कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

व

vaअ · indecl.

In 9 kośas: 5 synonym verses, 14 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह अव्ययवर्गः Amarakośa 3.4.16
व वा यथा तथेवैवं साम्येऽहो ही च विस्मये ।
अनुष्टुप्
genderअindecl.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.68 · p. 387
अब्धिपर्यायसद्मार्थः प्रचेता वश्च कुण्डली ।अब्यादःपश्चिमदिशापतिपर्यायपाशिनौ ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.35 · p. 123
यथा तथा हि दृष्टान्ते सादृश्ये तु यथा तथा ।व वा इव च दम्भं च स्थान एवं सहेति च ॥ ३५ ॥
अनुष्टुप्
genderअindecl.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.74 · p. 14
पिशाचो मेघनादस्तु वरुणो वः परञ्जयः ।दैत्यदेवश्च वातिस्तु नभःप्राणो जगद्बलः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अव्ययपर्यायाध्यायः Vaijayantī 8.8.15 · p. 288
मौने तु तूष्णीं तृष्णीकां समया निकषा हिरुक् ।साम्ये व वैवमेवेव प्रेत्यामुत्र भवान्तरे ॥ १५ ॥
अनुष्टुप्
genderअindecl.
धरणिकोश Dharaṇikośa · धरणिदास वार्धश्लोकः Dharaṇikośa 28.2.1 · p. 204
वशब्दो वरुणं प्राह इवार्थं च तदव्ययम् ।लवो रामसुते प्रोक्तो लवश्छेदनलेशयोः ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास वार्धश्लोकः Dharaṇikośa 28.2.2 · p. 204
वो दावश्च विज्ञेयो वनाग्निवनयोरपि ।भवः संसारसत्ताप्तिश्रेयःशंकरजन्मसु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वो (syllables merged)
धरणिकोश Dharaṇikośa · धरणिदास बान्ताः Dharaṇikośa 34.13.1 · p. 239
वशब्द उपमाने स्याद्वरुणे च त्वनव्ययम् ।वा समुच्चयोपमयोर्वा विकल्पेऽवधारणे ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.19 · p. 134
व स्यादपूर्तावुपमार्थके चविकल्पसादृश्यसमुच्चये वा ।वि तु प्रशस्ये विशयेऽप्यतीतेप्रसादसंबोधनपूरणे वै ॥ १९ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.87 · p. 356
वाते प्रचेतस्यपि वोऽन्यवत्स्या-द्धिमेऽव्ययं स्यादिवतुल्यकार्थे ।षष्ठ्यादिकान्तस्य च युष्मदः स्या-त्तथा बहुत्वेऽप्यथ विः खगे स्यात् ॥ ८७ ॥
उपजातिः
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.32 · p. 4
विः पक्षिनभसोर्वस्तु प्रचेतसि च शंकरे ।वाग्वचःश्रुतदेव्योः स्याद्वौपम्येऽव्ययमीरितम् ॥ ३२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.1 · p. 285
वकारः पवने वाहौ वरुणे मन्त्रणेऽपि च ।कल्याणे बलवत्यश्वे वसतौ वरुणालये ।वो गन्धने गतौ वाले तन्त्रवायकुविन्दयोः ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.45 · p. 302
व स्यादेकार्थे श्रेष्ठार्थे वरुणार्थे त्वनव्ययम् ॥वा स्यात्समुच्चयैवार्थविकल्पार्थोपमासु च ॥
अनुष्टुप्metre not read in every line
तन्त्राभिधान Tantrābhidhāna · अज्ञात मन्त्राभिधान Tantrābhidhāna 1.26 · p. 3
ल-कारश्च पिनाकीश इन्द्रांशौ स्वर्बलानुजः ।व-कारो वरुणो बालो मेदः खड्गीश्वरोऽजरः ॥ २६ ॥
अनुष्टुप्
वो बालो वारुणी सूक्ष्मा वरुणो मेदसंज्ञकः ।खड्गीशो ज्वालिनी वक्षः कलसं ध्वनिवाचकः ॥ १५१ ॥
अनुष्टुप्
उत्कारीशस्तु नीवीको वज्रं स्फिक् सागरः शुचिः ।त्रिधातुः शङ्करः श्रेष्ठो विशेषो यमसादनम् ॥ १५२ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.32 · p. 26
प्रचेता वः समाख्यातः कलसे वः प्रकीर्त्तितः ।पक्षी च विर्निगदितो गमने विः प्रकीर्त्तितः ॥ ३२ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.1 · p. 27
अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
metre not recognised
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.45 · p. 45
मेधा धियो जलान्तस्थः खड्गीशो हंस-वारिदौ ।वरुणश्च शिवो रौद्रो मृतेशो वा-र्णकः स्मृतः ॥ ४५ ॥
अनुष्टुप्