All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
मङ्गलाचरणम्
ओं स्वस्ति श्रीगणेशाय नमः । ओं नमः ॥
विषमपदविषधरालीं निहत्य संगृह्य शेवधिविशेषान् ।सकलजनसुलभविभवान्कश्चन निर्मत्सरः कुरुते ॥ २ ॥
1.2 · p. 1
आर्या
भागुरिकात्यहलायुधहुग्गामरसिंहशाश्वतादिकृतान् ।कोशान्निरीक्ष्य निपुणं धन्वन्तरिनिर्मितं निघण्टुं च ॥ ३ ॥
1.3 · p. 1
गीतिः
लिङ्गानुशासनानि च विचार्य लक्ष्यं महाकवीनां च ।कुरुतेनेकार्थानां शब्दानां मङ्खकः कोशम् ॥ ४ ॥
1.4 · p. 1
आर्या
यत्रैक एव रूढोर्थो यौगिकस्तत्र दर्श्यते ।अनेकस्मिंस्तु रूढेर्थे यौगिकः प्रोच्यते न वा ॥ ६ ॥
1.6 · p. 1
अनुष्टुप्
पदभङ्गादनेकोर्थः प्रकटीक्रियते न च ।विशेषणप्रत्ययाद्यैः सिद्धं लिङ्गं न चोच्यते ॥ ७ ॥
1.7 · p. 1
अनुष्टुप्
प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ।स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ ८ ॥
1.8 · p. 1
अनुष्टुप्
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति ।निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ ९ ॥
1.9 · p. 1
अनुष्टुप्