कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शुच्

śucस्त्री · fem.

In 13 kośas: 12 synonym verses, 10 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.300 · p. 16
शोकः शुक्शोचनं खेदः क्रोधो मन्युः क्रुधा रुषा ।क्रुत्कोपः प्रतिघो रोषो रुट् चोत्साहः प्रगल्भता ॥ २९९ ॥अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका ।अध्यवसाय ऊर्जोथ वीर्यं सोऽतिशयान्वितः ॥ ३०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.25
वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम् ।पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.98 · p. 428
छलं मिषं च वैदग्धी भङ्गी चेभनिमीलिका ।शोकः खेदः शोचनं षण् शुक् स्त्रियामथ रुट् स्त्रियाम् ॥ ९८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.126 · p. 88
हासिका क्रमतो हासः शोक-खेदौ च शोचनम् ।शुक् स्त्रियामथ दैन्यं स्यात्कार्पण्यं दीनता खिदा ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.210 · p. 30
विषादस्त्ववसादः स्यात्सादोऽपि च विषण्णता ।शोकः शोचनखेदौ शुक् क्रोधः कोपक्रुधारुषाः ॥ २१० ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.169 · p. 23
अभिध्याने तितिक्षा स्याच्छोके मन्युश्च शुक् स्त्रियाम् ।स्नेहे प्रेमा प्रेम हार्दं सौहार्दं प्रियतेति च ॥ १६९ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.96 · p. 28
शोकः शुक् शोचनं खेदः पश्चात्तापोऽप्यनिर्वृतिः ।विषाद आधिरुद्वेगश्चिन्ता कम्पश्च वेपथुः ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.438 · p. 55
अथ स्यात् शोचनं शोकः शुक् खेदश्च रुषा तथा ।रुट् रोषो प्रतिघः कोपः क्रुत् क्रोधश्च तथा क्रुधा ॥ ४३८ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.477 · p. 33
मन्युः शोकःस्त्रियां शुक् च शुचा निःशम इत्यपि ।पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ।कोपः क्रोधः क्रोधाभीमः आमर्षः प्रतिघोऽपि च ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.117 · p. 186
शोचने शुक् शुकः शोकः, कोपे क्रोध-क्रुधा-क्रुधः ।रुषा-रोष-रुषश्चाप्युत्साहो तूद्याम उद्यमः ॥ ११७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.978 · p. 122
उत्सेकश्चाभिमानश्च मानः स्यान्मानसोन्नतिः ।गुणेषु दोषाविष्कारः स्यादसूयाथ शुक् स्त्रियाम् ॥ ९७८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.183 · p. 98
शोकस्तु मन्युरुत्खेवदः शुक् स्त्री दैन्यानुशोचने ।क्रोधः कोपोऽमर्षरोषौ रुषा रुट्क्रुत्क्रुधाः स्त्रियः ॥ १८३ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.

शुच् as a meaning in nānārtha verses