कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संस्थान

saṃsthānaक्ली · neut.

In 13 kośas: 13 synonym verses, 9 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1516 · p. 57
संस्थानं संनिवेशः स्यादर्थस्यापगमे व्ययः ॥ १५१६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.289 · p. 35
प्रतोली विशिखा रथ्या मुखं निःसरणं स्मृतम् ।शृङ्गाटकः पथां श्लेषः संस्थानं तु चतुष्पथम् ॥ २८९ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.778 · p. 89
स्वतन्त्रवृत्तिर्व्युत्थानमभ्युत्थानं च गौरवम् ।संस्थानं संनिवेशः स्यादास्थानं नृपतेः सभा ॥ ७७८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.89 · p. 18
संस्थानं चाथावकरः संकरः क्षिप्तके मुखम् ।स्यान्निःसरणमाघाटो मर्यादाप्यवहारकः ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.97 · p. 19
द्विमार्गो द्विपथं चारपथोऽथ त्रिपथे त्रिकम् ।चतुष्पथे चतुष्कं स्यात्संस्थानं बहुमार्गके ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.60 · p. 118
द्विपथं स्याच्चारपथस्त्रिपथं त्रिकमित्यपि ।शृङ्गाटकं स्यात्संस्थानं चतुष्कं [च] चतुष्पथम् ॥ ६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्चा (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.9 · p. 306
संस्थानं व्यञ्जनं लिङ्गं लक्षणं रूपमित्यपि ।आकृतिः स्यादुपशयो व्याधेर्यः शमकारकः ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.42 · p. 34
अन्वेषणान्वेक्षण-मार्गणानिसंवीक्षणं स्यान्मृगणा मृगश्च ।गवेषणं ना विचयोऽथ षण्ढेसंस्थानमाहुः किल संनिवेशे ॥ ४२ ॥
उपजातिः
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.268 · p. 38
भुवोऽन्तरं गूढमार्गः सुरुङ्गा सन्धिलापि सा ।चतुष्पथं चतुष्कं च संस्थानं च निगद्यते ॥ २६८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.390 · p. 100
नाशोऽभावस्तथा संनिवेशः संस्थानमीक्ष्यते ।विस्रम्भोऽप्यथ विश्वासो विकारः परिणामतः ॥ ३९० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.127 · p. 272
चतुष्पथञ्च संस्थानं चतुष्कञ्च भवेत् पुनः ।
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.386 · p. 450
प्रसिद्धं नाम संस्थानं सन्निवेशोऽपि मन्यते ।
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.21 · p. 193
संस्थानं सन्निवेशः स्यादुपस्थानं तु संगतिः ।धान्योत्क्षेपणमुत्कारः पराकारस्तु धिक्क्रिया ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.124
गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे ।सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः ॥ १२४ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.41 · p. 115
समानं सत्समैकेषु समानो नाभिमारुतः ।संस्थानमाकृतौ मृत्यौ संनिवेशे चतुष्पथे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.39 · p. 252
संस्थानमाकारचतुष्पथार्ति-ज्ञानाद्युपायेषु च संनिवेशे ॥ ३९ ॥
इन्द्रवज्रा
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.40 · p. 252
मृत्यावथो धावनमस्ति शुद्धौत्वरागतौ योषिति कण्टकायाम् ।स्यात्पावनं पाथसि किं च कृच्छ्रे* पावके व्यासगतं तथैव ॥ ४० ॥
उपजातिःmetre not read in every linenearly उपजातिः
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.3.83 · p. 40
संस्थानं तु समाप्तौ च सन्निवेशे चतुष्पथे ।सम्यक्स्थितौ च मरणे संव्यानं तूत्तरीयके ॥ ८३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.91 · p. 242
संस्थानं मरणाकृत्योः सन्निवेशे चतुष्पथे ।स्पन्दनं क्षरणे नीरे रथेऽस्त्री तिनिशे पुमान् ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2180 · p. 263
मारणे यातनायां च संस्थानं मरणे स्थितौ ।वाद्यं वंशादिके क्लीबे सच्छिद्रे सुषिरं त्रिषु ॥ २१८० ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.268 · p. 183
समानो देहवायौ च संस्थानं मृत्युरूपयोः ।सन्तानः सन्ततौ देववृक्षे चाऽपत्यगोत्रयोः ॥ २६८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 7.3.37 · p. 253
सेनांगे यातनायाञ्च सेवनं स्यूतिसेवयोः ।मृत्यौ समाप्तौ संस्थानं सन्निवेशे चतुष्पथे ॥ ३७ ॥
अनुष्टुप्

संस्थान as a meaning in nānārtha verses