दिनी ।अम्लानिनी पुटकिनी नालीकिन्यादयोऽपि च ॥
2.2.132 · p. 45
अनुष्टुप्
विसप्रसूनं श्रीवासं श्रीपर्णमिन्दिरालयम् ।अरविन्दं जलेजातं नलिनञ्च महोत्पलम् ॥
2.2.134 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ण (wrong syllable)
अब्जमब्जः पुंसि कञ्जं कमलञ्च कुशेशयम् ।शतपत्रं तामरसं नलं नालीकनालिकम् ॥
2.2.135 · p. 45
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ता (wrong syllable)
सामान्यकमले कैश्चित् पुण्डरीकं निगद्यते ।लक्ष्मीगृहं कोकनदं रक्तोत्पलमलिप्रियम् ॥
2.2.137 · p. 45
अनुष्टुप्
नालीनाला नालामपि नालिकेत्यपि कुत्रचित् ।तन्तुलञ्च मृणालोऽस्त्री विषण्डं बिसमित्यपि ॥
2.2.138 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ला (wrong syllable)
अथ पद्मादिसन्दोहे षण्डः शण्डोऽपि न स्त्रियाम् ।करहाटः शिफाकन्दं शिफाकन्दोऽस्य मूलके ॥
2.2.139 · p. 45
अनुष्टुप्
केशरं केशरो न स्त्री किञ्जल्कः किञ्जलोऽस्त्रियाम् ।संवर्तिका नवदलं पद्मपत्रान्तरे दले ॥
2.2.140 · p. 45
अनुष्टुप्
शब्दरत्नावलीकोषे प्रथमोऽयं समर्थितः ।स्वर्गपातालवर्गाभ्यां स्वरादिकाण्ड ईदृशः ॥
2.2.142 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)